"ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ००६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ब्रह्मवैवर्तपुराणम्/श्रीकृष्णजन्मखण्डः/अध्यायः ६ पृष्ठं [[ब...
(भेदः नास्ति)

०१:१९, २६ आगस्ट् २०१६ इत्यस्य संस्करणं


श्रीनारायण उवाच ।। ।।
ध्यात्वा स्तुत्वा च तिष्ठंतो देवास्ते तेजसः पुरः ।।
ददृशुस्तेजसो मध्ये शरीरं कमनीयकम् ।। १ ।।
सजलांभोदवर्णाभं सस्मितं सुमनोहरम् ।।
परमाह्लादकं रूपं त्रैलोक्यचित्तमोहनम् ।। २ ।।
गंडस्थलकपोलाभ्यां ज्वलन्मकर कुण्डलम् ।।
सद्रत्ननूपुराभ्यां च चरणांभोजराजितम् ।। ३ ।।
वह्निशुद्धहरिद्राभामूल्यवस्त्रविराजितम् ।।
मणिरत्नेंद्रसाराणां स्वेच्छा कौतुकनिर्मितैः ।। ४ ।।
भूषितं भूषणै रम्यैस्तद्रूपेणैव भूषितैः ।।
विनोदमुरलीयुक्तबिंबाधरमनोहरम् ।। ५ ।।
प्रसन्नेक्षणपश्यंतं भक्तानुग्रहकातरम् ।।
सद्रत्नगुटिकायुक्तकवचोरःस्थलोज्ज्वलम् ।। ६ ।।
कौस्तुभासक्तसद्रत्नप्रदीप्ततेजसोज्ज्वलम् ।।
तत्र तेजसि चार्वंगीं ददृशू राधिकाभिधाम् ।। ७ ।।
पश्यंतं सस्मितं कांतं पश्यंतीं वक्रचक्षुषा ।।
मुक्तापंक्तिविनिंद्यैकदंतपंक्तिविराजिताम् ।। ।। ८ ।।
ईषद्धास्यप्रसन्नास्यां शरत्पंकजलोचनाम् ।।
शरत्पार्वणचन्द्राभाविनिंदास्यमनोहराम् ।। ९ ।।
बंधुजीवप्रभामुष्टाधरौष्ठरु चिराननाम् ।।
रणन्मंजीरयुग्मेन पादांबुजविराजिताम् ।। 4.6.१० ।।
मणींद्राणां प्रभामोषनखराजिविराजिताम् ।।
कुङकुमाभासमाच्छाद्य पदाधोरागभूषिताम् ।। ११ ।।
अमूल्यरत्नसाराणां रशनाश्रोणिभूषिताम् ।।
हुताशनविशुद्धांशुकामूल्यज्वलितोज्ज्वलाम् ।। १२ ।।
महामणींद्रसाराणां किङ्किणीमध्यसंयुताम् ।।
सद्रत्नहारकेयूरकरकंकणभूषिताम् ।। १३ ।।
रत्नेंद्रसाररचितकपोलोज्ज्वलकुण्डलाम् ।।
कर्णोपरि मणीन्द्राणां कर्णभूषणभूषिताम् ।। १४ ।।
खगेंद्रचंचुनासाग्र गजेंद्रमौक्तिकान्विताम् ।।
मालतीमालया वक्रकबरीभारशोभि ताम् ।। १५ ।।
मालया कौस्तुभेंद्राणां वक्षःस्थलसुशोभिताम्।।
पारिजातप्रसूनानां मालाजालोज्ज्वलांबराम् ।। १६ ।।
रत्नांगुलीय निकरैः करांगुलिविभूषिताम् ।।
दिव्यशंखविकारैश्च चित्ररागविभूषितैः ।।१७।।
सूक्ष्मसूत्राकृतै रम्यैर्भूषिता शंखभूषणैः ।।
सद्रत्नसारगुटिकाराजिसूत्रसुशोभिताम् ।। १८।।
प्रतप्तस्वर्णवर्णाभामाच्छाद्य चारुविग्रहाम् ।।
नितम्बश्रोणिललितां पीनस्तननतांबराम् ।।१९।।
भूषितां भूषणैः सर्वैः सौंदर्येण विभूषितैः ।।
विस्मितास्त्रिदशाः सर्वे दृष्ट्वा तामीश्वरीं वराम्।।
तुष्टुवुस्ते सुराः सर्वे पूर्णसर्वमनोरथाः।।4.6.२०।।
।। ब्रह्मोवाच ।।
तव चरणसरोजे मन्मनश्चंचरीको भ्रमतु सततमीश प्रेमभक्त्या सरोजे ।।
भुवनविभवभोगात्तापशांत्यौषधायसुदृढसु परिपक्वादेहिभक्ति चदास्यम् ।। २१ ।।
।। शंकर उवाच ।। ।।
भवजलनिधिमग्नम्बित्तमीनो मदीयो भ्रमति सततमस्मिन्घोरसंसार कूपे ।।
विषयमतिविनिंद्यं सृष्टिसंहाररूपमपनय तव भक्तिं देहि पादारविंदे ।। २२ ।।
।। धर्म उवाच ।।
तव निजजनसार्द्धं संगमो मे मदीश भवतु विषयबंधच्छेदने तीक्ष्णखङ्गः।
तव चरणसरोजे स्थानदानैकहेतुर्जनुषि जनुषि भक्तिं देहि पादारविन्दे ।।२३।।
इत्येवं स्तवनं कृत्वा परिपूर्णैकसानसाः ।।
कामपूरस्य पुरतस्तिष्ठतो राधिकापतेः ।। २४ ।।
सुराणां स्तवनं श्रुत्वा तानु वाच कृपानिधिः ।।
हितं तथ्यं च वचनं स्मेराननसरोरुहः ।। २५ ।।
।। श्रीकृष्ण उवाच ।। ।।
तिष्ठतागच्छत सुरा मदीया नात्र संशयः ।।
शिवाश्रयाणां कुशलं प्रष्टुं युक्तं न सांप्रतम् ।। २६ ।।
निश्चिंता भवतात्रैव का चिंता वो मयि स्थिते।।
स्थितोऽहं सर्वजीवेषु प्रत्यक्षोऽहं स्तवेन वै।।२७।।
युष्माकं यमभिप्रायं सर्वं जानामि निश्चितम् ।।
शुभाशुभं च यत्कर्म काले खलु भविष्यति ।। २८ ।।
महत्क्षुद्रं च यत्कर्म सर्वं कालकृतं सुराः ।।
स्वे स्वे काले च तरवः फलिताः पुष्पिणः सदा ।। २९ ।।
परिपक्वफलाः काले काले पक्वफलान्विताः ।।
सुखं दुःखं विपत्संपच्छोकचिंताशुभाशुभम् ।। 4.6.३० ।।
स्वकर्मफलनिष्ठं च सर्वकालेऽप्युपस्थितम् ।।
न हि कस्य प्रियः को वा विप्रियो वा जगत्त्रये ।। ३१ ।।
