( ३२१ )
नाद्य यावदवलौकिता जनैः क्वापि तस्य वचसामसत्यता । |
अन्वयः
अद्य यावत् जनैः, तस्य वचसाम् असत्यता क्व अपि न अवलोकिता। यदि मादृशां शुभविपर्ययात् सा भवादृशेषु व्यक्तिम् एष्यति ।
व्याख्या
अद्य यावदाधुनिककालपर्यन्तं जनैर्लोकैस्तस्य वचसां वाणीनामसत्यता मिथ्यात्वं क्वाऽपि कस्मिन्नपि विषये नाऽवलोकिता न दृष्टा ननुभूतेत्यर्थः । यदि परं मादृशां मत्सदृशानां शुभस्य पुण्यस्य विपर्ययो वैपरीत्यं तस्मात्पापात् दुर्भाग्याद्वा साऽसत्यता भवादृशेषु त्वादृशेषु महानुभावेषु व्यक्ति प्रकाशमेष्यति प्राप्स्यति । अयमस्माकं दौर्भाग्यस्यैव प्रभावः स्याद्यदि तस्य वचसामसत्यता भवत्सु प्रकटीभवेदिति भावः ।
भाषा
आज तक लोगो को किसी भी विषय में द्राविडेश्वर की वाणी की असत्यता का अनुभव नही हुआ है । यदि आपके अनुभव में ऐसी बात आवे तो वह मेरे ऐसो के पाप से या दुर्भाग्य से ही हो सकता है ।
एवमादिभिरनेन बोधितः कोविदेन वचनैः पुनः पुनः। |
अन्वयः
कोविदेन अनेन एवम् आदिभिः वचनैः पुनः पुनः बोधितः स्वयं च ज्ञातचोलहृदयः सः प्रा निवेदितं नदीतटम् अगात्।
व्याख्या
कोविदेन पण्डितेन लौकिकव्यवहाराभिज्ञेनेत्यर्थः । अनेन दूतेनैवमादिभिरेतादृशैर्वचनैः पुनः पुनो भूयो भूयो बोधितो विज्ञापितः स्वयञ्च गुप्तचरादिभिर्ज्ञातं परीक्षितं चोलस्य चोलदेशाधिपस्य हृदयं येन स विज्ञातचोलराजहार्दिकभावः स विक्रमाङ्कदेवः प्राक्प्रा पूर्वं निवेदितं सूचितं नदीतटं न्तुङ्गभद्रानदीतीरमगाज्जगाम ।