सामग्री पर जाएँ

पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६०
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


षययदेषस्य कारणत्वस्थले तत्कायता रजतादिलौकिकप्रकारता- निरूपितसंसर्गतानिरूपितविशेष्यतासम्बन्धेन चाक्षुषत्वादिना वा- च्या । तथा च लाघवात्तादात्म्यादिसम्बन्धेन रजवादिनैव सो- च्यतामिन्द्रियनिष्ठकाचादिदोषस्यापि शंखादिविषयविशेष एव पी- तत्वादिभ्रमविशषेजननात्तादृशविषयविशेषनिष्ठे न स्वाश्रयसंयोगादि ना हेतुत्वे तत्कार्यताऽपि स्समवायादिना पीतत्वादिनैवोच्यताम् । एवमान्मनिष्ठरागादिदोषस्य हेतुत्वस्थलेऽपि रजतत्वादिनैव ।

 न च तत्र रजतदेशात्मपत्यासत्यसम्भवः शंकनीयः । शरी: रावच्छेदेन ज्ञानादेरिव शुक्तीदन्त्व्वादिवैशिष्ट्यावच्छेदेन रजतादेरा- त्मसमवाये बांधकामावात् । तत्प्रत्यासत्यैव कार्यत्वसम्भवात् । अत एव भ्रमस्थले रजतायुत्पत्यंगीकारे दोषरहितस्यापि तत्प्र- त्यक्षमस्त्विति परास्तम् । तत्पुरुषसमवेतविषयकप्रत्यक्षे तादात्म्ये- न तत्पुरुषत्वेन हेतुत्वादित्याहुः ।

 तन्न । सत्यरजतादिस्थत्वे दोषाभावेन व्यभिचारात् । तत्रापि दोषकल्पनेऽप्रामाण्यस्य परतस्त्वानुपपत्यनिवृत्तेः। प्रतिभासिकव्या- वहारिकयोरवैलक्ष्यापत्तेश्च ।।

 न चानिर्वचनीयरजतांगीकारे तत्र प्रसिद्धरजतार्थिनः प्रवृ: त्यनुपत्तिरिति वाच्यम् । प्रसिद्धप्रसिद्धोदासीनरजताविषयकज्ञा- नस्यैव प्रवर्तकत्वात् ।

 मधुसूदनसरस्वत्याचार्यास्तु रजतत्वं पारमार्थिकत्वाभिमतरज- तव्यक्तिभिन्नवृत्ति सकलरजतवृत्तिजातित्वात् । यदेवं तदेवं यथा सत्तादि तथा चेदं तस्मात्तथा । न च रजतमात्रावृत्तित्वमुपाधिः । पक्षमात्रव्यावर्तकत्वेन पक्षेतरवदनुपाधित्वात् । नापि रजतभि- न्नवृत्तित्वम् । उक्तदोषात् । नचाऽपयोजकत्वम्, प्रसिद्धव्यक्तिभाने प्रमाणाभावात् व्यक्यन्तरानुत्पादे च निर्विषयज्ञानानुत्पत्तेरेव बाधकतर्कस्य विद्यमानत्वात् । यतः पठन्ति-*अर्थेनैव विशेष हि