रामायणम्/बालकाण्डम्/सर्गः ८

विकिस्रोतः तः
← सर्गः ७ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ९ →
अष्टमः सर्गः श्रूयताम्
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टमः सर्गः ॥१-८॥

तस्य चैवं प्रभावस्य धर्मज्ञस्य महात्मनः ।
सुतार्थं तप्यमानस्य नासीद् वंशकरः सुतः ॥१-८-१॥

चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः ।
सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम् ॥१-८-२॥

स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् ।
मन्त्रिभिः सह धर्मात्मा सर्वैरेव कृतात्मभिः ॥१-८-३॥

ततोऽब्रवीन्महातेजाः सुमन्त्रं मन्त्रिसत्तम ।
शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान् ॥१-८-४॥

ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ।
समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ॥१-८-५॥

सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ।
पुरोहितं वशिष्ठं च ये चाप्यन्ये द्विजोत्तमाः ॥१-८-६॥

तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ।
इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत् ॥१-८-७॥

मम लालप्यमानस्य सुतार्थं नास्ति वै सुखम् ।
तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥१-८-८॥

तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ।
कथं प्राप्स्याम्यहं कामं बुद्धिरत्रविचिन्त्यताम् ॥१-८-९॥

ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।
वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखेरितम् ॥१-८-१०॥

ऊचुश्च परमप्रीताः सर्वे दशरथं वचः ।
सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥१-८-११॥

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव ॥१-८-१२॥

यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ।
ततस्तुष्टोऽभवद् राजा श्रुत्वैतद् द्विजभाषितम् ॥१-८-१३॥

अमात्यानब्रवीद् राजा हर्षव्याकुललोचनः ।
सम्भाराः सम्भ्रियन्तां मे गुरूणां वचनादिह ॥१-८-१४॥

समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ।
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥१-८-१५॥

शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि ।
शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता ॥१-८-१६॥

नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे ।
च्छिद्रं हि मृगयन्ते स्म विद्वांसो ब्रह्मराक्षसाः ॥१-८-१७॥

विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ।
तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते ॥१-८-१८॥

तथा विधानं क्रियतां समर्थाः साधनेष्विति ।
तथेति चाब्रुवन् सर्वे मंत्रिणः प्रतिपूजिताः ॥१-८-१९॥

पार्थिवेन्द्रस्य तद् वाक्यं यथापूर्वं निशम्य ते ।
तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम् ॥१-८-२०॥

अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ।
विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत् ॥१-८-२१॥

ऋत्विग्भिरुपसंदिष्टो यथावत् क्रतुराप्यताम् ।
इत्युक्त्वा नृपशार्दूलः सचिवान् समुपस्थितान् ॥१-८-२२॥

विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः ।
ततः स गत्वा ताः पत्नीर्नरेन्द्रो हृदयंगमाः ॥१-८-२३॥

उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात् ।
तासां तेनातिकान्तेन वचनेन सुवर्चसाम् ।
मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ॥१-८-२४॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टमः सर्गः ॥१-८॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।