"ऋग्वेदः सूक्तं १.५" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) १४ अवतरण: rigveda and other pages |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
{{header |
|||
| title = [[ऋग्वेदः मण्डल १|ऋग्वेदः मण्डल १]] |
|||
| author = मधुच्छन्दा वैश्वामित्रः |
|||
| translator = |
|||
| section = सूक्तं १.५ |
|||
| previous = [[ऋग्वेद: सूक्तं १.४|सूक्तं १.४]] |
|||
| next = [[ऋग्वेद: सूक्तं १.६|सूक्तं १.६]] |
|||
| notes = दे. इन्द्रः। गायत्री |
|||
}} |
|||
{{Rig Veda2|[[ऋग्वेदः मण्डल १]]}} |
{{Rig Veda2|[[ऋग्वेदः मण्डल १]]}} |
||
१०:५१, १ डिसेम्बर् २०१६ इत्यस्य संस्करणं
← सूक्तं १.४ | ऋग्वेदः मण्डल १ सूक्तं १.५ मधुच्छन्दा वैश्वामित्रः |
सूक्तं १.६ → |
दे. इन्द्रः। गायत्री |
ऋग्वेदः सूक्तं १.५
आ त्वेता नि षीदतेन्द्रमभि प्र गायत । सखाय स्तोमवाहसः ॥१॥ पुरूतमं पुरूणामीशानं वार्याणाम् । इन्द्रं सोमे सचा सुते ॥२॥ स घा नो योग आ भुवत्स राये स पुरंध्याम् । गमद्वाजेभिरा स नः ॥३॥ यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः । तस्मा इन्द्राय गायत ॥४॥ सुतपाव्ने सुता इमे शुचयो यन्ति वीतये । सोमासो दध्याशिरः ॥५॥ त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः । इन्द्र ज्यैष्ठ्याय सुक्रतो ॥६॥ आ त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः । शं ते सन्तु प्रचेतसे ॥७॥ त्वां स्तोमा अवीवृधन्त्वामुक्था शतक्रतो । त्वां वर्धन्तु नो गिरः ॥८॥ अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम् । यस्मिन्विश्वानि पौंस्या ॥९॥ मा नो मर्ता अभि द्रुहन्तनूनामिन्द्र गिर्वणः । ईशानो यवया वधम् ॥१०॥