सामग्री पर जाएँ

पृष्ठम्:वाग्व्यवहारादर्शः.djvu/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
'
६५
औपचारिकः प्रयोगाः

‘उन्निद्राणि .कुमुदानि, प्रबुद्धानि पङ्कजानि' । अत्रोभयत्र चक्षुष्क्रियाध्यासाद्भाक्तः प्रयोगः कामपि प्रीतिमावहति ? ‘महासेनेन दुःस्वप्नः स वञ्चितः' । अत्र वञ्चितो विसंवादितो विप्रलब्धो वा भवति मुख्यया वृत्त्या । लक्षणया तु विफलीकृत इत्यर्थः । ‘अथ निर्मक्षिकं भद्र मधु पातुं मनोरथः' । अत्र निर्मक्षिकमित्यस्य निर्विघ्नमिति लक्ष्योऽर्थः । मक्षिकाणामभाव/इति मुख्यार्थप्रतिपत्तेः। ‘कांचिद् वेलामुपास्य’ । अत्रोपासा प्रतीक्षाऽभिप्रेता । यः किलं प्रतीक्षते स चिरमेकत्रोपास्त इति साधर्म्यात् प्रतीक्षणार्थलब्धिः । तद्वक्त्रं यदि मुद्रिता शशिकथा’। अत्र मुद्रिता प्रतिबद्धेन्यनर्थान्तरम् । अस्तं गतेति यावत् । यद्धि मुद्रितं भवति न तदुद्धांटयितुं शक्यते यथा मुद्रित लेखः । एवं व्याख्यायमानायां स्मृतौ श्रुतिर्व्याकुप्येत्’ । व्याकोपोऽत्र विरोध इति गृह्यते । कुपितो हितेनं विरोधमाचरति यस्मा असौ प्रकुप्यति । ‘दरिद्र्यं हि पर्यायो मरणस्य’ इति मृच्छकटिकायाम् । पर्याय इतिं पर्यायवचन इत्यस्य स्थाने संक्षिप्तं वचः स च तुल्यार्थकोऽपरः शब्दो भवति मुख्यया वृत्त्या । इह लक्षणया तुल्यार्थे पर्यवसित: । ‘वपुरिव यौवनबन्ध्य मङ्गनायाः। अत्र फल्गून्यवचनो बन्ध्यशन्दः शून्यमात्रे भाक्तः । ‘महाब्शापोमुक्तः' । न हि शापो मुच्यते, उच्चार्यते हि -स: । परं तदुच्चारणसमकालं जलाञ्जलिमुर्च्यते, तेन. तत्साहचर्याच्छापोपि मुच्यत इति व्यवह्रियते । एवं सति वेदमधीत्य स्नायादिति स्मृतिरनुगृहीता भवति। अत्रानुग्रहः समर्थना भवति । यो ह्यनुगृहीतो भवति स उपस्तब्धो भवति । ‘कर्मपरमवशं नं विप्रंकुर्युविंभुमपि यदमी स्पृशन्ति भावाः' इति-कुमारे । अत्र स्पर्शेनं स्पर्शपूर्वको विकार उच्यते । अत एव कर्तरि घञन्तः स्पर्शशब्दो रोगवचनः । ‘‘ममंणि स्पृशति । अत्र स्पर्शविशेषस्तोदनं व्यधनं वाभिप्रर्यते । 'बाष्पदुर्दिनान्धकारितदृष्टिः' । अत्र दुर्दिनशब्देन लक्षणया वर्षमुच्यते मुख्यया वृत्या तु दुर्दिनं मेघाच्छन्नमहराह । 'गन्धवदगन्धमादनमित्यागन्तुकः पाठः' । प्रक्षिप्त इत्यर्थः । असाम्प्रदायिक इति वा । यो हि सम्प्रदायादागतः स परम्परीणऽनागन्तुकः। आगन्तुकशब्दो नवं बाह्यं सद्य आगतं चार्थमाह । `दारुणं तमुदन्तं निशम्य साक्षिणोपि मोहिता किमुत ज्ञातयः। अत्र साक्षिण इत्यनेन. लक्षणया तटस्था उच्यन्ते । यथा व्यवहारेऽर्थिप्रत्यर्थिनोः कतरो जयतीत्यत्रानादरः साक्षिणां तत्र तेषां ताटस्थ्यांत्, एवमन्येपि तटस्थः साक्षिणं उच्यन्ते सादृश्यात् । ज्येष्ठे भ्रातरि ध्रियमाणे मृगेन्द्रा सनमारोहन्यवीयान्खलु खट्वारूढो भवेत् । खट्वारोहणं विमार्गप्रस्थानस्योपलक्षणम् । सर्वे एवाविनीतः खट्वारूढ इत्युच्यते, मुख्यया वृत्या तु योऽकाले तल्पं गच्छति ब्रह्मचर्यै च भ्रंशयति स खट्वारूढ इत्यभिधीयते | ऋणैः किल/समा घ्रातः पुरुषो-जायते त्रिभिः' । समाघ्राणं ( समन्ताद्घ्राणं ) लक्षणयाऽऽक्रमंण