सामग्री पर जाएँ

योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ३२

विकिस्रोतः तः


द्वात्रिंशः सर्गः ३२

श्रीवसिष्ठ उवाच । ।
प्रह्राद इति संचिन्त्य कृत्वा नारायणीं तनुम् ।
पुनः संचिन्तयामास पूजार्थमसुरद्विषः ।। १
वपुषो वैष्णवादस्मान्मा भून्मूर्तिः परावरा ।
अयं प्राणप्रवाहेण बहिर्विष्णुः स्थितोऽपरः ।। २
वैनतेयसमारूढः स्फुरच्छक्तिचतुष्टयः ।
शङ्खचक्रगदापाणिः श्यामलाङ्गश्चतुर्भुजः ।। ३
चन्द्रार्कनयनः श्रीमान्कान्तनन्दकनन्दनः ।
पद्मपाणिर्विशालाक्षः शार्ङ्गधन्वा महाद्युतिः ।। ४
तदेनं पूजयाम्याशु परिवारसमन्वितम् ।
सपर्यया मनोमय्या सर्वसंभाररम्यया ।। ५
तत एनं महादेवं पूजयिष्याम्यहं पुनः ।
पूजया बाह्यसंभोगमहत्या बहुरत्नया ।। ६
प्रह्राद इति संचिन्त्य संभारभरभारिणा ।
मनसा पूजयामास माधवं कमलाधवम् ।। ७
रत्नौघपात्रपटलैश्चन्दनादिविलेपनैः ।
धूपैर्दीपैर्विचित्रैश्च नानाविभवभूषणैः ।। ८
मन्दारमालावलनैर्हेमाब्जपटलोत्करैः ।
कल्पवृक्षलतागुच्छै रत्नस्तबकमण्डलैः ।। ९
पल्लवैर्दिव्यवृक्षाणां नानाकुसुमदामभिः ।
किंकिरातैर्बकैः कुन्दैश्चम्पकैरसितोत्पलैः ।। १०
कह्लारैः कुमुदैः काशैः खर्जूरैश्चूतकिंशुकैः ।
अशोकैर्मदनैर्बिल्वैः कर्णिकारैः किरातकैः ।। ११
कदम्बैर्बकुलैर्निम्बैः सिन्दुवारैः सयूथकैः ।
पारिभद्रैगुग्गुलीभिर्बिन्दुकैः पुष्पकोत्करैः ।। १२
प्रियङ्गुपटलैः पाटैः पाटलैर्धातुपाटलैः ।
आम्रैराम्रातकैर्गव्यैर्हरीतकबिभीतकैः ।। १३
शालतालतमालानां लताकुसुमपल्लवैः ।
कोमलैः कलिकाजालैः सहकारैः सकुङ्कुमैः ।। १४
केतकैः शतपत्रैश्च तथैलामञ्जरीगणैः ।
सर्वसौन्दर्यसंमानैः स्वयमात्मार्पणैरपि ।। १५
हरिं परमया भक्त्या जगद्विभवभव्यया ।
मनसा पूजयामास प्रह्रादोऽन्तःपुरे पतिम् ।। १६
अथ देवगृहे तस्मिन्बाह्यार्थैः परिपूर्णया ।
पूजया पूजयामास दानवेशो जनार्दनम् ।। १७
बहिर्द्रव्यैरनेनैव क्रमेण परमेश्वरम् ।
पुनःपुनः पूजयित्वा तुष्टिमान्दानवोऽभवत् ।। १८
ततस्ततः प्रभृत्येव प्रह्रादः परमेश्वरम् ।
तथैव प्रत्यहं भक्त्या पूजयामास पूर्णया ।। १९
अथ तस्मिन्पुरे दैत्यास्ततः प्रभृति वैष्णवाः ।
सर्व एवाभवन्भव्या राजा ह्याचारकारणम् ।। २०
जगाम वार्ता गगनं देवलोकमथारिहन् ।
विष्णोर्द्वेषं परित्यज्य भक्ता दैत्याः स्थिता इति ।। २१
देवा विस्मयमाजग्मुः शक्राद्याः समरुद्गणाः ।
गृहीता वैष्णवी भक्तिर्दैत्यैः किमिति राघव ।। २२
क्षीरोदे भोगिभोगस्थं विबुधा विस्मयाकुलाः ।
जग्मुरम्वरमुत्सृज्य हरिमाहवशालिनम् ।। २३
तत्रैनं दैत्यवृत्तान्तं कथयामासुरस्य ते ।
पप्रच्छुश्चैनमासीनमपूर्वाश्चर्यविस्मयम् ।। २४
विबुधा ऊचुः ।
किमेतद्भगवन्दैत्या विरुद्धा ये सदैव ते ।
ते हि तन्मयतां याता मायेयमिति भाव्यते ।। २५
क्व किलात्यन्तदुर्वृत्ता दानवा दलिताद्रयः ।
क्व पाश्चात्यमहाजन्मलभ्या भक्तिर्जनार्दने ।। २६
प्राकृतो गुणवाञ्जात इत्येषा भगवन्कथा ।
अकालपुष्पमालेव सुखायोद्वेजनाय च ।। २७
नोपपन्नं हि यद्यत्र तत्र तन्न विराजते ।
मध्ये काचकलापस्य महामूल्यो मणिर्यथा ।। २८
यो यो यादृग्गुणो जन्तुः स तामेवैति संस्थितिम् ।
सदृशेष्वप्यजेषु श्वा न मध्ये रमते क्वचित् ।। २९
न तथा दुःखयन्त्यङ्गे मज्जन्त्यो वज्रसूचयः ।
वैसादृश्येन संबद्धा यथैता वस्तुदृष्टयः ।। ३०
यद्यत्र क्रमसंप्राप्तमुपपन्नमनिन्दितम् ।
तदेव राजते तत्र जलेऽम्भोजं नतु स्थले ।। ३१
क्वाधमः प्राकृतारम्भो हीनकर्मरतिः सदा ।
वराको दानवो हीनजातिर्भक्तिः क्व वैष्णवी ।। ३२
कमलिनी परुषोषरभूगता सुखयतीह यथा न दुराश्रया ।
दितिसुतोऽपि हि माधवभक्तिमानिति कथा न तथेश सुखाय नः ।। ३३

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे विबुधवाक्यं नाम द्वात्रिंशः सर्गः ।। ३२ ।।