काले कार्यवशात्सर्वे भवंत्येवाप्रियाः प्रियाः ।।
राजानो मनवः पृथ्व्यां दृष्टा युष्माभिरत्र वै ।। ३२ ।।
स्वकर्मफलपाकेन सर्वे कालवशं गताः ।।
युष्माकमधुना चैव गोलोके यत्क्षणं गतम् ।। ३३ ।।
पृथिव्यां तत्क्षणेनैव सप्तमन्वतरं गतम् ।।
इंद्राः सप्त गतास्तत्र देवेंद्र श्चाष्टमोऽधुना ।। ३४ ।।
कालचक्रं भ्रमत्येव मदीयं च दिवानिशम् ।।
इन्द्राश्च मानवा भूपाः सर्वे कालवशं गताः ।। ३५ ।।
कीर्तिः पृथ्व्यां पुण्यमद्य कथामात्रावशेषितम् ।।
अधुनाऽपि च राजानो दुष्टाश्च हरिनिंदकाः ।। ३६ ।।
बभूवुर्बहवो भूमौ महाबल पराक्रमाः ।।
सर्वे यास्यंति राजानः कालांतरवशं धुवम् ।। ३७ ।।
उपस्थितोऽपि कालोऽयं वातो वाति निरंतरम् ।।
वह्निर्दहति सूर्यश्च तपत्येव ममाज्ञया ।। ३८ ।।
व्याधयः संति देहेषु मृत्युश्चरति जंतुषु ।।
वर्षंत्येते जलधराः सर्वे देवा ममाज्ञया ।। ३९ ।।
ब्राह्मण्यनिष्ठा विप्राश्च तपोनिष्ठास्तपोधनाः ।। ब्र
ह्मर्षयो ब्रह्मनिष्ठा योगनिष्ठाश्च योगिनः ।। 4.6.४० ।।
ते सर्वे मद्भयाद्भीताः स्वकर्मधर्मतत्पराः ।।
मद्भक्ताश्चैव निःशंकाः कर्मनिर्मूलकारकाः ।। ४१ ।।
देवाः कालस्य कालोऽहं विधाता धातुरेव च ।।
संहारकर्तुः संहर्ता पातुः पाता परात्परः ।। ४२ ।।
ममाज्ञयाऽयं संहर्ता नाम्रा तेन हरः स्मृतः ।।
त्वं विश्वसृट् सृष्टिहेतोः पाता धर्मस्य रक्षणात् ।। ४३ ।।
ब्रह्मादितृणपर्यन्तं सर्वेषामहमीश्वरः ।।
स्वकर्मफलदाताऽहं कर्मनिर्मूलकारकः ।। ४४ ।।
अहं यान्संहरिष्यामि कस्तेषामपि रक्षिता ।।
यानहं पालयिष्यामि तेषां हंता न कोऽपि वा ।। ४५ ।।
सर्वेषामपि संहर्ता स्रष्टा पाताऽहमेव च ।।
नाहं शक्तश्च भक्तानां संहारे नित्यदेहिनाम् ।। ४६ ।।
भक्ता ममानुगा नित्यं मत्पादार्चनतत्पराः ।।
अहं भक्तांतिके शश्वत्तेषां रक्षणहेतव ।। ४७ ।।
सर्वे नश्यंति ब्रह्माण्डे प्रभवंति पुनःपुनः ।।
न मे भक्ताः प्रणश्यन्ति निःशंकाश्च निरापदः ।। ४८ ।।
अतो विपश्चितः सर्वे दास्यं वांछंति नो वरम् ।।
ये मां दास्यं प्रयाचंते धन्यास्तेऽन्ये च वंचिताः ।। ४९ ।।
जन्ममृत्युजराव्याधि भयं च यमयातना ।।
अन्येषां कर्मिणामस्ति न भक्तानां च कर्हिचित् ।। 4.6.५० ।।
भक्ता न लिप्ताः पापेषु पुण्येषु सर्वक र्मिणः ।।
अहं धुनोमि तेषां च कर्मभोगान्सुनिश्चितम् ।। ५१ ।।
अहं प्राणश्च भक्तानां भक्ताः प्राणा ममापि च ।।
ध्यायंते ते च मां नित्यं तान्स्मरामि दिवानिशम् ।। ५२ ।।
चक्रं सुदर्शनं नाम षोडशारं सुतीक्ष्णकम् ।।
यत्तेजः षोडशांशोऽपि नास्ति सर्वेषु जीविषु ।। ९३ ।।
भक्तान्तिके तु तच्चक्रं दत्त्वा रक्षार्थमीप्सितम् ।।
न स्वास्थ्यं न च प्रीतिर्मे यामि तेषां च सन्निधिम् ।। ५४ ।।
न मे स्वास्थ्यं च वैकुंठे गोलोके राधिकांतिके ।।
यत्र तिष्ठंति भक्तास्ते तत्र तिष्ठाम्यहर्निशम् ।। ५५ ।।
प्राणेभ्यः प्रेयसी राधा स्थितोरसि दिवानिशम् ।।
यूयं प्राणाधिका लक्ष्मीर्न मे भक्तात्परा प्रिया ।। ५६ ।।
भक्तदत्तं च यद्द्रव्यं भक्त्या ऽश्नामि सुरेश्वराः ।।
अभक्तदत्तं नाश्नामि ध्रुवं भुंक्ते बलिं स्वयम् ।। ५७ ।।
स्त्रीपुत्रस्वजनांस्त्यक्त्वा ध्यायंते मामहर्निशम् ।।
युष्मान्विहाय तान्नित्यं स्मराम्यहमहर्निशम् ।। ५८ ।।
दुष्टा यदा मे भक्तानां ब्राह्मणानां गवामपि ।।
क्रतूनां देवतानां च हिंसां कुर्वंति निश्चितम् ।। ५९ ।।
तथाऽचिरं ते नश्यंति यथा वह्नौ तृणानि च ।।
न कोऽपि रक्षिता तेषां मयि हंतर्युपस्थिते ।। 4.6.६० ।।
यास्यामि पृथिवीं देवा यात यूयं स्वमालयम् ।।
यूयं चैवांशरूपेण शीघ्रं गच्छत भूतलम् ।। ६१ ।।
इत्युक्त्वा जगतां नाथो गोपाना हूय गोपिकाः ।।
उवाच मधुरं वाक्यं सत्यं यत्समयोचितम् ।। ६२ ।।
गोपा गोप्यश्च शृणुत यात नंदव्रजं परम् ।।
वृषभानुगृहे क्षिप्रं गच्छ त्वमपि राधिके ।। ६३ ।।
वृषभानुप्रिया साध्वी नंदगोपकलावती ।।
सुबलस्य सुता सा च कमलांशसमुद्भवा ।। ।। ६४ ।।
पितॄणां मानसी कन्या धन्या मान्या च योषिताम् ।।
पुरा दुर्वाससः शापाज्जन्म तस्या व्रजे गृहे ।। ६५ ।।
तस्या गृहे जन्म लभ शीघ्रं नंदव्रजं व्रज ।।
