सामग्री पर जाएँ

पृष्ठम्:काठकोपनिषत्.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७ भाष्यद्वयोपेता १।१।१९

[प्रकाशिका]र्ध्ववर्तित्वाविशेषेण मुख्यार्थत्वानपायात् । स्वर्गापवर्गमार्गाभ्या- मित्यादिव्यवहारस्य ब्राह्मणपरिव्राजकन्यायेनोपपत्तेश्च । अस्तु वाऽमुख्यार्थ त्वं मुख्यार्थे बाधकसत्त्वात् । किमत्र बाधकमिति चेच्छ्रूयतामवधानेन । " स्वर्गे लोके न भयं किंचनास्ति " इति प्रथमे प्रश्नमन्त्रे न भयं किंचनास्तीत्यपहतपाप्मत्वं प्रतिपाद्यते । स्वर्गेऽपि पातभीतस्येत्यक्तरीत्या केन पापेन कदा पतिप्यामीति भीत्यभावः प्रतिपाद्यते स ह्यपहतपाप्मन एव संभवति । " न तत्र त्वं जरया बिभेति " इत्यनेन विजरत्वविमृत्युत्वे प्रतिपाद्येते । " उभे तीर्त्वाऽशनागापिपासे " इत्यनेन विजिघत्सत्वापिपासत्वे प्रतिपाद्येते । " शोकातिगः " इति विशोकत्वम् । " मोदते स्वर्गलोके " इत्यनेन " स यदि पितृलोककामो भवति संकल्पादेवाम्य पितरः समुत्तिष्ठन्ति । " " तेन पितृलोकेन संपन्नो महीयते " छा० ८॥२॥१ इति श्रुतिसंदर्भप्रतिपाद्ये सत्यकामत्वसत्यसंकल्पत्वे प्रतिपाद्येते । ततश्चाध्यात्मशास्त्रसिद्धस्यापहतपाप्मत्वादिब्रह्मगुणाष्टकाविर्भावम्येह प्रतीयमानतया तस्यैवेह ग्रहणसंभवे पौराणिकस्वर्गलोकगतापेक्षिकजरामरणाद्यभावस्वीकारम्यानुचितत्वात् । अत एव सप्तमे विध्यन्ताधिकरणेऽनुपदिष्टेतिकर्तव्यताकासु सौर्यादिविकृतभावनास्वितिकर्तव्यताकाङ्क्षायां वैतानिककर्माधिकारप्रवृत्तत्रयीविहितत्वसामान्याद्वैदिक्येव दर्शपौर्णमासिकीतिकर्तव्यतोपतिष्ठते ।
उक्तं च शास्त्रदीपिकायाम् --

  वैदिकी वैदिकत्वेन सामान्येनोपतिष्ठते ।
  लौकिकी त्वसमानत्वान्नोपस्थास्यत्यपेक्षिता "॥ इति ।

 न च " यद्येकं यूपं स्पृशेदेष ते वायाविति ब्रूयात् " इति विहितस्यैष ते वायाविति वचनस्य वैदिकत्वसामान्येन विहितवैदिकयूपस्पर्शनिमित्तकत्वमेव स्यात् । न चेष्टापत्तिः । " लौकिके दोषसंयोगात् " जै० ९॥३॥३॥९ इति नावमिकाधिकरणविरोधप्रसङ्गादिति वाच्यम् । " यूपो वै यज्ञस्य दुरिष्टमामुञ्चते तस्माघूपो नोपस्पृश्यः " इति प्रतिषिध्य यद्येकं यूपं स्पृशेदेष ते वायाविति ब्रूयादित्यनन्तरमेव विहितस्य प्रतिषिद्धप्रायश्चित्त साकाङ्क्षलौकिकस्पर्शविषयत्वावश्यंभावेन वैदिकविषयत्वासंभवेऽप्यसति बाधके वैदिकविषयत्वस्य युक्तत्वात् । अत एव " यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निर्वपेत् " इति विहितेष्टिर्वैदिक एवाश्वदाने । न तु " न केसरिणो ददाति " इति निषिद्धे प्रायश्चित्तसापेक्षे सुहृदादिभ्यः स्नेहादिना

क.नि.-- ३