"अग्निपुराणम्/अध्यायः १०९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
तीर्थमाहात्म्यम् <poem><span style="font-size: 14pt; line-height: 200%">अग्निर... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः १०: पङ्क्तिः १०:
- - - - -- - - - -- - -- - -- -- --- -
- - - - -- - - - -- - -- - -- -- --- -
प्रतिग्राहादुपावृत्तो लघ्वाहारो जितेन्द्रियः ॥१०९.००२
प्रतिग्राहादुपावृत्तो लघ्वाहारो जितेन्द्रियः ॥१०९.००२
निष्पपस्तीर्थयात्री तु सर्वयज्ञफलं लभेत् ।१०९.००३
निष्पापस्तीर्थयात्री तु सर्वयज्ञफलं लभेत् ।१०९.००३
अनुपोष्य त्रिरात्रीणि तीर्थान्यनभिगम्य च ॥१०९.००३
अनुपोष्य त्रिरात्रीणि तीर्थान्यनभिगम्य च ॥१०९.००३
अदत्वा काञ्चनं गाश्च दरिद्रो नाम जायते ।१०९.००४
अदत्वा काञ्चनं गाश्च दरिद्रो नाम जायते ।१०९.००४
तीर्थाभिओगमने(१) तत्स्याद्यद्यज्ञेनाप्यते फलं ॥१०९.००४
तीर्थाभिगमने(१) तत्स्याद्यद्यज्ञेनाप्यते फलं ॥१०९.००४
पुष्करं परमं तीर्थं सान्निध्यं हि त्रिसन्ध्यकं ।१०९.००५
पुष्करं परमं तीर्थं सान्निध्यं हि त्रिसन्ध्यकं ।१०९.००५
दशकोटिसहस्राणि तीर्थानां विप्र पुष्करे ॥१०९.००५
दशकोटिसहस्राणि तीर्थानां विप्र पुष्करे ॥१०९.००५
पङ्क्तिः ५०: पङ्क्तिः ५०:
धर्मतीर्थं सुवर्णाख्यं गङ्गाद्वारमनुत्तमं ॥१०९.०१६
धर्मतीर्थं सुवर्णाख्यं गङ्गाद्वारमनुत्तमं ॥१०९.०१६
तीर्थं कणखलं पुण्यं भद्रकर्णह्रदन्तथा(५) ।१०९.०१७
तीर्थं कणखलं पुण्यं भद्रकर्णह्रदन्तथा(५) ।१०९.०१७
गङ्गासस्वतीसङ्गं ब्रह्मावर्तमघार्दनं ॥१०९.०१७
गङ्गासरस्वतीसङ्गं ब्रह्मावर्तमघार्दनं ॥१०९.०१७
भृगुतुङ्गञ्च कुब्जाम्रं गङ्गोद्भेदमघान्तकं(६) ।१०९.०१८
भृगुतुङ्गञ्च कुब्जाम्रं गङ्गोद्भेदमघान्तकं(६) ।१०९.०१८
वाराणसी वरन्तीर्थमविमुक्तमनुत्तमं ॥१०९.०१८
वाराणसी वरन्तीर्थमविमुक्तमनुत्तमं ॥१०९.०१८