त्वामहं बालरूपेण गृह्णामि कमलानने ।। ६६ ।।
त्वं मे प्राणाधिका राधे तव प्राणाधिकोऽप्यहम्।।
न किंचिदावयोर्भिन्नमेकांगं सर्वदैव हि ।।६७।।
श्रुत्वैवं राधिका तत्र रुरोद प्रेमविह्वला ।।
पपौ चक्षुश्चकोराभ्यां मुखचंद्रं हरेर्मुने ।।६८।।
जनुर्लभत गोपाश्च गोप्यश्च पृथिवीतले ।।
गोपानामुत्तमानां च मंदिरे मंदिरे शुभे ।।६९।।
एतस्मिन्नंतरे सर्वे ददृशू रथमुत्तमम् ।।
मणिरत्नेंद्रसारेण हीरकेण विभूषितम् ।।4.6.७०।।
श्वेतचामरलक्षेण शोभितं दर्पणायुतैः ।।
सूक्ष्मकाषायवस्त्रेण वह्निशुद्धेन भूषितम् ।। ।। ७१ ।।
सद्रत्नकलशानां च सहस्रेण सुशोभितम् ।।
पारिजातप्रसूनानां मालाजालैर्विराजितम् ।। ७२ ।।
पार्षदप्रवरैयुक्तं शात कुंभमयं शुभम् ।।
तेजःस्वरूपमतुलं शतसूर्यसमप्रभम् ।। ७३ ।।
तत्रस्थं पुरुषं श्यामं सुन्दरं कमनीयकम् ।।
शंखचक्रगदापद्मधरं पीतांबरं वरम् ।। ७४ ।।
किरीटिनं कुण्डलिनं वनमालाविभूषितम् ।।
चंदनागुरुकस्तूरीकुङ्कुमद्रवचर्चितम् ।। ७५ ।।
चतुर्भुजं स्मेरवक्त्रं भक्तानुग्रहकातरम् ।।
मणिरत्नेंद्रसाराणां सारभूषणभूषितम् ।। ७६ ।।
देवीं तद्वामतो रम्यां शुक्लवर्णां मनोहराम् ।।
रत्नालंकारशोभाढ्यां शोभितां पीतवाससा ।। ७७ ।।
शरत्पार्वणचंद्रास्यां शरत्पंकजलोचनाम् ।।
पक्वबिंबाधरोष्ठीं च स्मेरयु क्तां मनोहराम् ।। ७८ ।।
वेणुवीणाग्रंथहस्तां भक्तानुग्रहकातराम् ।।
विद्याधिष्ठातृदेवीं च ज्ञानरूपां सरस्वतीम् ।। ७९ ।।
अपरां दक्षिणे रम्यां शतचंद्रसमप्रभाम् ।।
प्रतप्तस्वर्णवर्णाभां सस्मितां सुमनोहराम् ।। 4.6.८० ।।
सद्रत्नकुण्डलाभ्यां च सुकपोलविराजि ताम् ।।
अमूल्यरत्नखचितामूल्यवस्त्रेण भूषिताम् ।। ८१ ।।
अमूल्यरत्नकेयूरकरकंकणशोभिताम् ।।
सद्रत्नसारमंजीरकलशब्दस मन्विताम् ।। ८२ ।।
मणींद्रकिंकिणीयुक्तमध्यदेशसमन्विताम् ।।
पारिजातप्रसूनानां मालावक्षः स्थलोज्ज्वलाम् ।। ८३ ।।
प्रफुल्ल मालतीमालासंयुक्तकबरीयुताम् ।।
शरच्चंद्रप्रभामुष्णन्मुखचारुविभूषिताम् ।। ८४ ।।
कस्तूरीबिंदुसंयुक्तसिन्दुरतिलकान्विताम् ।।
सुचारुकज्जलासक्तशरत्पंकजलोचनाम् ।। ८५ ।।
सहस्रदलसंसक्तलीलाकमलसंयुताम् ।।
नारायणं च पश्यंतं पश्यंती वक्रच क्षुषा ।। ८६ ।।
अवरुह्य रथात्तूर्ण सस्त्रीकः सहपार्षदः ।।
जगाम च सभां रम्यां गोपगोपीसमन्विताम् ।। ८७ ।।
देवा गोप्यश्च गोपाश्च तस्थुः प्रांजलयो मुदा ।।
सामवेदोक्तस्तोत्रेण कृतेन च सुरर्षिभिः ।। ८८ ।।
गत्वा नारायणो देवो विलीनः कृष्णविग्रहे ।।
दृष्ट्वा च परमाश्चर्यं ते सर्वे विस्मयं ययुः ।। ८९ ।।
एतस्मिन्नन्तरे तत्र शातकुंभमयाद्रथात् ।।
अवरुह्य स्वयं विष्णुः पाता च जग तां पतिः ।। 4.6.९० ।।
आजगाम चतुर्बाहुर्वनमालाविभूषितः ।।
पीतांबरधरः श्रीमान्सस्मितः सुमनोहरः ।। ९१ ।।
सर्वालंकारशोभा ढ्यः सूर्यकोटिसमप्रभः ।।
उत्तस्थुस्ते च तं दृष्ट्वा तुष्टुवुः प्रणता मुने ।। ९२ ।।
स चापि लीनस्तत्रैव राधिकेशस्य विग्रहे ।।
ते दृष्ट्वा महदाश्चर्यं विस्मयं परमं ययुः ।। ९३ ।।
संविलीने हरेरंगे श्वेतद्वीपनिवासिनि ।।
एतस्मिन्नंतरे तूर्णमाजगाम त्वरान्वितः ।। ९४ ।।
शुद्धस्फटिकसंकाशो नाम्ना संकर्षणः स्मृतः ।।
सहस्रशीर्षा पुरुषः शतसूर्यसमप्रभः ।। ९५ ।।
आगतं तुष्टुवुः सर्वे दृष्ट्वा तं विष्णुवि ग्रहम् ।।
स चागत्य नतस्कधस्तुष्टाव राधिकेश्वरम् ।। ९६ ।।
सहस्रमूर्धा भक्त्या च प्रणनाम च नारद ।।
आवां च धर्मपुत्रौ द्वौ नर नारायणाभिधौ ।। ९७ ।।
लीनोऽहं कृष्णपादाब्जे बभूव फाल्गुनोऽवरः।।
ब्रह्मेशशेषधर्माश्च तस्थुरेकत्र तत्र वै ।। ९८ ।।
एतस्मिन्नंतरे देवा ददृशू रथमुत्तमम् ।।
स्वर्णसारविकारं च नानासनपरिच्छदम् ।। ९९ ।।
मणींद्रसारसंयुक्तं वह्निशुद्धांशुकान्वितम् ।।
श्वेतचामर संयुक्तं भूषितं दर्पणान्वितैः ।। 4.6.१०० ।।
सद्रत्नसारकलशसमूहेन विराजितम् ।।
पारिजातप्रसूनानां मालाजालैः सुशोभितम्।। १०१ ।।
सहस्रचक्रसंयुक्तं मनोयायि मनोहरम् ।।
ग्रीष्ममध्याह्नमार्तंडप्रभामोषकरं वरम् ।। १०२ ।।
मुक्तामाणिक्यवज्राणां समूहेन समुज्ज्वलम् ।।
