सामग्री पर जाएँ

पृष्ठम्:भामती.djvu/७१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.४ पा-१ सू. ४]
[७११]

मवगम्यते किं तु सर्पत्वानुवादेन रज्जुतत्वज्ञापनवार्षीका रास्पदस्यावच्छिन्नस्य प्रविलयोवगम्यते । किमतो यद्येवम् रतदतो भवति । प्रधानीभूतानां न प्रतीकानामुच्छेदो युक्तो न च तदुच्छेदे विधेयस्यप्पुपपत्तिरिति । अपि च । "न च ब्रह्मण आमत्वादिति । नद्युपासनविधानानि जीवा मनो ब्रह्मखभावप्रतिपादनपरैस्तवमस्यादिसंदभैरेकवाषयः भावमापद्यन्तं येन तदेकवक्यतया ब्रह्माद्युपदेशघ्वरम दृष्टिः कल्पेत भिन्नप्रकरणत्वात्तथा च तत्र यथा लोकप्र तोतिव्यवस्थितो जीवः कर्ता भोक्ता च संसारी न ब्रह्म ति कथं तस्य ब्रह्मात्मतया ब्रह्मदृष्ट्युपदेशेध्वात्मदृष्टिरुप दिश्येतेत्यर्थः । "अनद्योपासकस्य प्रतीकैः समत्वादिति । यद्यप्युपासको जीवात्मा न ब्रह्मविकार, प्रतीकानि तु म नप्रभृतीनि ब्रह्मविकारस्तथाप्यवच्छिन्नतया जीवात्मनः प्रती- कः साम्यं द्रष्टव्यम् ।

ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥

यद्यपि सामानाधिकरण्यमुभयथापि घटते तथापि ब्रह्म यः सर्वाध्यक्षतया फलप्रसवसमय्येन फलवत्त्वात्प्राधान्येन त देवादित्यादिदृष्टिभिः संस्कर्तव्यमित्यादित्यादिदृष्टयो ब्रह्मण्ये व कर्तव्या न तु ब्रह्मदृष्टिरादित्यादिषु । न चैवंविधेवधृते शाखाएँ निकृष्टदृष्टिनेत्कृष्ट इति लैकिको न्यायोपवादाय प्रभवत्यागमविरोधेन तस्यैवापोदशादिति पूर्वपक्षसं क्षेपः । सत्यं सर्वाध्यक्षतया फलदातृत्वेन ब्रह्मण एव सर्वत्र वास्तवं प्राधान्यं तथापि शब्दगत्यनुरोधेन क्व चित्कर्मण एव प्रा-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७१४&oldid=141787" इत्यस्माद् प्रतिप्राप्तम्