(२५५)
|
अन्वयः
कः अपि अपूर्वः दुर्मेधाः वेधाः समुत्थितः (इति) शङ्के। पु (वेधाः) क्लेशनिष्पन्नां स्वकृतिं कथं नाशयेत् ।
व्याख्या
कोऽपि कश्चित् पूर्व प्राचीन इत्यपूर्वोऽर्वाचीनो दुष्टा दोषान्विता मे बुद्धिर्यस्य स दुर्बुद्धिर्वेधा ब्रह्मा ‘स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड् विधि इत्यमर । समुत्थित सवृत्त (इति) शङ्के तर्कयमि । पुराण प्राचीनो वेध ब्रह्मा क्लेशेन महत्प्रयासेन निष्पन्ना सम्पादिता स्वकृतिं राजाऽऽहवमल्लदेवोत्पाद नकार्यं कथं नाशयेत् समुन्मूलयेत् । अत्रोत्प्रेक्षालङ्कार।
भाषा
मालूम होता है कि कोई नवीन, बुद्धिहीन ब्रह्मा आ गया है । क्यो कि यदि पुराना ब्रह्मा होता तो परिश्रम से बनाई हुई राजा आहवमल्लदेव रूपी अपनी वस्तु को कैसे नष्ट करता ।
|
अन्वयः
शौर्य अहो । धैर्य अहो । गाम्भीर्यविभ्रमाः चित्रम् । यत् क्वचित् एकत्र पुनः ते गुणाः दुर्लभाः (तत्) सत्यम् ।
व्याख्या
शौर्य नृपाहवमल्लदेवनिष्ठ वीरत्वमहो आश्चर्यकारि । धैर्य नृपाहवमल्लदेव निष्ठ वीरत्वमहो अद्भुतम् । गाम्भीर्यस्य मर्यादाया विभ्रमा विलासाश्चित्रमा श्चर्यावलम्बिन । यत् तदिति क्वचिदित्यादिवाक्यपरामर्शकम् । क्वचित् कस्मिश्चिदेकत्रैकस्मिन् स्थाने आधारे वा पुनस्ते पूर्वोक्तास्सर्वे गुणा शौर्यादयो दुर्लभा दुष्प्रापास्तत् सत्यमवितथम् । आहवमल्लवदेवे राज्ञि पञ्चत्व गते सति ।