चित्रपुत्तलिकापुष्पसरः काननचित्रितम् ।। १०३ ।।
देवानां दानवानां च रथानां प्रवरं मुने ।।
यत्नेन शंकरप्रीत्या निर्मितं विश्वकर्मणा ।। १०४ ।।
पंचाशद्योजनोर्ध्वं च चतुर्योजनविस्तृतम् ।।
रतितुल्यवधूयुक्तैः शोभितं रतिमं दिरैः ।। १०५ ।।
तत्रस्थां ददृशुर्देवीं रत्नालंकारभूषिताम् ।।
प्रदग्धस्वर्णसाराणां प्रभामोषकरद्युतिम् ।। १०६ ।।
तेजःस्वरूपा मतुलां मूलप्रकृतिमीश्वरीम् ।।
सहस्रभुजसंयुक्तां नानायुधसमन्विताम् ।। १०७ ।।
ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकातराम् ।।
गंडस्थलकपोलस्थसद्रत्नकुंडलोज्ज्वलाम् ।। १०८ ।।
रत्नेन्द्रसाररचितक्वणन्मञ्जीररंजिताम् ।।
मणींद्रमेखलायुक्तमध्य देशसुशोभिताम् ।। १०९ ।।
सद्रत्नसारकेयूरकरकंकणभूषिताम् ।।
मंदारपुष्पमालाभिरुरःस्थलसमुज्ज्वलाम् ।। 4.6.११० ।।
नितंबकठिनश्रोणीं पीनोन्नतकुचानताम् ।।
शरत्सुधाकराभासविनिंदास्यमनोहराम् ।। १११ ।।
कज्जलोज्जलरेखाक्तशरत्पंकजलोच नाम् ।।
चंदनागुरुकस्तूरीचित्रपत्रविभूषिताम् ।। ११२ ।।
मुक्तापंक्तिप्रभामुष्टदंतराजिविराजिताम् ।।
प्रफुल्लमालतीमालासंसक्तकबरीं वराम् ।।११३ ।।
पक्षींद्रचंचुनासाग्रगजेंद्रमौक्तिकान्विताम् ।।
वह्निशुद्धांशुकेनातिज्वलितेन समुज्ज्वलाम् ।। ११४ ।।
सिंहपृष्ठसमारूढां सुताभ्यां सहितां मुदा ।।
अवरुह्य रथात्तूर्ण श्रीकृष्णं प्रणनाम च ।। ११५ ।।
सुताभ्यां सहिता देवी समुवा स वराननाः ।।
गणेशः कार्त्तिकेयश्च नत्वा कृष्ण परात्परम् ।। ११६ ।।
ननाम शंकरं धर्ममनंतं कमलोद्भवम् ।।
उत्तस्थुरारात्ते देवा दृष्ट्वा तौ त्रिदशेश्वरौ ।। ११७ ।।
आशिषं च ददुर्देवा वासयामासुरंतिके ।।
ताभ्यां सह सदालापं चक्रुर्देवा मुदाऽन्विताः ।। ११८ ।।
तस्थुर्देवाः सभामध्ये देवस्य पुरतो हरेः ।।
गोपा गोप्यश्च बहुशो बभूवुर्विस्मयाकुलाः ।। ११९ ।।
उवाच कमलां कृष्णः स्मेराननसरोरुहः ।।
त्वं गच्छ भीष्मकगृहं नानारत्नसमन्वितम् ।। 4.6.१२० ।।
वैदर्भ्या उदरे जन्म लभ देवि सना तनि ।।
तव पाणिं ग्रहीष्यामि गत्वाऽहं कुंडिनं सति ।। १२१ ।।
ता देव्यः पार्वतीं दृष्ट्वा समुत्थाय त्वरान्विताः ।।
रत्नसिंहासने रम्ये वासयामासुरीश्वरीम् ।। १२२।।
विप्रेंद्र पार्वतीलक्ष्मीवागधिष्ठातृदेवताः ।।
तस्थुरेकासने तत्र संभाष्य च यथोचि तम् ।। १२३ ।।
ताश्च संभाषयामासुः संप्रीत्या गोपकन्यकाः ।।
ऊचुर्गोपालिकाः काश्चिन्मुदा तासां च संनिधौ ।। १२४ ।।
श्रीकृष्णः पार्वतीं तत्र समुवाच जगत्पतिः ।।
देवि त्वमंशरूपेण जन नंदव्रजे शुभे ।। १२५ ।।
उदरे च यशोदायाः कल्याणी नंदरेतसा ।।
लभ जन्म महामाये सृष्टिसंहारकारिणि ।। १२६ ।।
ग्रामे ग्रामे च पूजां ते कारयिष्यामि भूतले ।।
कृत्स्ने महीतले भक्त्या नगरेषु वनेषु च ।। १२७ ।।
तत्राधिष्ठातृदेवीं त्वां पूजयिष्यंति मानवाः ।।
द्रव्यैर्नानाविधैर्दिव्यैर्बलिभिश्च मुदाऽन्विताः ।। १२८ ।।
त्वद्भूमिस्पर्शमात्रेण सूतिकामंदिरे शिवे ।।
पिता मां तत्र संस्थाप्य त्वामादाय गमिष्यति ।। १२९ ।।
कंसदर्शन मात्रेण गमिष्यसि शिवांतिकम् ।।
भारावतरणं कृत्वा गमिष्यामि स्वमाश्रमम् ।। 4.6.१३० ।।
इत्युक्त्वा श्रीहरिस्तूर्णमुवाच च षडाननम् ।।
अंशरूपेण वत्स त्वं गमिष्यसि महीतलम् ।। १३१ ।।
जांबवत्याश्च गर्भे च लभ जन्म सुरेश्वर ।।
अंशेन देवताः सर्वा गच्छंतु धरणीतलम् ।। १३२ ।।
भारहारं करिष्यामि वसुधायाश्च निश्चितम् ।।
इत्युक्त्वा राधिकानाथस्तस्थौ सिंहासने वरे ।। १३३ ।।
तस्थुर्देवाश्च देव्यश्च गोपा गोप्यश्च नारद ।।
एतस्मिन्नंतरे ब्रह्मा समुत्तस्थौ हरेः पुरः ।।
पुटांजलिर्जगत्कांतमुवाच विन यान्वितः ।। १३४ ।।
।। ब्रह्मोवाच ।। ।।
अवधानं कुरु विभो किंकरस्य निवेदनम् ।। १३५ ।।
आज्ञां कुरु महाभाग कस्य कुत्र स्थलं भुवि ।।
भर्ता पातोद्धारकर्ता सेवकानां प्रभुः सदा ।। १३६ ।।
स भृत्यः सर्वदा भक्त ईश्वराज्ञां करोति यः ।।
के देवाः केन रूपेण देव्यश्च कलया कया ।। १३७ ।।
कुत्र कस्याभिदेयं च विषयं च महीतले ।।
ब्रह्मणो वचनं श्रुत्वा प्रत्युवाच जगत्पतिः ।। १३८ ।।
