पुटमेतत् सुपुष्टितम्
309
षोडशः प्रश्नः
भूताधिकसन्धुक्षणकर्मकारकतिक्तरसवद्द्रव्यं अग्निमान्द्यामनिवर्तकम् ।
२३
पाठाकरञ्जानलशरपुङ्ग पुनर्नवानिम्बलशुनयवानीचरबन्धन[१] दीप्यकजीरकबिल्वातिविषावचासैन्धवविश्वचव्यनैतलरास्ना[२] मृतातसी[३] भृङ्गकुबेराक्षलोध्रकवचामांसि-एलावतालपत्रिका[४] केसदारुलुक[५] ग्रन्ध्याग्नेयाः चूर्णक्वाथघृततैललेहरूपाः मन्दानलामयनिवर्तकाः ।
२४
गगनपवनभूतस्वसमानाधिकरणोषणरसोपलम्भकद्रव्यादनजाताजीर्णमपित्तविषरूपोपाधिकग्रहणीरोगहारकगगनभूताधिकगुणोपलम्भककटुरसवद्द्रव्यम् ग्रहणीरोगनिवर्तकम् ।
२५
आर्द्रकवत्सकतलपोटकचूतार्जुनवटाश्वत्थबिल्वबदरलशुनविश्वगाङ्गेरुकीनागबलचिञ्चाजमोदरसदाडिमकरञ्जवाशाशुकलोध्रवृद्धदारुशरपुङ्खमरीचदीप्यकजीरकलवङ्गकरुणाभीरुनिम्बकुटजाद्याः चूर्णक्वाथलेहभृता ग्रहणीरुजापहाः ।
२६
अनलानिलगुणभूयिष्ठस्वसमानाधिकरणकषायरसोपलम्भकयावद्द्रव्यादनजाताजीर्णपित्तविषक्रिमिगतसिराविकारजातसप्तधातुरसकारक गगनभूयिष्ठद्रव्यं विषूच्यामयनिवर्तकम् ।
२७
कट्वादि दशद्रव्यं चूर्णक्वाथभेषनं श्वासछर्द्यामयनिवारकम् ।
२८
चन्दनादिसप्तपदार्थाः चूर्णक्वाथोपयुक्ताः श्वासछर्द्यामयनिवारकाः ।
२९