इति रत्नमाला । अखिलं सकलं ग्रहं डाकिनीपूतनादिभूतविशेषं--
ग्रहोऽनुग्रहनिर्बन्धग्रहणेषु रणोद्यमे । |
इति मेदिनी । संमार्ष्टि निरस्यतीति यावत् ॥
सदा कराळवदनो नारसिंहो महारवः । |
इत्याद्यपामार्जनाध्यायोक्तक्रमेण वाराहनारसिंहादिमहामन्त्राभिमन्त्रितकुशादकमार्जनेनाखिलान् ग्रहान् प्रणुदतीति भावः । तत्र हेतुमाह-- विवक्षितेति । हि यस्मात् असावित्येतदत्राप्यनुषज्यते । असौ देवेज्याशीलः पुमान् विवक्षितानुग्रहैकतानः विवक्षितेषु वक्तुमिष्टेषु आदेशकारिषु विधेयेष्वित्यर्थः । ‘विधेयो विनयग्राही वचनेस्थित आश्रवः' इति हि विधेयपर्यायाः पठ्यन्ते । न हि वक्तुमनिष्टेषु जनेषु विवक्षा कस्यचिदपि भवति । योऽनुग्रहः तस्मिन् एकतानः एकाग्रः 'एकतानोऽनन्यवृत्तिरेकाग्रैकायनावपि' इत्यमरः । विधेयजनानुग्रह एवोक्तरीत्या तदीयग्रहादिसर्वानिष्टनिवारणे हेतुरिति भावः । अनेन--
अनाराधितगोविन्दा ये नरा दुःखभागिनः । |
इत्यपामार्जनोक्तप्रश्ने यद्दयाळुत्वमपामार्जनशान्तिकरणहेतुतयोक्तं तत्संगृहीतम् ।
पक्षे-- हे देव! यः पुमान् इज्याशीलः यायजूकः असौ