सामग्री पर जाएँ

पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८२
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

अग्नि विसज्याऽऽशीर्भिराघोष्यागारं गत्वाऽभ्यन्तरं प्रविश्योत्तरे पार्श्व पार्थिवं धूपदीपसमन्वितं स्थापयेत् ।

मृत्संस्कारः

गन्धवर्णयुतं साद्यस् कापिलं घृतं 1कास्ये त्रिद्रयेकप्रस्थं 2कुडुबं प्रस्थार्ध वा 3तदर्धमादाय संशोध्य दधिपयोऽतसीस्नेहानेकैकं घृतात्पादाधिकं गृहीत्वा 4उत्पूय 5यवसर्षपगोधूमातसीतिल्वदीप्तीना चूर्ण पृचक् पृथक् हृतमादायैकस्मिन् भाण्डे क्षिप्त्वा पिधाय मासमात्रं तदर्ध दशरात्रं वा निधापयेत् । नारशब्दाखु णत्रिप (?) चलध कृष्णामरदारुहरितालहारिद्रमरीचविडङ्गब्राह्मीन् संशोध्याऽशोष्य त्रिपलं द्विपलं पलं वा चूर्णीकृत्य द्रोणे द्रोणधे आढके वा जले क्षिप्त्वा अर्धमासं तदर्ध वा निधापयेत् ।। न्यग्रोधाश्वत्थोदुम्बरप्लक्षखदिर बञ्जुलासनादीनां निर्माकं पृथक् पृथक् कुट्टयित्वा भागमाहृत्य तुलस्यपामार्ग नन्द्यावर्तकरीरभूपत्रबिन्वादित्यसाहयसहदेवीलक्ष्मीशमीपत्रसारे अश्वत्थाद्यजिनानि आक्षिप्यार्धमासं निधापयेत् । अश्वत्थोदुम्बरप्लक्षाणां क्षीरमेकैकं घृतार्धमाहृत्यै कस्मिन् भाजने क्षिप्त्वा श्रीवेष्टसर्जरसकुन्दुरुगुग्गुलुकपित्थनिर्यासान् समभागं चूर्ण कन्या तस्मिन्न दशरात्रं निधापयेदिति विज्ञायते ।।

इति श्रीबैखानसे कश्यपप्रोते ज्ञानकाण्डे मृदादिसंस्कृतिविधिर्नाम सप्तचत्वारिंशोऽध्यायः

॥अत अष्टचत्वारिंशोऽध्यायः॥

मृत्संस्कारविस्तर

एव कृत्वा अभिनवेषु कटेषु फलकेषुवा प्रोक्ष्य “उदुत्यं चित्र” मिति मृदमवकीर्य विश्वामित्रान् परिहृत्याऽतपेनाशोष्य गायत्र्या प्रोक्ष्य “मेदिनी देवी”


1. च, कांस्यं. 2. छ. त्रिकुडुब. 3. छ, तदई. 4. B. भुवंछित्वा (१)उत्पूय