यत्र यस्यावकाशं च कथयामि विधानतः ।।
श्रीकृष्ण उवाच ।। ।।
कामदेवो रौक्मिणेयो रतिर्मायावती सती ।। १३९ ।।
शंबरस्य गृहे या च छायारूपेण संस्थिता ।।
त्वं तस्य पुत्रो भविता नाम्नाऽनिरुद्ध एव च ।। 4.6.१४० ।।
भारती शोणितपुरे बाणपुत्री भविष्यति ।।
अनंतो देवकीगर्भाद्रौहिणेयो जगत्पतिः ।। १४१ ।।
मायया गर्भसंकर्षान्नाम्ना संकर्षणः प्रभुः ।।
कालिंदी सूर्यतनया गंगांशेन महीतले ।। १४२ ।।
अर्द्धांशेनैव तुलसी लक्ष्मणा राज कन्यका ।।
सावित्री वेदमाता च नाम्ना नाग्नजिती सती ।। १४३ ।।
वसुंधरा सत्यभामा शैब्या देवी सरस्वती ।।
रोहिणी मित्रविंदा च भविता राजकन्यका ।। १४४ ।।
सूर्यपत्नी रत्नमाला कलया च जगत्प्रभोः ।।
स्वाहांशेन सुशीला च रुक्मिण्याद्याः स्त्रियो नव ।। १४५ ।।
दुर्गांशार्द्धाज्जांबवती महिषीणां दश स्मृताः ।।
अर्द्धांशेन शैलपुत्री यातु जांबवतो गृहम् ।। १४६ ।।
कैलासे शंकराज्ञा च बभूव पार्वतीं पुरा ।।
कैलासगामिनं विष्णुं श्वेतद्वीपनिवासिनम् ।।
आलिंगनं देहि कांते नास्ति दोषो ममा ज्ञया ।। १४७ ।।
।। ब्रह्मोवाच ।।
कथं शिवाज्ञा तां देवीं बभूव राधिकापते ।।
विष्णोः संभाषणे पूर्वं श्वेतद्वीपनिवासिनः ।। १४८ ।।
।। श्रीभगवानुवाच ।। ।।
पुरा गणेशं द्रष्टुं च प्रजग्मुः सर्वदेवताः ।।
श्वेतद्वीपात्स्वयं विष्णुर्जगाम शंकरालये ।। १४९ ।।
दृष्ट्वा गणेशं मुदितः समुवास सुखासने ।।
सुखेन ददृशुः सर्वे त्रैलोक्यमोहनं वपुः ।। 4.6.१५०।।
किरीटिनं कुंडलिनं पीतांबरधरं वरम् ।।
सुंदरं श्याम रूपं च नवयौवनसंयुतम् ।। १५१ ।।
चंदनागुरुकस्तूरीकुंकुमद्रवसंयुतम् ।।
रत्नालंकारशोभाढयं स्मेराननसरोरुहम् ।। १५२ ।।
रत्न सिंहासनस्थं च पार्षदैः परिवेष्टितम् ।।
वंदितं च सुरैः सर्वैः शिवेन पूजितं स्तुतम् ।।१५३।।
तं दृष्ट्वा पार्वती विष्णुं प्रसन्नवदनेक्षणा ।।
मुखमाच्छादितं चक्रे वाससा व्रीडया सती ।।१५४।।
अतीव सुन्दरं रूपं दर्शंदर्शं पुनःपुनः ।।
ददर्श मुखमाच्छाद्य निमेषरहिता सती ।। १५९ ।।
परमाद्भुतवेषं च सस्मिता वक्रचक्षुषा ।।
सुखसागरसम्मग्ना बभूव पुलकांचिता ।।१५६।।
क्षणं ददर्श पञ्चास्यं शुभ्रवर्णं त्रिलोचनम् ।।
त्रिशूलपरिघधरं कन्दर्पकोटिसुन्दरम् ।। १५७ ।।
क्षणं ददर्श श्यामं तमेकास्यं च द्विलोचनम् ।।
चतुर्भुजं पीतवस्त्रं वनमालाविभूषितम् ।। १५८ ।।
एकं बह्म मूर्तिभेदमभेदं वा निरूपितम् ।।
दृष्ट्वा बभूव सा माया सकामा विष्णु मायया ।। १५९ ।।
मदंशाश्च त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।।
ताभ्यामौत्कर्षपाताच्च श्रेष्ठः सत्त्वगुणात्मकः ।। 4.6.१६० ।।
दृष्ट्वा तं पार्वती भक्त्या पुलकांचितविग्रहा।।
मनसा पूजयामास परमात्मानमीश्वरम् ।। १६१ ।।
दुर्गांतराभिप्रायं च बुबुधे शंकरः स्वयम् ।।
सर्वांतरात्मा भगवानंतर्यामी जगत्पतिः ।। १६२ ।।
दुर्गां निर्जनमाहूय तामुवाच हरः स्वयम् ।।
बोधयामास विविधं हितं तथ्यमखंडितम् ।। १६३ ।।
।। श्रीशंकर उवाच ।। ।।
निवेदनं मदीयं च निबोधं शैलकन्यके ।।
शृंगारं देहि भद्रं ते हरये परमात्मने ।। १५४ ।।
अहं ब्रह्मा च विष्णुश्च ब्रह्मैकं च सनातनम् ।।
वदैको वेदरहितो विषयान्मूर्तिभेदकः ।। १६५ ।।
एका प्रकृतिः सर्वेषां माता त्वं सर्वरूपिणी ।।
स्वयंभूरसि वाणी त्व लक्ष्मीर्नारायणोरसि ।। १६६ ।।
मम वक्षसि दुर्गा त्वं निबोधाध्यात्मकं सति ।।
शिवस्य वचनं श्रुत्वा तमुवाच सुरेश्वरी ।। १६७ ।।
।। पार्वत्युवाच ।। ।।
दीनबंधो कृपासिंधो तव मामकृपा कथम्।।
सुचिरं तपसा लब्धो नाथस्त्वं जगतां मया ।। १६८ ।।
मादृशीं किंकरी नाथ न परित्यक्तुमर्हसि ।।
अयोग्यमीदृशं वाक्यं मा मा वद महेश्वर ।। १६९ ।।
तव वाक्यं महादेव करिष्याम्येव पालनम् ।।
देहांतरे जन्म लब्ध्वा भजिष्यामि हरिं हर ।। 4.6.१७० ।।
इत्येवं वचनं श्रुत्वा विरराम महेश्वरः ।।
उच्चैर्जहासाभयदः पार्वत्यै चाभयं ददौ ।। १७१ ।।
तत्प्रतिज्ञापालनाय पार्वती जांबवद्गृहे ।।
लभिष्यति जनुर्धातर्नाम्ना जांबवती सती ।। १७२ ।।
।। ब्रह्मोवाच ।। ।।
भूमौ कतिविधे भूपे संस्थिते पार्वती कथम् ।।
