अत्र अर्कादिभिरित्युक्त तत्रैव विवृतम्----
" अर्कन्यग्रोधखदिरकरञ्जककुभादिकम् । |
अत्राभक्षणीयस्यापि काष्ठस्य भक्षणोक्ति भक्षणवदाद्यन्ताचमनादिप्राप्त्यर्था । पाद्मेष्वेव दन्तधावनमुक्तम्------
" आचम्य प्राङ्मुखो भूत्वा दन्तधावनमाचरेत् । |
अत्र सर्वत्र प्रतिषिद्धाना [२] वर्जनं सर्वत्र विहिताना[३]मुपादानं च , क्वचिद्विहिताना क्वचिच्च प्रतिषिद्धाना गत्यभावे ग्रहणमिति निष्कर्ष । एव सर्वत्र भाव्यम् ।
यथोक्तलक्षण च दन्तकाष्ठं समन्त्रक गृहीत्वा - आयुर्बलम्' इत्यादिस्मार्तमन्त्रपूर्वक प्रादक्षिण्येन प्रथममधरतो दन्तधावन कुर्यात् । काष्ठाला-