मुद्राराक्षसम्।
तृतीयोऽङ्कः ।
( ततः प्रविशति कञ्चुकी ।)
कञ्चुकीः--(सनिर्वेदम्।[१] )
अथ राक्षसाभिलष्यमाणचाणक्यचन्द्रगुप्तविरोधकथनार्थं विमर्शसंधिरारभ्यते । तृतीयचतुर्थावङ्कौ विमर्शसंधिः ॥ ‘गर्भसंधौ प्रसिद्धस्य बीजार्थस्यावमर्शनम् । हेतुना येन केनापि विमर्शः संधिरुच्यते ॥' इति लक्षणात् । गर्भसंधौ प्रसिद्धस्य मुहुरन्विष्टस्य चाणक्यनीतिरूपस्य बीजस्य कौमुदीमहोत्सवप्रतिषेधादिना प्रकरीनाम्न्याल्पया कथया चावमर्शनात् अनुसंधानात् नियताप्तिप्रकर्यो: संबन्धस्य चात्र सत्त्वात् । तृतीयेऽङ्के नियताप्तिः ॥ चतुर्थेऽङ्के राक्षसचारसंवादरूपा कथाप्रकरी वर्ण्यते ॥ नियताप्तिप्रकर्यानुगुण्येनास्य संधेस्त्रयोदशाङ्गानि ॥ ‘तत्रापवादसंफेटौ विद्रवद्रवशक्तयः । द्युतिः प्रसङ्गश्छलनं व्यवसायो विरोधनम् । प्ररोचना विचलनमादानं च त्रयोदश ॥'
रूपादीति । यैश्चक्षुरादिभी रूपादिषु विषयेषु गृह्यमाणेषु तत्तद्विषये तृष्णा अभिवर्धते तानीन्द्रियाणि विकलानि सन्ति विषयान्न गृह्णन्ति ।