पुटमेतत् सुपुष्टितम्
306
आयुर्वेदसूत्रे
पञ्चदश सप्तदश विंशतिपदार्थाः तैलघृतोपयोग्याः श्वासकासक्षयघातकाः ।
७९
इत्यायुर्वेदस्य पञ्चदशः प्रश्नः समाप्तः.
अथ षोडशः प्रश्नः.
तद्वत्सगुडादियुक्तलेह्यादयस्तथा ।
१
कपित्थादिद्वाविंशतिपदार्थाः हिध्मामयघातकाः ।
२
तावत्पदार्थास्तैलघृतलेहरूपाः हिध्मामयनिवर्तकाः ।
३
तत्तद्भूतविशुद्धद्रव्यादनाजीर्णजन्यामयधातुशोषकारकयावद्द्रव्यनिवर्तकद्रव्यं तत्तद्धातुपोषकम् ।
४
दशमूलादिपञ्चदशद्रव्यं यथायोगं रसधातुशोषकपोषकम् ।
५
घनादिपञ्चदशद्रव्यं रक्तधातुशोषकपोषकम् ।
६
रास्नादिपञ्चदशद्रव्यं यथायोगं धातुशोषकमांसधातुगतामयहारकम् ।
७
वालुकादिचतुर्दशद्रव्यं मेदोधातुविकारनाशकम् ।
८
जात्यादिषड्द्रव्यं यथायोगं चरमधातुगतरोगप्रकोपहारकम् ।
पवनभूतगुणाधिकद्रव्यादनाजीर्णजन्यामपित्तविषक्रिमिगतसिराविकारजातं छर्दिरोगहेतुकम् ।
१२