सामग्री पर जाएँ

पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
सटीकसाङ्ख्यतत्त्वकौमुद्याम् ।



अत्र च दृष्टं दर्शनम् , सामान्यत इति सर्वविभक्ति कस्तसिः । अदृष्टस्वलक्षणस्य सामान्यविशेषस्य दर्श- नं-सामान्यतो ऽदृष्टमनुमानमित्यर्थः ।

इत्याहुःसामान्यतोदृष्टपदाददृष्टस्वलक्षणसमान्याविषयमि त्युक्तोऽर्थो न लभ्यते, अत उक्तार्थपरत्वं शक्त्यैव दर्शयति । अत्र च दृष्टमित्यादिना । सामान्यतोदृष्टमित्यत्राऽकारप्रश्लेषाभि- प्रायेण प्रकृतमुपसंहरति । अदृष्टस्वलक्षणस्येति

 ननु तञ्चानुमानं त्रिविधं, केवलान्वयिकेवलव्यतिरेक्यन्वय व्य तिरेकिभेदात् । तत्र केवळान्वयिसाध्यकानुमानत्वं केवलान्वय्य- नुमानस्वम् । साध्ये केवलान्वयित्वं च-अन्योन्याभावप्रतियो गितानवच्छेदकस्वम् । तादृशं च साध्यं-वाच्यवादिरेव, तंद्धे- तुरेवाऽत्र लक्ष्यः । संयोगाभाववान्मेयत्वादित्यादौ नाऽव्याप्तिः अन्योन्याभावस्य व्याप्यवृत्तित्वाभ्युपगमात् । अनुमित्यव्यव हितसमानाधिकरणनिर्णयविषयतानवच्छेदकव्यतिरेकितावच्छेदक धर्मावच्छिन्नसाध्यकानुमानत्वं केवलव्यतिरेक्यनुमानत्वम् । लक्ष्यं चेतरभेदर्थानुमानम् । न च ‘‘कवळव्यतिरेक्यनुमानमेव न संभवति, व्याप्तिविशिष्टपक्षधर्मताज्ञानमेवानुमितिहेतुःप्रकृते च व्य- तिरेकसहचारेण साध्यभावे हेत्वभावमात्रव्याप्तिर्गृह्यते हेतौ च पक्ष- धर्मताग्रह इति अनुमितिकारणाभावेनानुमितेरसम्भवात्” इति वा- चयम् । अनुभवबलेन साध्याभावव्यपकीभूताभूताप्रतियोगित्वरूप व्यतिरेकव्याप्तिज्ञानस्यानुमितिहेतुत्वाभ्युपगमेनोक्तदोषाभावात् ।

 स्वाश्रयाभावव्यापीभूताभावप्रतियोगित्व सम्बन्धेनाऽन्वयः्- व्याप्तिसस्त्वादेव न दोषः इत्यपि कश्चित् । न च “तत्र साध्यं प्रसिद्धमसिद्धं वा | ? नाद्यः । । अन्वयव्याप्त्यैव नि हे व्यतिरेकव्यप्तर्वैयर्थ्यापत्तेः । न द्वितीयः। साध्यतावच्छेदका- वच्छिन्नप्रसिद्धिंं विना तद्व्यतिरेकाप्रसिद्धे ” इति वाच्यम् । पृथि-