पुटमेतत् सुपुष्टितम्
298
आयुर्वेदसूत्रे
क्वचित्क्वाथयोगाः ।
६९
क्वचिच्चूर्णादयः ।
७०
क्वचित्तैललेहघृतादयश्च ।
७१
अश्विनीदेवतार्चनं तत्र भेषजम् ।
७२
तत्तन्नक्षत्रविगतियोगग्रहयुक्तकालसंयोगवशाज्जातज्वराः
कष्टसाध्याः । निवर्त्यनिवर्तकज्ञानं यथायोगं तन्निवर्तकम् ।
७३
भरणिविगतियोगग्रहयुक्तकालसंयोगादतिसारामयाः प्रदृश्यन्ते ।
७४
इवर्णज्ञापकयावत्सिरानालावृततत्तदौषधियोगाः तन्निवर्तकाः ।
७५
यमदेवतार्चनं निवर्तकम् ।
७६
कृत्तिकाभाविरुद्धगतिजातग्रहयुक्तकालसंयोगवशाद्ग्रहणीरोगः प्रपद्यते ।
७७
उवर्णज्ञापकयावत्सिरानालाऋवृतौषधियोगकरणं ग्रहणीरोगनिवर्तकम् ।
७८
अग्निदेवताप्रार्थनविधिः निवर्तकः ।
७९
रोहिणीऋक्ष विगतियोगजातग्रहयुक्तकालसंयोगवशादर्शारोगप्रवृत्तिः ।
८०
ऋवर्णद्योतकयावत्सिरानालावृतनिवर्तकद्रव्यं अर्शोरोगनिवर्तकम् ।
८१
प्रजापतिदेवताप्रार्थनं तत्र भेषजम् ।
८२
मृगशीर्षविरुद्धगतियोगजातग्रहयुक्तकालसंयोगवशादजीर्णामयाः प्रपद्यन्ते ।
८३