रामायणम्/बालकाण्डम्/सर्गः १७

विकिस्रोतः तः
← सर्गः १६ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः १८ →
सप्तदशः सर्गः श्रूयताम्
रामायणम्/बालकाण्डम्



श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तदशः सर्गः ॥१-१७॥

पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः ।
उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम् ॥१-१७-१॥

सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः ।
विष्णोः सहायान् बलिनः सृजध्वं कामरूपिणः ॥१-१७-२॥

मायाविदश्च शूरांश्च वायुवेगसमान् जवे ।
नयज्ञान् बुद्धिसम्पन्नान् विष्णुतुल्यपराक्रमान् ॥१-१७-३॥

असंहार्यानुपायज्ञान् दिव्यसंहननान्वितान् ।
सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव ॥१-१७-४॥

अप्सरस्सु च मुख्यासु गन्धर्वीणां तनूषु च ।
यक्षपन्नगकन्यासु ऋक्षविद्याधरीषु च ॥१-१७-५॥

किन्नरीणां च गात्रेषु वानरीणां तनूषु च ।
सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् ॥१-१७-६॥

पूर्वम् एव मया सृष्टो जाम्बवान् ऋक्ष पुङ्गवः ।
जृम्भमाणस्य सहसा मम वक्रात् अजायत ॥१-१७-७॥

ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम् ।
जनयामासुरेवं ते पुत्रान् वानररूपिणः ॥१-१७-८॥

ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः ।
चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः ॥१-१७-९॥

वानरेन्द्रं महेन्द्राभमिन्द्रो वालिनमात्मजम् ।
सुग्रीवं जनयामास तपनस्तपतां वरः ॥१-१७-१०॥

बृहस्पतिस्त्वजनयत् तारं नाम महाकपिम् ।
सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम् ॥१-१७-११॥

धनदस्य सुतः श्रीमान् वानरो गन्धमादनः ।
विश्वकर्मा त्वजनयन्नलं नाम महाकपिम् ॥१-१७-१२॥

पावकस्य सुतः श्रीमान् नीलोऽग्निसदृशप्रभः ।
तेजसा यशसा वीर्यादत्यरिच्यत वीर्यवान् ॥१-१७-१३॥

रूपद्रविणसम्पन्नावश्विनौ रूपसम्मतौ ।
मैन्दं च द्विविदं चैव जनयामासतुः स्वयम् ॥१-१७-१४॥

वरुणो जनयामास सुषेणं नाम वानरम् ।
शरभं जनयामास पर्जन्यस्तु महाबलः ॥१-१७-१५॥

मारुतस्यौरसः श्रीमान् हनुमान् नाम वानरः ।
वज्रसंहननोपेतो वैनतेयसमो जवे ॥१-१७-१६॥

सर्ववानरमुख्येषु बुद्धिमान् बलवानपि ।
ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः ॥१-१७-१७॥

अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः ।
ते गजाचलसंकाशा वपुष्मन्तो महाबलाः ॥१-१७-१८॥

ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे ।
यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः ॥१-१७-१९॥

अजायत समं तेन तस्य तस्य पृथक् पृथक् ।
गोलाङ्गूलीषु चोत्पन्नाः किंचिदुन्नतविक्रमाः ॥१-१७-२०॥

ऋक्षीषु च तथा जाता वानराः किन्नरीषु च ।
देवा महर्षिगन्धर्वास्तार्क्ष्ययक्षा यशस्विनः ॥१-१७-२१॥

नागाः किम्पुरुषाश्चैव सिद्धविद्याधरोरगाः ।
बहवो जनयामासुर्हृष्टास्तत्र सहस्रशः ॥१-१७-२२॥

चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः ।
वानरान् सुमहाकायान् सर्वान् वै वनचारिणः ॥१-१७-२३॥

अप्सरस्सु च मुख्यासु तथा विद्याधरीषु च ।
नागकन्यासु च तदा गन्धर्वीणां तनूषु च ।
कामरूपबलोपेता यथाकामविचारिणः ॥१-१७-२४॥

सिंहशार्दूलसदृशा दर्पेण च बलेन च ।
शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः ॥१-१७-२५॥

नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः ।
विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान् ॥१-१७-२६॥

क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् ।
दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवान् ॥१-१७-२७॥

नभस्तलं विशेयुश्च गृह्णीयुरपि तोयदान् ।
गृह्णीयुरपि मातङ्गान् मत्तान् प्रव्रजतो वने ॥१-१७-२८॥

नर्दमानांश्च नादेन पातयेयुर्विहङ्गमान् ।
ईदृशानां प्रसूतानि हरीणां कामरूपिणाम् ॥१-१७-२९॥

शतं शतसहस्राणि यूथपानां महात्मनाम् ।
ते प्रधानेषु यूथेषु हरीणां हरियूथपाः ॥१-१७-३०॥

बभूवुर्यूथपश्रेष्ठान् वीरांश्चाजनयन् हरीन् ।
अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः ॥१-१७-३१॥

अन्ये नानाविधाञ्छैलान् काननानि च भेजिरे ।
सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् ॥१-१७-३२॥

भ्रातरावुपतस्थुस्ते सर्वे च हरियूथपाः ।
नलं नीलं हनूमन्तमन्यांश्च हरियूथपान् ॥१-१७-३३॥

ते तार्क्ष्यबलसम्पन्नाः सर्वे युद्धविशारदाः ।
विचरन्तोऽर्दयन् सर्वान् सिंहव्याघ्रमहोरगान् ॥१-१७-३४॥

महाबलो महाबाहुर्वाली विपुलविक्रमः ।
जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् ॥१-१७-३५॥

तैरियं पृथिवी शूरैः सपर्वतवनार्णवा ।
कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः ॥१-१७-३६॥

तैर्मेघवृन्दाचलकूटसंनिभै-
र्महाबलैर्वानरयूथपाधिपैः
बभूव भूर्भीमशरीररूपैः
समावृता रामसहायहेतोः ॥१-१७-३७॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तदशः सर्गः ॥१-१७॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।