०१:२४, २४ डिसेम्बर् २०१६ समयस्य संस्करणम्

तीर्थमाहात्म्यम्

अग्निरुवाच
माहात्म्यं सर्वतीर्थानां वक्ष्ये यद्भक्तिमुक्तिदं ।१०९.००१
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतं(१) ॥१०९.००१
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ।१०९.००२
-- - - - - -- - - -- - - --- - - -- - -
टिप्पणी
१ स्वसंयतमिति घ..
- - - - -- - - - -- - -- - -- -- --- -
प्रतिग्राहादुपावृत्तो लघ्वाहारो जितेन्द्रियः ॥१०९.००२
निष्पापस्तीर्थयात्री तु सर्वयज्ञफलं लभेत् ।१०९.००३
अनुपोष्य त्रिरात्रीणि तीर्थान्यनभिगम्य च ॥१०९.००३
अदत्वा काञ्चनं गाश्च दरिद्रो नाम जायते ।१०९.००४
तीर्थाभिगमने(१) तत्स्याद्यद्यज्ञेनाप्यते फलं ॥१०९.००४
पुष्करं परमं तीर्थं सान्निध्यं हि त्रिसन्ध्यकं ।१०९.००५
दशकोटिसहस्राणि तीर्थानां विप्र पुष्करे ॥१०९.००५
ब्रह्मा सह सुरैरास्ते मुनयः सर्वमिच्छवः ।१०९.००६
देवाः प्राप्ताः सिद्धिमत्र स्नाताः पितृसुरार्चकाः(२) ॥१०९.००६
अश्वमेधफलं प्राप्य(३) ब्रह्मलोकं प्रयान्ति ते ।१०९.००७
कार्त्तिक्यामन्नदानाच्च निर्मलो ब्रह्मलोकभाक्(४) ॥१०९.००७
पुष्करे दुष्करं गन्तुं(५) पुष्करे दुष्करं तपः ।१०९.००८
दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करं(६) ॥१०९.००८
तत्र वासाज्जपच्छ्राद्धात्कुलानां शतमुद्धरेत् ।१०९.००९
जम्बुमार्गं च तत्रैव तीर्थन्तण्डुलिकाश्रमं ॥१०९.००९
कर्णाश्रमं(७) कोटितीर्थं नर्मदा चार्वुदं परं ।१०९.०१०
तीर्थञ्चर्मण्वती सिन्धुः सोमनाथः प्रभासकं ॥१०९.०१०
सरस्वत्यब्धिसङ्गश्च(८) सागरन्तीर्थमुत्तमं ।१०९.०११
- - -- -- - - -- - - -- - - -- - - - - - -- -
टिप्पणी
१ तीर्थादिगमने इति घ..
२ पितृसुरार्चिता इति ख..
३ अश्वमेधफलश्चास्येति ख.. , ग.. , छ.. च । अश्वमेधफलं चाप्येति घ..
४ ब्रह्मलोककमिति ख.. , ग.. , ङ.. , छ.. च
५ दुष्करं गन्तुमिति ख..
६ वस्तुं तत्र सुदुष्करमिति ज..
७ कण्वाश्रममिति घ..
८ सरस्वत्यब्धिसञ्ज्ञयेति ग.. , घ.. , ज.. च
- -- - - -- - -- - - -- - -- - -- -- -- -- - -
पिण्डारकं द्वारका च गोमती सर्वसिद्धिदा ॥१०९.०११
भूमितीर्थं ब्रह्मतुङ्गं(१) तीर्थं पञ्चनदं परं ।१०९.०१२
भीमतीर्थं(२) गिरीन्द्रञ्च देविका पापनाशिनी ॥१०९.०१२
तीर्थं विनशनं पुण्यं नागोद्भेदमघार्दनं ।१०९.०१३
तीर्थं कुमारकोटिश्च सर्वदानीरितानि च ॥१०९.०१३
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहं ।१०९.०१४
य एवं सततं ब्रूयात्सोऽमलः प्राप्नुयाद्दिवं ॥१०९.०१४
तत्र विष्ण्वादयो देवास्तत्र वासाद्धरिं व्रजेत्(३) ।१०९.०१५
सरस्वत्यां सन्निहित्यां स्नानकृद्ब्रह्मलोकभाक्(४) ॥१०९.०१५
पांशवोपि कुरुक्षेत्रे नयन्ति परमां गतिं ।१०९.०१६
धर्मतीर्थं सुवर्णाख्यं गङ्गाद्वारमनुत्तमं ॥१०९.०१६
तीर्थं कणखलं पुण्यं भद्रकर्णह्रदन्तथा(५) ।१०९.०१७
गङ्गासरस्वतीसङ्गं ब्रह्मावर्तमघार्दनं ॥१०९.०१७
भृगुतुङ्गञ्च कुब्जाम्रं गङ्गोद्भेदमघान्तकं(६) ।१०९.०१८
वाराणसी वरन्तीर्थमविमुक्तमनुत्तमं ॥१०९.०१८
कपालमोचनं तीर्थन्तीर्थराजं प्रयागकं ।१०९.०१९
गोमतीगङ्गयोः सङ्गं गङ्गा सर्वत्र नाकदा ॥१०९.०१९
तीर्थं राजगृहं पुण्यं शालग्राममघान्तकं ।१०९.०२०
- - - -- - - -- - - -- - - -- - -- - - -- - - -
टिप्पणी
१ ऋषितीर्थं ब्रह्मतुङ्गमिति घ.. । भूमितीर्थं ब्रह्मसञ्ज्ञमिति छ..
२ भीमातीर्थमिति घ..
३ वामाद्दिवं ब्रजेदिति ज..
४ ब्रह्मलोकग इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च
५ तत्र कर्णह्रदं तथेति ख.. । भद्रकं तु ह्रदं तथेति ग.. , ङ.. च
६ गङ्गोद्भेदमवन्तिकमिति ज..
- - - - - - - -- - - - -- - -- - - -- - -- - - -
वटेशं वामन्न्तीर्थं कालिकासङ्गमुत्तमं(१) ॥१०९.०२०
लौहित्यं करतोयाख्यं शोणञ्चाथर्षभं परं ।१०९.०२१
श्रीपर्वतं कोल्वगिरिं(२) सह्याद्रिर्मलयो गिरिः ॥१०९.०२१
गोदावरी तुङ्गभद्रा कावेरो वरदा नदी ।१०९.०२२
तापी पयोष्णी रेवा च दण्डकारण्यमुत्तमं ॥१०९.०२२
कालञ्जरं मुञ्जवटन्तीर्थं सूर्पारकं परं ।१०९.०२३
मन्दाकिनी चित्रकूटं शृङ्गवेरपुरं परं(३) ॥१०९.०२३
अवन्ती परमं तीर्थमयोध्या पापनाशनी ।१०९.०२४
नैमिषं परमं तीर्थं भुक्तिमुक्तिप्रदायकं(४) ॥१०९.०२४

इत्याग्नेये महापुराणे तीर्थयात्रा माहात्म्यं नाम नवाधिकशततमोऽध्यायः