"ऋग्वेदः सूक्तं ७.४१" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १२: | पङ्क्तिः १२: | ||
उतोदिता मघवन्सूर्यस्य वयं देवानां सुमतौ स्याम ॥४॥ |
उतोदिता मघवन्सूर्यस्य वयं देवानां सुमतौ स्याम ॥४॥ |
||
भग एव भगवाँ अस्तु देवास्तेन वयं भगवन्तः स्याम । |
भग एव भगवाँ अस्तु देवास्तेन वयं भगवन्तः स्याम । |
||
तं त्वा भग सर्व इज्जोहवीति स नो भग |
तं त्वा भग सर्व इज्जोहवीति स नो भग पुरएता भवेह ॥५॥ |
||
समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय । |
समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय । |
||
अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहन्तु ॥६॥ |
अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहन्तु ॥६॥ |
१३:२७, १६ एप्रिल् २००९ इत्यस्य संस्करणं
ऋग्वेदः सूक्तं ७.४१
प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना । प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हुवेम ॥१॥ प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता । आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥२॥ भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन्नः । भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम ॥३॥ उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् । उतोदिता मघवन्सूर्यस्य वयं देवानां सुमतौ स्याम ॥४॥ भग एव भगवाँ अस्तु देवास्तेन वयं भगवन्तः स्याम । तं त्वा भग सर्व इज्जोहवीति स नो भग पुरएता भवेह ॥५॥ समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय । अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहन्तु ॥६॥ अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः । घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥७॥