( ४१२ )
गते समाप्तिं नरनाथचक्रे निचोलकारासितचापदण्डः । |
अन्वयः
असौ चोलस्य प्रतापं निर्वाप्य नरनाथचक्रे क्रमेण समाप्तिं गते (सति) निचोलकारासितचापदण्डः (सन्) पुनः कल्याणं विवेश ।
व्याख्या
असौ विक्रमाङ्कदेव चोलस्य चोलदेशाधिपस्य प्रतापं प्रभावं निर्वाप्य शान्तिं नीत्वा नराणां मनुष्याणां नाथाः स्वामिनस्तेषां चक्रं समूहस्तस्मिन् राजसमूहे क्रमेण शनैः समाप्त गते पराजयं प्राप्ते सति निचोल आवरकम् ("खोल" इति भाषायां प्रसिद्धः।) एव कारा गुप्तिगृहं ‘कारास्याद्वन्घनलये' इत्यमरः । तस्या मासितो निवेशितश्चापदण्डो धनुर्दण्डो येन सः । एवम्भूतस्सन् पुनर्मुहुः कल्याणं कल्याणकटकपुर विवेश प्रविष्टवान् समाजगामेत्यर्थः । अत्र रूपकालङ्कार ।
भाषा
विक्रमाङ्कदेव ने, चोल देश के राजा के प्रताप को ठंडा कर अर्थात् उसे
हराकर, सम्पूर्ण राजाओं को क्रम से पराजित कर देने पर, अपने धनुष्य को खोल
में रखकर फिर से कल्याण कटक पुर में प्रवेश किया ।
अत्रान्तरे मन्मथबालमित्रं लतावधूविभ्रमसूत्रकारः। |
अन्वयः
अत्रान्तरे मन्मथबालमित्रं लतावधूविभ्रमसूत्रधारः पिकपञ्चमस्य स्थानोपदेशी शृङ्गारबन्धुः मधुः आविरासीत् ।
व्याख्या
अत्रान्तरेऽस्मिन्नवकाशे मन्मथस्य कामदेवस्य । 'मदनो मन्यथो मारः प्रद्युम्नो मीनकेतनः' इत्यमरः । बालमित्रं बलसखा, लता एव वध्वः कान्तास्तासां विभ्रमस्य बिलासोपदेशस्य सूत्रधारो नाट्याचार्यः पिकाना कोकिलानां ‘वनप्रियः परभूतः कोकिलः पिक इत्यपि' इत्यमरः । पञ्चमः पञ्चमस्वरस्तस्य पिकाः