एतत् पृष्ठम् परिष्कृतम् अस्ति
२५५
पञ्चमोऽङ्कः
मलयकेतुः--(सबाष्पम् ।) हा तात् ॥
राक्षसः-( [५]स्वगतम् ।) कथं पर्वतेश्वरेण धृतपूर्वाणीत्याह । व्यक्तमेवास्य भूषणानि । ([६]प्रकाशम् ।) एतान्यपि चाणक्यप्रयुक्तेन
वणिग्जनेनामासु विक्रीतानि ॥
मलयकेतुः-आर्य, तातेन धृत[७]पूर्वाणां विशेषतश्चन्द्रगुप्तहस्तगतानां वणि[८]ग्विंक्रय इति न युज्यते । अथ वा युज्यत एवैतत् । कुतः। <poem> चन्द्रगुप्तस्य विक्रेतुरधिकं [९]लाभमिच्छतः ॥ कल्पिता[१०] मूल्यमेतेषां क्रूरेण भवता वयम् ॥ १७ ॥
राक्षसः-(स्व[११]गतम् ।) अहो सुश्लिष्टोऽभूच्छत्रुग्रयोगः । कुतः ।
एतानीति । वल्लभानि प्रियाणि भूषणानि यस्येति बहुव्रीहिः । शेषं स्पष्टम् ॥ १६ ॥
- ↑ वल्लभभूषणस्य A.. P. E.; गुणवल्लभ वल्लभानि H.
- ↑ भूषितानि. R.
- ↑ °तोभिमुख° G.; कृताभ्रभासो N.
- ↑ समये A. P. E.
- ↑ आत्मग° B.; तत्कथम्. G.; B. N, R. M. read °श्वर; B. E. N. om. व्य...णानि.
- ↑ R. G. om. प्र...एतान्यपि; E.. om. प्रकाशम् and reads सुव्यक्तमेतानि शा; 3. N. om. व्य...नि and read प्र...व्यक्तमेतान्यपि तेन चा; M. adds एव after प्रयुक्तेन and E.reads वणिच्यञ्जनेन; प्रकाशम् om. & व्यक्तं before एतानि, H.
- ↑ G. E. adds आभरणानाम्; B. N. आभरणविशेषाणाम्; P. has चाणक्य for चन्द्रगुप्त further on,
- ↑ °णिग्भ्यः क्रयाधिगम इति. B. E. N.; °क्रयाधिगत इति (?) M.; °क्रेयाधिगतमित R; B E. N. add एतत् after the first युज्यते and B. N. om,एतत्कुतः at the end of the Sentence, R. G. R. om. कुतः; क्रयादधिगमः H
- ↑ °च्छता E.
- ↑ °ल्पितम् G. N.
- ↑ A. E. B. N. read आत्मग; R. M.on, अहो. For शत्रु B. N. read एष.; G. om. it.; E, reads °ष्टोयं भूपणप्रयोगः; R. °भूच्छत्रुयोगः,