ललाभ भारते जन्म निंदिते भाल्लुके गृहे ।।१७३।।
।। श्रीकृष्ण उवाच ।। ।।
रामावतारे त्रेतायां देवांशाश्च ययुर्महीम् ।।
हिमालयांशो भल्लूको जांबवान्नाम किंकरः ।। १७४ ।।
रामस्य वरदानेन चिरंजीवी श्रिया युतः ।।
कोटिसिंहबलाधानं विधत्ते च महाबलः ।। १७५ ।।
पितुरंशगृहे दुर्गा जगामांशेन भूतलम् ।।
पूर्वं पूर्वस्य वृत्तांतं कथितं शृणु मन्मुखात् ।। १७५ ।।
सर्वेषां च सुराणां वै वंशा गच्छंतु भूतलम् ।।
नृपपुत्रा मत्सहाया भविष्यंति रणे विधे ।। १७७ ।।
कमलाकलया सर्वा भवंतु नृपकन्यकाः ।।
मन्महिष्यो भविष्यंति सहस्राणां च षोडश ।। १७८ ।।
धर्मोऽयमंशरूपेण पांडुपुत्रो युधिष्ठिरः ।।
वायोरंशाद्भीमसेनः स वज्री ह्यर्जुनः स्वयम् ।। १७९ ।।
नकुलः सहदेवश्च स्वर्वैद्यांशसमुद्भवौ ।
सृर्यांशः कर्णवीरश्च विदुरः स यमः स्वयम् ।। 4.6.१८० ।।
दुर्योधनः कलेरंशः समुद्रांशश्च शंतनुः ।।
अश्वत्थामा शंकरांशो द्रोणो वह्न्यंशसंभवः ।। १८१ ।।
हुताशनांशो भगवान्धृष्टद्युम्नो महाबलः ।।
चंद्रांशोऽप्यभिमन्युश्च भीष्मश्चैव वसूद्भवः ।। १८२ ।।
वसुदेवः कश्यपांशोऽप्यदित्यंशा च देवकी ।।
वस्वंशो नंदगोपश्च यशोदा वसुका मिनी ।। १८३ ।।
द्रौपदी कमलांशा च यज्ञकुंडसमुद्भवा ।।
सुभद्रा शतरूपांशा देवकीगर्भसंभवा ।।१८४।।
देवा गच्छंतु पृथिवीमंशेन भारहारकाः ।।
कलया देवपत्न्यश्च गच्छंतु पृथिवीतलम् ।। १८५ ।।
इत्येवमुक्त्वा भगवान्विरराम च नारद ।।
सर्वं विवरणं श्रुत्वा तत्रोवास प्रजापतिः ।।१८६।।
कृष्णस्य वामे वाग्देवी दक्षिणे कमलालया ।।
पुरतो देवताः सर्वाः पार्वती चापि नारद ।। १८७ ।।
गोप्यो गोपाश्च परितो राधा वक्षःस्थलस्थिता ।।
एतस्मिन्नंतरे सा च तमुवाच व्रजेश्वरी ।।१८८।।
।। राधिकोवाच ।।
शृणु नाथ प्रवक्ष्यामि किंकरीवचनं प्रभो ।।
प्राणा दहंति सततमांदोलयति मे मनः ।। १८९ ।।
चक्षुर्निमीलनं कर्तुमशक्ता तव दर्शने ।।
त्वया विना कथं नाथ यास्यामि धरणीतलम् ।। 4.6.१९० ।।
कियत्कालांतरेणैव मेलनं मे त्वया सह ।।
प्राणेश्वर ब्रूहि सत्यं भविष्यत्येव गोकुले ।। १९१ ।।
निमेषं च युगशतं भविता मे त्वया विना ।।
कं द्रक्ष्यामि क्व यास्यामि को वा मां पालयिष्यति ।। १९२ ।।
मातरं पितरं बंधुं भ्रातरं भगिनीं सुतम् ।।
त्वया विनाऽहं प्राणेश चिंतयामि न कश्चन ।। १९३ ।।
करोषि मायया छन्ना मां चेन्मायेश भूतले ।।
विस्मृतां विभवं दत्त्वा मे सत्यं शपथं कुरु ।। १९४ ।।
अनुक्षणं मम मनोमधुपो मधुसूदन ।।
करोतु भ्रमणं नित्यं समाध्वीके पदांबुजे ।। १९५ ।।
यत्रयत्र च यस्यां वा योनौ जन्म भवत्विदम् ।।
त्वं स्वस्य स्मरणं दास्यं मह्यं दास्यसि वांछितम् ।। १९६ ।।
कृष्णस्त्वं राधिकाऽहं च प्रेमसौभाग्यमावयोः ।।
न विस्मरामि भूमौ च देहि मह्यं वरं परम् ।। १९७ ।।
यथा तन्वा सह प्राणाः शरीरं छायया सह ।।
तथाऽऽवयोर्जन्म यातु देहि मह्यं वरं विभो ।। १९८ ।।
चक्षुर्निमेषविच्छेदो भविता नावयोर्भुवि ।।
तत्रागत्यापि कुत्रापि देहि मह्यं वरं प्रभो ।। १९९ ।।
मम प्राणैस्तव तनुः केन वा करुणा हरे ।।
आत्मना मुरलीपादौ मनसा वा विनिर्मितौ ।। 4.6.२०० ।।
स्त्रियः कतिविधाः संति पुरुषा वा पुरुष्टुत ।।
नास्ति कुत्रापि कांता वा कांत्या शक्त्या च मादृशी ।। २०१ ।।
तव देहार्धभागेन केन वाऽहं विनिर्मिता ।।
अयमेवावयोर्भेदो नास्त्यतस्त्वयि मे मनः ।। २०२ ।।
ममात्मा मानसं प्राणास्त्वयि संस्थापिता यथा ।।
तवात्ममानसप्राणा मयि वा संस्थितास्तथा ।।२०३।।
अतो निमेषविरहादात्मनोर्विक्लवं मनः ।।
प्रदग्धं सन्ततं प्राणा दहंति विरहश्रुतौ ।। २०४ ।।
इत्येवमुक्त्वा सा देवी तत्रैव सुरसंसदि।।
भूयोभूयो रुरोदोच्चैर्धृत्वा तच्चरणांबुजम् ।। २०५।।
क्रोडे कृत्वा तु तां कृष्णो मुखं संमृज्य वाससा ।।
बोधयामास विविधं सत्यं तथ्यं हितं वचः ।। २०६ ।।
श्रीकृष्ण उवाच ।।
आध्यात्मिकं परं योगं शोकच्छेदनकारकम् ।।
शृणु देवि प्रवक्ष्यामि योगींद्राणां च दुर्लभम् ।। २०७ ।।
आधाराधेययोः सर्वं ब्रह्मांडं पश्य सुन्दरि ।।
आधारव्यतिरेकेण नास्त्याधेयस्य संभवः ।। ।। २०८ ।।
