तावत्पार्थास्तेऽपि पुन काम्यकसीमा |
तत्र कदाचिदाश्रमद्वारि ‘हा [२] हा। महाभागा , सम होमसाधन[३]मरणिमपह्यय हरिणोऽयमि[४]तो धावति' इति बाष्पायमाणस्य कस्यचिदे[५]ग्रजन्मन शोकनिवारणाय चक्त्रीकृत्य चापमनुधावतस्तान्पार्था[६]न्पार्श्वलताताडनानुषक्तनवकिसलयजाळमु[७]त्प्लवनवेगपवनबहि[८]र्ज्वलदूह्निशिखाकन्दछमिवारणि वि[९]षाणया बिभ्राण कतिषुचित्पदेषु सुग्रह इव कतिषुचिदुरासद इव विचित्र[१०]गति कोऽपि कृष्णसारे दूरमा[११]कृष्य स्वयमन्तरधात् ।
तावदिति । तावत् तदानीं ते पार्था अपि काम्यस्य वनस्य सीमा हित्वा भूविबुधाना ब्राह्मणाना सधै अनुयाता सन्त पूर्व विस्मृतान् मार्गवशादिना असेवितान् तीर्थाना पुण्यसरसा व्रातान् समूहान् अवगाढुम् । तत्र स्नातु मित्यर्थ । पुनरपि दूतवन नाम अरण्य व वा साक द्रौपद्या सह अवापु प्राप्तवन्त । मत्तमयूरीवृत्तम्—'वेदै रन्ध्रैम्र्तौयसगा मत्तमयूरी’ इति लक्षणात् ॥ १०० ॥
तत्रेति । तत्र दैतवने कदाचित् हे महाभागा महानुभावा पाण्डवा , मम होमस्य साधन अग्निमथनद्वारा कारण अरणि अपहृत्य अय हरिण कुरग इत मार्गात् वावाति । हा हेत्यतिखेदे। इति उक्तप्रकार आश्रमस्य द्वारि अप्रदेशे वाष्पायमाणस्य रुदत कस्यचित् अग्रजन्मन ब्राह्मणस्य शोकस्य निवारणाय चाप चक्त्रीकृत्य गुणाकर्षणेन कुण्डलीकृत्य अनुधावत ढ्रुतमनुगच्छत तान् पार्थान् पार्श्वयोरुभयोर्या लता तासा ताडनेन सघर्षणेन अनुषक्त लग्न नवाना किसलयाना जाल वृन्द यस्मिस्तम् । अतएव उत्पलवनेषु ऊर्ध्वलङ्घनेषु यो वेग तेन य पवन वायु तेन बहिर्व्वलन्त वह्निशिखाना अग्निज्वालाना कन्दला अङ्कुरा यस्मिन् तथोक्तमिव स्थितमित्युत्प्रेक्षा । अराणि अग्निमन्थनदार विषाणया क्ष्टङ्गेण बिभ्राण कतिषुचित्पदेषु पादन्यासेषु सुग्रह अनायासेन ग्रहीतु शक्य इव कतिषुचित्पदेषु दुरासद दुर्ग्रह इव विचित्रा आश्चर्या गतय यस्य