ळितनिगळः ऐरावणः ऐरावतः तस्य उद्भटविलासैः दशमुखावस्थानावसरे तद्दोर्दण्डप्रतापशोषितमदतयाऽवस्थित ऐरावतस्तस्मिन्नस्तमिते प्ररूढमदतया निरर्गळप्रचारोऽजनीति भावः । अत्र दशमुखशमनेऽपि दिवः पूर्वावस्थानुवृत्तिश्लेषोज्जीविता ॥
यथावा--
असमाधिक एव भवन् पुरा मुरारेऽथ तव पदं प्रेप्सुः । दधदपि समाधिमुच्चैरसमाधिक एव भवति बत मनुजः ॥ १८२२ ॥
असमः आधिर्यस्य सः अविद्यमानस्समार्ध्यिस्य स इति च । असमाधिक एव असदृशाधियुक्त एव । समाधिरहित एव । निस्समाभ्यधिक एवेति च । अत्रापि असमाधिकत्वरूपपूर्वावस्थानुवृत्तिश्लेषगर्भिता ॥
यथावा--
प्रविसरति तव कटाक्षे विश्राणयतेऽन्नमम्ब सुगुणो यः । अपि तस्मिन्विकले बत विश्राणयतेऽन्नमेष सुगुणतया ॥ १८२३ ॥
हे अम्ब ! तव कटाक्षे प्रविसरति सति यः पुमान् सुगुणः--
स श्लाघ्यस्स गुणी धन्यस्स कुलीनस्स बुद्धिमान् ।
स शूरस्स च विक्रान्तो यं त्वं देवि निरीक्षसे ॥
इत्युक्तरीत्या कल्याणगुणवान् सन् अन्नं विश्राणयते वितरति ‘श्रण दाने’ चौरादिकादस्मात्स्वार्थे ण्यान्ताल्लट् । एष पुमान् तस्मिन् तव कटाक्षे विकलेऽपि स्वस्मिन् परावृत्तेऽपि सुगुणतया