सामग्री पर जाएँ

पृष्ठम्:वाग्व्यवहारादर्शः.djvu/२१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०६
वाग्व्यवहारादर्शः

पाठादर्थभेदोऽनपलाप्यः । विहिताकरणजन्यपापहीनो विपापः, निषिद्धाचरणजन्यपापहीनो त्रिपाप्मेत्युज्ज्वलायां हरदत्तः ।

 चालनी तितउ: पुमान्, इत्यमरानुसारेण चालनीतितऊ पर्यायौ । तन्न । अस्ति विशेषस्तयोः। क्षुद्रच्छिद्रसमोपेतं चालनं तितउः स्मृतमिति कात्य इति शब्दार्थचिन्तामणिः ।  भुजिष्य इति दासार्थे पठितोऽमरेण । परं भुजिष्या सामान्या दासी न भवति याज्ञवल्क्ये (२|२९०) तयोः पार्थक्येनोपादानात् । अवरुद्धासु दासीषु भुजिष्यासु तथैव चेति तत्र स्मर्यते । पुरुषनियतपरिग्रहा भुजिष्या इति मिताक्षरा ।

 शुक्तरूक्षपरुषः समानाभिधेया नेति तेषां शुक्त रुक्षाः परुषा वाचो न ब्रूयादित्यत्र (बौ० २।३।६।२०) वाग्विशेषणत्वेन श्रवणात् । शुक्ताः शोककारिण्यः, यथाऽविघवां बिधवेति, रक्षा अविद्यमाने दोषो दोषख्यापिकाः, यथा श्रोत्रियं सन्तमश्रोत्रिय इति । परुषास्तु विद्यमाने दोषे गुणख्यापिकाः यथाऽन्धं चक्षुष्मानिति इति गोविन्दस्वामी ।

 सभासंसदौ मिथो भिन्नौ । दासोस्मीति त्वया वाच्यं संसत्सु च सभासु च' ( भा० वि० ३३|५९ ) इत्यत्र भेदेन श्रवणात् । संसद् गोष्ठी । सभा राजसभेत्यर्जुनमिश्रः ।

 सक्त्यभिष्वङ्गयोरपि भेदः स्थितः । गीतासु (१३|९ ) असक्तिरनभिष्वङ्गः पुत्रदारगृहादिष्विति पठ्यते. । तत्र सक्तिः पुत्रदौ ममतातिमात्रम् । अभिष्वङ्गस्तेन सह तादात्म्याभिमानोऽयमेवाहमितीत्येवं नीलकण्ठ एतयोर्भेदं निर्वक्ति ।

 मेघपर्जन्यावसङ्करेण स्थितौ साहित्ये । गर्जितेन च मेघानां पर्जन्यनिनदेनं च ( हरि० २|१८|१९ ) इत्यत्रोभयोः पार्थक्येन श्रयणात् । ऋग्वेदे (४|२७|२ ) यत्पर्जन्यः स्तनयन् हन्ति दुष्कृतः इत्यत्र पर्जन्यस्तननेन दुष्कृतां हननं श्रूयते तेनेवसीयते पर्जन्यः स्तनयित्नुर्ह्रादिनीयुक्तो मेघोऽभिधीयत इति ।

 पर्णशालोटजोऽस्त्रियामित्यमरे पर्यायौ । श्रीरामायणे ( २|९९|४ )। भ्रातुः वर्णकुटीं श्रीमानुटजं च ददर्श ह इत्यत्र पर्णकुट्या उटजस्य च युगपत्पाठः पर्यायत्वे विहन्ति । एवं हि तयोर्मेदमुद्भावयति रामस्तिलककारः--पर्णप्राधान्येन निर्मिता कुटी शाला पर्णकुटी । उटजं सभित्तिकवाटं दारुबद्धं गृहम् ।

 कारुः शिल्पीत्यभेदं मन्यते जनः | अस्तीह भेद इति मिताक्षरायां (३।२७) समुद्धृतेन कारवः शिल्पिनो वैद्या दासीदासास्तथैवेति प्रचेतोवचनेनोन्नीयते । तत्र कारवः सूपकारादयः। शिल्पिनश्वित्रकारचैलनिर्णेजकादय इति ज्ञानेश्वरः ।

 सूतक्षतृसंग्रहीतारः समानाभिधेयाः प्रसिद्धाः । पञ्चविंशे ब्राह्मणे (१९|१|४) अष्टौ वै राष्ट्रं समुद्यच्छन्ति राजभ्राता च राजपुत्रश्च पुरोहितश्च महिषी च सूतश्च