चेतनवर्गस्य संयोजकश्चाहमित्यर्थः” इति भाष्यम् । कोशमिव अण्डमिव ‘पेशी कोशो द्विहीनेऽण्डम्' इत्यमरः । अत्रोत्तरार्धे विधातृकादम्ब इत्यत्र उपमितसमास एव, विशेषणसमासवेद्यस्य तादात्म्यस्य प्रकृतेऽनुपयोगात् । उपमानप्रायपाठाच्च । 'श्रीश ततोऽजनि मराळ इव धाता' इति तुरीयपादपाठे तु स्पष्टैवोपमा । अत्र भगवतः कलहंसोपमा शब्देनानभिहिताऽप्यङ्गोपमाभिराक्षिप्ता प्रतीयत इत्येकदेशविवर्तिनीयमुपमा । अवयवावयविनोरेकदेशे विशेषेण वाच्यतया वर्तत इत्येकदेशविवर्तिनीति ध्येयम् । अत्र विधातृकादम्ब इति जीवसमष्टिभूतचतुर्मुखजननवर्णनादन्येषामपि जननमर्थसिद्धमित्युदाहृतवचने ‘सम्भवस्सर्वभूतानां’ इति सर्वभूतोत्पत्तिकथनेनेदं न विरुध्यते । एवं सति—
अप एव ससर्जादौ तासु वीर्यमपासृजत् ।
तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ॥
तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ।
इति मनुवचनमप्यनुगुणं भविष्यतीति द्रष्टव्यम् ॥
केवलश्लिष्टपरंपरिता यथा--
आदित्याभ्युदयस्य प्रत्यूष इव प्रकाशभूमानम् । विदधानो घनधामा श्रीमानाभाति शेषगिरिधामा ॥ ७६ ॥
आदित्यानां देवानां आदित्यस्य भानोश्च अभ्युदयः ऐश्वर्यं उदयश्च । अत्र श्लेषोपस्थापितेन देवाभ्युदयेन सुर्योदयस्योपमा भगवतः प्रत्यूषोपमोपाय इति केवलश्लिष्टपरंपरिता ।