फलाधारं च पुष्पं च पुष्पाधारं च पल्लवम् ।।
स्कन्धश्च पल्लवाधारः स्कन्धाधारस्तरुः स्वयम् ।। २०९ ।।
वृक्षाधारो ऽप्यंकुरश्च जीवशक्तिसमन्वितः ।।
अष्टिरेकांकुराधारश्चाष्ट्याधारो वसुन्धरा ।। 4.6.२१० ।।
शेषो वसुन्धराधारः शेषाधारो हि कच्छपः।।
वायुश्च कच्छपाधारो वाय्वाधारोऽहमेव च ।। २११ ।।
ममाधारस्वरूपा त्वं त्वयि तिष्ठामि सांप्रतम् ।।
त्वं च शक्तिसमूहा च मूलप्रकृ तिरीश्वरी ।। २१२ ।।
त्वं शरीरस्वरूपाऽसि त्रिगुणाऽऽधाररूपिणी ।।
तवात्माऽहं निरीहश्च चेष्टावांश्च त्वया सह ।।२१३।।
पुरुषाद्वीर्यमुत्पन्नं वीर्यात्सन्ततिरेव च ।।
तयोराधाररूपा च कामिनी प्रकृतेः कला ।। २१४ ।।
विना देहेन क्वात्मा च क्व शरीरं विनाऽऽत्मना।।
प्राधान्यं च तयोर्देवि विना त्वाऽद्य कुतो भवः ।।२१५।।
न कुत्राप्यावयोर्भेदो राधे संसारबीजयोः ।।
यत्रात्मा तत्र देहं च न भेदो विनयेन किम् ।। २१६ ।।
यथा क्षीरे च धावल्यं दाहिका च हुताशने ।।
भूमौ गन्धो जले शैत्यं तथा त्वयि मयि स्थिते ।। २१७ ।।
धावल्यदुग्धयोरैक्यं दाहिकानलयोर्यथा ।।
भूगन्धजलशैत्यानां नास्ति भेदस्तथाऽऽवयोः ।। २१८ ।।
मया विना त्वं निर्जीवा चादृश्योऽहं त्वया विना ।।
त्वया विना भवं कर्तुं नालं सुन्दरि निश्चितम् ।। २१९ ।।
विना मृदा घटं कर्तुं यथा नालं कुलालकः ।।
विना स्वर्णं स्वर्णकारोऽलंकारं कर्तुमक्षमः ।। 4.6.२२० ।।
स्वयमात्मा यथा नित्यस्तथा त्वं प्रकृतिः स्वयम् ।।
सर्वशक्तिसमायुक्ता सर्वाधारा सनातनी ।। २२१ ।।
मम प्राणसमा लक्ष्मीवाणी च सर्वमंगला ।।
ब्रह्मेशानन्तध र्माश्च त्वं मे प्राणाधिका प्रिया ।। २२२ ।।
समीपस्था इमे सर्वे सुरा देव्यश्च राधिके ।।
एभ्योऽप्यधिका नो चेत्कथं वक्षः स्थलस्थिता ।। २२३ ।।
त्यजाश्रुमोक्षणं राधे भ्रांतिं च निष्फलां सति ।।
विहाय शंकां निःशंकं वृषभानुगृहं व्रज ।। २२४ ।।
कलावत्याश्च जठरे मासानां नव सुन्दरि ।।
वायुना पूरयित्वा च गर्भं रोधय मायया ।। २२५।।
दशमे समनुप्राप्ते त्वमाविर्भव भूतले ।।
स्वात्मरूपं परित्यज्य शिशुरूपं विधाय च ।। २२६ ।।
वायुनिःसारणे काले कलावत्याः समीपतः ।।
भूमौ विवसनीभूय पतित्वा रोदिषि ध्रुवम् ।।२२७।।
अयोनिसंभवा त्वं च भविता गोकुले सति ।।
अयोनिसंभवोऽहं च नावयोर्गर्भसंस्थितिः ।। २२८ ।।
भूमिसंस्पृष्टमात्रं मां गोकुले प्रापयिष्यति ।।
तव हेतोर्गमिष्यामि कृत्वा कंसभयं छलम् ।। २२९ ।।
यशोदामंदिरे मां च सानन्दं नन्दनंदनम् ।।
नित्यं द्रक्ष्यसि कल्याणि ममाश्लेषणपूर्वकम् ।। 4.6.२३० ।।
स्मृतिस्ते भविता काले वरेण मम राधिके ।।
स्वच्छन्दं विहरिष्यामि नित्यं वृन्दावने वने ।। २३१ ।।
त्रिःसप्तशतकोटीभिर्गोपीभिर्गोकुलं व्रज ।।
त्रयस्त्रिंशद्वयस्याभिः सुशीलादिभिरेव च ।। २३२ ।।
संस्थाप्य संख्यारहिता गोपीर्गोकुल एव च ।।
ता आश्वास्य प्रबोधैश्च मितया च सुधागिरा ।।२३३।।
अहं गोपाल सुहृदः संस्थाप्यात्रैव राधिके ।।
वसुदेवाश्रमं पश्चाद्यास्यामि मथुरां पुरीम् ।। २३४ ।।
व्रजे व्रजन्तु क्रीडार्थं मम संगे प्रियात्प्रियाः।।
बल्लवानां गृहे जन्म लभन्तां गोपकोटयः ।। २३५ ।।
इत्येवमुक्त्वा श्रीकृष्णो विरराम च नारद ।।
ऊषुर्देवाश्च देव्यश्च गोपा गोप्यश्च तत्र वै ।। २३६ ।।
ब्रह्मेशशेषधर्माश्च श्रीकृष्णं तं परात्परम् ।।
शिवापद्मासरस्वत्यस्तुष्टुवुः परया मुदा ।। २३७ ।।
भक्त्या गोपाश्च गोप्यश्च विरहज्वरकातराः ।।
तत्र संस्तूय श्रीकृष्णं प्रणेमुः प्रेमविह्वलाः ।। २३८
प्राणाधिकं प्रियं कांतं राधापूर्णमनोरथम् ।।
परितुष्टोऽभवद्भक्त्याविरहज्वरकातराम् ।। २३९ ।।
साश्रुपूर्णातिदीनां च दृष्ट्वा राधां भयाकुलाम् ।।
प्रबोधवचनं श्रुत्यमुवाच तां हरिः स्वयम् ।। 4.6.२४० ।।
।। श्रीकृष्ण उवाच ।।
प्राणाधिके महादेवि स्थिरा भव भयं त्यज ।।
यथा त्वं च तथाऽहं च का चिंता ते मयि स्थिते ।। २४१ ।।
किं तु ते कथयिष्यामि किंचिदेवास्त्यमंगलम् ।।
वर्षाणां शतकं पूर्णं त्वद्विच्छेदो मया सह ।। २४२ ।।
श्रीदामशापजन्येन कर्मभोगेन सुन्दरि ।।
भविष्यत्येव मम च मथुरागमनं ततः ।। २४३ ।।
