अत्र भद्राशब्देनार्थवता भद्रकरणनामसूचनम् । मुद्रेति मुद्रालंकारस्यापि सूचनमिति विशेषः ॥
शकुनिध्वजाविभाज्यं सकलं तत्किमपि तस्य साम्राज्यम् । दत्तां विभवं प्राज्यं तत्तादृशमखिलविबुधपरिपूज्यम् ॥ १७४९ ॥
अत्र शकुनीत्यर्थवत्पदैकदेशेन शकुनिकरणनाम्नस्सूचनम् ॥
सुचतुरमतिरपि यस्ते न चरणकमलद्वयं नमेज्जातु । अचतुष्पात्खर एव स न च विशयोऽत्रास्ति वचननिचयैः किम् ॥ १७५० ॥
अत्र चतुष्पादिति पदैकदेशेनार्थवता चतुष्पात्करणनामसूचनम् ॥
नागवरभोगबाहौ रागवती भगवतीह वागीशे । द्रागवतात्प्रचुरभवोद्वेगवतोऽस्मान् कृपाझरी काऽपि ॥ १७५१ ॥
अत्र नागवरेति पदैकदेशभूतेन नागवेति वर्णत्रयेण नागवाख्यकरणनामसूचनम् ॥
भवभरतपर्तुतापा भवन्ति तेऽमी चिरं न साटोपाः । कमलापाङ्गा मानसकेकिंस्तु घ्नन्त्यमून् घनस्मेराः ॥ १७५२ ॥
हे मानसकेकिन् ! चित्तमयूरेति संबुद्धिः । तेऽमी भवभरतपर्तुतापाः ग्रीष्मागमोष्माणः चिरं साटोपाः सावष्टम्भाः न भवन्ति । कुत इत्यत आह-- कमलेति । घनस्मेराः प्रावृषेण्यजलदमनोहराः । इदं विशेषणं तापाटोपलोपनैपुण्याभिप्रायगर्भम् ।