"ऋग्वेदः सूक्तं ६.२१" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः २५: | पङ्क्तिः २५: | ||
नू म आ वाचमुप याहि विद्वान्विश्वेभिः सूनो सहसो यजत्रैः । |
नू म आ वाचमुप याहि विद्वान्विश्वेभिः सूनो सहसो यजत्रैः । |
||
ये अग्निजिह्वा ऋतसाप आसुर्ये मनुं चक्रुरुपरं दसाय ॥११॥ |
ये अग्निजिह्वा ऋतसाप आसुर्ये मनुं चक्रुरुपरं दसाय ॥११॥ |
||
स नो बोधि |
स नो बोधि पुरएता सुगेषूत दुर्गेषु पथिकृद्विदानः । |
||
ये अश्रमास उरवो वहिष्ठास्तेभिर्न इन्द्राभि वक्षि वाजम् ॥१२॥ |
ये अश्रमास उरवो वहिष्ठास्तेभिर्न इन्द्राभि वक्षि वाजम् ॥१२॥ |
||
१३:१८, १६ एप्रिल् २००९ इत्यस्य संस्करणं
ऋग्वेदः सूक्तं ६.२१
इमा उ त्वा पुरुतमस्य कारोर्हव्यं वीर हव्या हवन्ते । धियो रथेष्ठामजरं नवीयो रयिर्विभूतिरीयते वचस्या ॥१॥ तमु स्तुष इन्द्रं यो विदानो गिर्वाहसं गीर्भिर्यज्ञवृद्धम् । यस्य दिवमति मह्ना पृथिव्याः पुरुमायस्य रिरिचे महित्वम् ॥२॥ स इत्तमोऽवयुनं ततन्वत्सूर्येण वयुनवच्चकार । कदा ते मर्ता अमृतस्य धामेयक्षन्तो न मिनन्ति स्वधावः ॥३॥ यस्ता चकार स कुह स्विदिन्द्रः कमा जनं चरति कासु विक्षु । कस्ते यज्ञो मनसे शं वराय को अर्क इन्द्र कतमः स होता ॥४॥ इदा हि ते वेविषतः पुराजाः प्रत्नास आसुः पुरुकृत्सखायः । ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि ॥५॥ तं पृच्छन्तोऽवरासः पराणि प्रत्ना त इन्द्र श्रुत्यानु येमुः । अर्चामसि वीर ब्रह्मवाहो यादेव विद्म तात्त्वा महान्तम् ॥६॥ अभि त्वा पाजो रक्षसो वि तस्थे महि जज्ञानमभि तत्सु तिष्ठ । तव प्रत्नेन युज्येन सख्या वज्रेण धृष्णो अप ता नुदस्व ॥७॥ स तु श्रुधीन्द्र नूतनस्य ब्रह्मण्यतो वीर कारुधायः । त्वं ह्यापिः प्रदिवि पितॄणां शश्वद्बभूथ सुहव एष्टौ ॥८॥ प्रोतये वरुणं मित्रमिन्द्रं मरुतः कृष्वावसे नो अद्य । प्र पूषणं विष्णुमग्निं पुरंधिं सवितारमोषधीः पर्वताँश्च ॥९॥ इम उ त्वा पुरुशाक प्रयज्यो जरितारो अभ्यर्चन्त्यर्कैः । श्रुधी हवमा हुवतो हुवानो न त्वावाँ अन्यो अमृत त्वदस्ति ॥१०॥ नू म आ वाचमुप याहि विद्वान्विश्वेभिः सूनो सहसो यजत्रैः । ये अग्निजिह्वा ऋतसाप आसुर्ये मनुं चक्रुरुपरं दसाय ॥११॥ स नो बोधि पुरएता सुगेषूत दुर्गेषु पथिकृद्विदानः । ये अश्रमास उरवो वहिष्ठास्तेभिर्न इन्द्राभि वक्षि वाजम् ॥१२॥