तत्र भारावतरणं पित्रोर्बंधनमोचनम् ।।
मालाकारतंतुवायकुब्जिकानां च मोक्षणम् ।। २४४ ।।
घातयित्वा च यवनं मुचुकुन्दस्य मोक्षणम् ।।
द्वारकायाश्च निर्माणं राजसूयस्य दर्शनम् ।। २४५ ।।
उद्वाहं राजकन्यानां सहस्राणां च षोडश ।।
दशाधिकशतस्यापि शत्रूणां दमनं तथा ।। २४६ ।।
मित्रोपकरणं चैव वाराणस्याश्च दाहनम् ।।
हरस्य जृंभणं तत्र बाणस्य भुजकृंतनम् ।। २४७ ।।
पारिजातस्य हरणं यद्यत्कर्माणि तानि च ।।
गमनं तीर्थयात्रायां मुनिसंघप्रदर्शनम् ।। २४८ ।।
संभाषणं च बंधूनां यज्ञसंपादनं पितुः ।।
शुभक्षणे पुनस्तत्र त्वया सार्द्धं प्रदर्शनम् ।।
करिष्यामि च तत्रैव गोपिकानां च दर्शनम् ।। २४९ ।।
तुभ्यमाध्यात्मिकं दत्त्वा पुनः सत्यं त्वया सह ।।
दिवानिशमविच्छेदो मया सार्द्धमतः परम् ।। 4.6.२५० ।।
भविष्यति त्वया सार्द्धं पुनरागमनं व्रजे ।।
कांते विच्छेदसमये वर्षाणां शतके सति ।। २५१ ।।
नित्यं संमीलन स्वप्ने भविष्यति त्वया सह ।।
मम नारायणांशो यस्तस्य यानं च द्वारकाम् ।। २९२ ।।
शतवर्षांतरे साध्यमेतदेव सुनिश्चितम् ।।
भविष्यति पुनस्तत्र वने रासस्त्वया सह ।। २५३ ।।
पुनः पित्रोश्च गोपीनां शोकसंमार्जनं परम् ।।
कृत्वा भारावतरणं पुनरागमनं मम ।। २५४ ।।
त्वया सहापि गोलोकं गोपैर्गोपीभिरेव च ।।
मम नारायणांशस्य वाण्या च पद्मया सह ।। २५५ ।।
वैकुंठगमनं राधे नित्यस्य परमात्मनः ।।
श्वेतद्वीपं धर्मगेहमंशानां च भविष्यति ।। २५६ ।।
देवानां चैव देवीनामंशा यास्यंति स्वक्षयम् ।।
पुनः संस्थितिरत्रैव गोलोके मे त्वया सह ।। २५७ ।।
इत्येवं कथितं सर्वं भविष्यं च शुभाशुभम् ।।
मया निरूपितं यत्तत्कांते केन निवार्यते ।। २५८ ।।
इत्येवमुक्त्वा श्रीकृष्णः कृत्वा राधां स्ववक्षसि ।।
तस्थौ तस्थुः सुराः सर्वे सुरपत्न्यश्च विस्मिताः ।। २५९ ।।
उवाच श्रीहरिर्देवान्देवीं च समयोचितम् ।।
देवा गच्छत कार्यार्थं स्वालयं विषयोचितम् ।। 4.6.२६० ।।
गच्छ पार्वति कैलासं सुताभ्यां स्वामि ना सह ।।
मया नियोजितं कर्म सर्वं काले भविष्यति ।। २६१ ।।
भविता कलया जन्म सर्वेषां च व्रजेश्वरि ।।
क्षुद्राणां चैव महतां देवं लंबोदरं विना ।। २६२ ।।
प्रणम्य श्रीहरिं देवाः स्वालयं प्रययुर्मुदा ।।
लक्ष्मीं सरस्वतीं भक्त्या प्रणम्य पुरुषोत्तमम् ।। २६३ ।।
हरिणा योजितं कर्म कर्तुं व्यग्रा महीं ययुः ।।
भर्त्रा निरूपितं स्थानं देवानामपि दुर्लभम् ।। २६४ ।।
उवाच राधिकां कृष्णो वृषभानुगृहं व्रज ।।
गोपगोपीसमूहैश्च सह पूर्वनिरूपितैः ।। २६५ ।।
अहं यास्यामि मथुरां वसुदेवालयं प्रिये ।।
पश्चात्कंसभय व्याजाद्गोकुलं तव सन्निधिम् ।। २६६ ।।
राधा प्रणम्य श्रीकृष्णं रक्तपंकजलोचना ।।
भृशं रुरोद पुरतः प्रेमविच्छेदकातरा ।। २६७ ।।
स्थायंस्थायं क्वचिद्यांती गत्वागत्वा पुनः पुनः ।।
पुनः पुनः समागत्य दर्शंदर्शं हरेर्मुखम् ।। २६८ ।।
पपौ चक्षुश्चकोराभ्यां निमेषरहिता सती ।।
शरत्पार्वणचंद्राभसुधापूर्णं प्रभोर्मुखम् ।। २६९ ।।
ततः प्रदक्षिणीकृत्य सप्तधा परमेश्वरी ।।
प्रणम्य सप्तधा चैव पुनस्तस्थौ हरेः पुरः ।। 4.6.२७० ।।
आजग्मुर्गोपिकानां च त्रिःसप्तशतकोटयः ।।
आजगाम च गोपानां समूहः कोटिसंख्यकः ।। २७१ ।।
गोपानां गोपिकानां च समूहैः सह राधिका ।।
पुनः प्रणम्य तं राधा तत्र तस्थौ च नारद ।। २७२ ।।
त्रयस्त्रिंशद्वयस्याभिर्गोपीभिः सह सुंदरी ।।
गोपानां च समूहैश्च प्रणम्य प्रययौ महीम् ।। २७३ ।।
हरिणा योजितं स्थानं प्रजग्मुर्नंदगोकुलम् ।।
वृषभानुगृहं राधा गोपीगोपगृहं ययौ ।। २७४ ।।
महीं गतायां राधायां गोपीभिः सह गोपकैः ।।
बभूव श्रीहरिः सद्यः पृथिवीं गमनोत्सुकः ।। २७५ ।।
संभाष्य गोपान्गोपीश्च नियोज्य स्वीयकर्मणि ।।
मनोयायी जगन्नाथो जगाम मथुरां हरिः ।। २७६ ।।
पूर्वं यद्यदपत्यं च देवकीवसुदेवयोः ।।
बभूव सद्यस्तत्कंसः पुत्रषट्कं जघान ह ।। २७७ ।।
शेषांशं सप्तमं गर्भं माययाऽऽकृष्य गोकुले ।।
निधाय रोहिणीगर्भे जगाम चाज्ञया हरेः ।।२७८।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारदसंवादे षष्ठोऽध्यायः ।। ६ ।।