सामग्री पर जाएँ

पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥१५॥ ]
५७१
कल्याणपीयूषव्याख्यासमेता

शान्तासु सुखचैतन्ये तथैवोद्वूतिमाप्नुतः ॥ ११ ॥

 स्पष्टोऽर्थः ॥ ११॥

 एवं व्यवस्थायां कारणमाह, वस्त्विति ।

वस्तुस्वभावमाश्रित्य व्यवस्था तूभयोः समा ।
अनुभूत्यनुसारेण कल्प्यते हि नियामकम् ॥ १२ ॥

 मुलभा पदयोजना ॥ १२॥

घोरमूढवृत्तिषु सुखभावनिरूपणम् ।

 नियामकत्वकल्पकमनुभवं दर्शयति, नेति ।

न घोरासु न मूढासु सुखानुभव ईक्ष्यते ।।
शान्तास्वपि क्वचित्कश्चित्सुखातिशय ईक्ष्यताम् ॥ १३ ॥

 घोरासु सुखानुभवः आनन्दानुभवः नेक्ष्यते । तथा मूढास्वपि नेक्ष्यते । शान्तास्वपि सर्वत्र समं नेक्ष्यते । किं तु क्वचित् समयेषु वा पुरुषेषु वा कश्चित् सुखतिशय ईक्ष्यताम् ॥१३॥

 कामादीनां घोरत्वात् सुखाभाव इत्याहगृहेति ।

गृहक्षेत्रादिविषये यदा कामो भवेत्तदा ।
राजसस्यास्य कामस्य घोरत्वात्तत्र नो सुखम् ॥ १९ ॥

 सुलभा पदयोजना ॥ १४॥

 गृहक्षेत्रादिषु क्रोधद्वेषयोः कारणं दर्शयति, सिद्धेति ।

सिद्ध्येन्न वेत्यस्ति दुःखमसिद्धौ तद्विवर्धते ।
प्रतिबन्धे भवेत्क्रोधो दोषो वा प्रतिकूलतः ॥ १५॥

 गृहक्षेत्रादिः सिद्ध्येत् न वेति संदेहे दुःखमस्ति । असिद्धौ तद्दुःखं विवर्धते । गृहक्षेत्रादेः सिद्धौ सत्यामपि तत्सुखस्य प्रतिबन्धे अन्यैरातंके कृते सति क्रोधः आतंकरिणां हिंसाकरणाभिलाषनिमित्ता चित्तवृत्तिर्भवति । काम