"ऋग्वेदः सूक्तं १.८७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) ७ अवतरण: rigveda and other pages
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{header
{{Rig Veda2|[[ऋग्वेदः मण्डल १]]}}
| title = [[ऋग्वेदः मण्डल १|ऋग्वेदः मण्डल १]]
| author = गोतमो राहूगणः
| translator =
| section = सूक्तं १.८७
| previous = [[ऋग्वेद: सूक्तं १.८६|सूक्तं १.८६]]
| next = [[ऋग्वेद: सूक्तं १.८८|सूक्तं १.८८]]
| notes = दे. मरुतः। जगती
}}



<div class="verse">
<div class="verse">

०१:३६, ११ नवेम्बर् २०१६ इत्यस्य संस्करणं

← सूक्तं १.८६ ऋग्वेदः मण्डल १
सूक्तं १.८७
गोतमो राहूगणः
सूक्तं १.८८ →
दे. मरुतः। जगती


प्रत्वक्षसः प्रतवसो विरप्शिनोऽनानता अविथुरा ऋजीषिणः ।
जुष्टतमासो नृतमासो अञ्जिभिर्व्यानज्रे के चिदुस्रा इव स्तृभिः ॥१॥
उपह्वरेषु यदचिध्वं ययिं वय इव मरुतः केन चित्पथा ।
श्चोतन्ति कोशा उप वो रथेष्वा घृतमुक्षता मधुवर्णमर्चते ॥२॥
प्रैषामज्मेषु विथुरेव रेजते भूमिर्यामेषु यद्ध युञ्जते शुभे ।
ते क्रीळयो धुनयो भ्राजदृष्टयः स्वयं महित्वं पनयन्त धूतयः ॥३॥
स हि स्वसृत्पृषदश्वो युवा गणोऽया ईशानस्तविषीभिरावृतः ।
असि सत्य ऋणयावानेद्योऽस्या धियः प्राविताथा वृषा गणः ॥४॥
पितुः प्रत्नस्य जन्मना वदामसि सोमस्य जिह्वा प्र जिगाति चक्षसा ।
यदीमिन्द्रं शम्यृक्वाण आशतादिन्नामानि यज्ञियानि दधिरे ॥५॥
श्रियसे कं भानुभिः सं मिमिक्षिरे ते रश्मिभिस्त ऋक्वभिः सुखादयः ।
ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥६॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.८७&oldid=90488" इत्यस्माद् प्रतिप्राप्तम्