पुटमेतत् सुपुष्टितम्
294
आयुर्वेदसूत्रे
पुनर्वसूभाप्रतिपादकं सप्तत्रिंशत्सिराधारकं ऐवर्णाधारकमलं रतिसुखकारकम् ।
७
तिष्यतारारूपं सप्तत्रिंशत्सिरावृतं ओवर्णाश्रितनाभिपद्मं श्वासपवनगतिकारकम् ।
८
आश्लेषानक्षत्रात्मकं साप्तत्रिंशत्सिरावृतं औवर्णाधारभूतं
कुण्डलीकृतनाभ्यावृतपद्मं पवनगतिकारकम् ।
९
मखानक्षत्रात्मकं सप्तत्रिंशत्सिरावलम्बकं ‘अम्’ इत्यनुसारबोधकनाभ्यावृतपद्मं पाचकपित्तप्रतिपादकम् ।
१०
फल्गुनीनक्षत्ररूपं सप्तत्रिंशत्सिरावलम्बकवर्णज्ञापकवृषणद्वयपद्मं सप्तधात्वङ्कुरालवालपोषकम् ।
११
उत्तरफल्गुनीनक्षत्रात्मकं सप्तत्रिंशत्सिरावलम्बखवर्णज्ञापकरोमराजिपद्मं विसर्जनरूपसुखहेतुकम् ।
१२
हस्तोडुरूपप्रतिपादकं सप्तत्रिंशत्सिराश्रितगवर्णज्ञापिदक्षिणपक्षपद्मं गर्भाशयकारकम् ।
१४
चित्रानक्षत्ररूपं सप्तविंशत्सिरावृतं घवर्णबोधकवामपक्षगतपद्मं परिपूर्णगर्भाशयकारणम् ।
१५
स्वातीताराप्रतिपादकं सप्तत्रिंशत्सिराधारकं ङवर्णज्ञापकं [२]दक्षिणहस्तपद्मं तत्तच्छरीरगतभिन्नस्वर[३]ज्ञापकम् ।
१६
विशाखानत्ररूपं सप्तत्रिंशत्सिरावलम्बकचवर्णद्योतकवामहस्तपद्मं स्त्रीपुंसस्वरभेदज्ञापकम् ।
१७