सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
(४१५ )

समान कलियो से युक्त लताओ को नये लाल पत्ते प्रदान करने में कुशल, भौरों की गुजाहट से कीर्तिगान किया जाने वाला वसन्त युवावस्था को प्राप्त हुआ।

सलीलमङ्गीकृतपञ्चबाणसाम्राज्यभारस्य मघोरभङ्गः ।
एको भुजस्तस्य लवङ्गवायु-अन्यः पिकस्रीकलपञ्चमोऽभूत्॥३६॥

अन्वयः

सलीलम्. अङ्गीकृतसाम्राज्यभारस्य तस्य मधोः अभङ्गः एक- भुजः लवङ्गवायुः अन्यः पिकस्त्रीकलपञ्चमः अभूत् ।

व्याख्या

लीलया विलासेन सहितं सलीलमङ्गीकृतः स्वीकृतः पञ्चबाणस्य कामस्य साम्राज्यभारोऽखिलराज्यशासनभारो येन स तस्य स्वीकृतकामसाम्राज्यभारस्य तस्य प्रसिद्धस्य मघोर्वसन्तस्याऽभङ्गोऽविकलो बलिष्ठ इत्यर्थः । एको भुजो बाहुर्लवङ्गवायुर्दक्षिणानिलोऽन्य इतरो बाहू पिकानां कोकिलानां स्त्रियः कोकिलास्तासा कलः सुन्दरः पञ्चमः पञ्चमस्वरोऽभूत् । एतेन वसन्तस्य कामसाम्राज्ये मन्त्रित्वं प्रतीयते ।

भाषा

खेलवाड से ही कामदेव के साम्राज्य के समग्र कार्यों को करने का स्वीकार करने वाले उस वसन्त ऋतु का एक बलवान् हाथ दक्षिणानिल था और दूसरा हाथ कोयल का सुन्दर पञ्चम स्वर था,। अर्थात् काम के राज्य में वसन्त ही प्रधान मन्त्री था जो दक्षिणानिल तथा कोकिला के पञ्चम स्वर का प्रयोग कर उसका साम्राज्य चलाता था ।

राशीकृताः पुष्पपरागपुञ्जाः पदे पदे दक्षिणमारुतेन ।
मत्तस्य चैत्रद्विरदस्य कर्तुमक्षूणहेतोरिव पांसुतल्पान् ॥४०॥

अन्वयः दक्षिणमारुतेन पदे पदे मत्तस्य चैत्रद्विरदस्य अक्षणहेतोः पांसुतल्पान् कर्तुम् व पुष्पपरागपुञ्जा राशीकृता।