"ऋग्वेदः सूक्तं ५.५४" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः ३१: | पङ्क्तिः ३१: | ||
यूयं रयिं मरुत स्पार्हवीरं यूयमृषिमवथ सामविप्रम् । |
यूयं रयिं मरुत स्पार्हवीरं यूयमृषिमवथ सामविप्रम् । |
||
यूयमर्वन्तं भरताय वाजं यूयं धत्थ राजानं श्रुष्टिमन्तम् ॥१४॥ |
यूयमर्वन्तं भरताय वाजं यूयं धत्थ राजानं श्रुष्टिमन्तम् ॥१४॥ |
||
तद्वो यामि द्रविणं |
तद्वो यामि द्रविणं सद्यऊतयो येना स्वर्ण ततनाम नॄँरभि । |
||
इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं हिमाः ॥१५॥ |
इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं हिमाः ॥१५॥ |
||
१३:२१, १६ एप्रिल् २००९ इत्यस्य संस्करणं
ऋग्वेदः सूक्तं ५.५४
प्र शर्धाय मारुताय स्वभानव इमां वाचमनजा पर्वतच्युते । घर्मस्तुभे दिव आ पृष्ठयज्वने द्युम्नश्रवसे महि नृम्णमर्चत ॥१॥ प्र वो मरुतस्तविषा उदन्यवो वयोवृधो अश्वयुजः परिज्रयः । सं विद्युता दधति वाशति त्रितः स्वरन्त्यापोऽवना परिज्रयः ॥२॥ विद्युन्महसो नरो अश्मदिद्यवो वातत्विषो मरुतः पर्वतच्युतः । अब्दया चिन्मुहुरा ह्रादुनीवृत स्तनयदमा रभसा उदोजसः ॥३॥ व्यक्तून्रुद्रा व्यहानि शिक्वसो व्यन्तरिक्षं वि रजांसि धूतयः । वि यदज्राँ अजथ नाव ईं यथा वि दुर्गाणि मरुतो नाह रिष्यथ ॥४॥ तद्वीर्यं वो मरुतो महित्वनं दीर्घं ततान सूर्यो न योजनम् । एता न यामे अगृभीतशोचिषोऽनश्वदां यन्न्ययातना गिरिम् ॥५॥ अभ्राजि शर्धो मरुतो यदर्णसं मोषथा वृक्षं कपनेव वेधसः । अध स्मा नो अरमतिं सजोषसश्चक्षुरिव यन्तमनु नेषथा सुगम् ॥६॥ न स जीयते मरुतो न हन्यते न स्रेधति न व्यथते न रिष्यति । नास्य राय उप दस्यन्ति नोतय ऋषिं वा यं राजानं वा सुषूदथ ॥७॥ नियुत्वन्तो ग्रामजितो यथा नरोऽर्यमणो न मरुतः कबन्धिनः । पिन्वन्त्युत्सं यदिनासो अस्वरन्व्युन्दन्ति पृथिवीं मध्वो अन्धसा ॥८॥ प्रवत्वतीयं पृथिवी मरुद्भ्यः प्रवत्वती द्यौर्भवति प्रयद्भ्यः । प्रवत्वतीः पथ्या अन्तरिक्ष्याः प्रवत्वन्तः पर्वता जीरदानवः ॥९॥ यन्मरुतः सभरसः स्वर्णरः सूर्य उदिते मदथा दिवो नरः । न वोऽश्वाः श्रथयन्ताह सिस्रतः सद्यो अस्याध्वनः पारमश्नुथ ॥१०॥ अंसेषु व ऋष्टयः पत्सु खादयो वक्षस्सु रुक्मा मरुतो रथे शुभः । अग्निभ्राजसो विद्युतो गभस्त्योः शिप्राः शीर्षसु वितता हिरण्ययीः ॥११॥ तं नाकमर्यो अगृभीतशोचिषं रुशत्पिप्पलं मरुतो वि धूनुथ । समच्यन्त वृजनातित्विषन्त यत्स्वरन्ति घोषं विततमृतायवः ॥१२॥ युष्मादत्तस्य मरुतो विचेतसो रायः स्याम रथ्यो वयस्वतः । न यो युच्छति तिष्यो यथा दिवोऽस्मे रारन्त मरुतः सहस्रिणम् ॥१३॥ यूयं रयिं मरुत स्पार्हवीरं यूयमृषिमवथ सामविप्रम् । यूयमर्वन्तं भरताय वाजं यूयं धत्थ राजानं श्रुष्टिमन्तम् ॥१४॥ तद्वो यामि द्रविणं सद्यऊतयो येना स्वर्ण ततनाम नॄँरभि । इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं हिमाः ॥१५॥