"ऋग्वेदः सूक्तं ४.१८" इत्यस्य संस्करणे भेदः
No edit summary |
(लघु) ८ अवतरण: rigveda and other pages |
(भेदः नास्ति)
|
०८:४६, २० मार्च् २०११ इत्यस्य संस्करणं
ऋग्वेदः सूक्तं ४.१८
अयं पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे । अतश्चिदा जनिषीष्ट प्रवृद्धो मा मातरममुया पत्तवे कः ॥१॥ नाहमतो निरया दुर्गहैतत्तिरश्चता पार्श्वान्निर्गमाणि । बहूनि मे अकृता कर्त्वानि युध्यै त्वेन सं त्वेन पृच्छै ॥२॥ परायतीं मातरमन्वचष्ट न नानु गान्यनु नू गमानि । त्वष्टुर्गृहे अपिबत्सोममिन्द्रः शतधन्यं चम्वोः सुतस्य ॥३॥ किं स ऋधक्कृणवद्यं सहस्रं मासो जभार शरदश्च पूर्वीः । नही न्वस्य प्रतिमानमस्त्यन्तर्जातेषूत ये जनित्वाः ॥४॥ अवद्यमिव मन्यमाना गुहाकरिन्द्रं माता वीर्येणा न्यृष्टम् । अथोदस्थात्स्वयमत्कं वसान आ रोदसी अपृणाज्जायमानः ॥५॥ एता अर्षन्त्यललाभवन्तीरृतावरीरिव संक्रोशमानाः । एता वि पृच्छ किमिदं भनन्ति कमापो अद्रिं परिधिं रुजन्ति ॥६॥ किमु ष्विदस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः । ममैतान्पुत्रो महता वधेन वृत्रं जघन्वाँ असृजद्वि सिन्धून् ॥७॥ ममच्चन त्वा युवतिः परास ममच्चन त्वा कुषवा जगार । ममच्चिदापः शिशवे ममृड्युर्ममच्चिदिन्द्रः सहसोदतिष्ठत् ॥८॥ ममच्चन ते मघवन्व्यंसो निविविध्वाँ अप हनू जघान । अधा निविद्ध उत्तरो बभूवाञ्छिरो दासस्य सं पिणग्वधेन ॥९॥ गृष्टिः ससूव स्थविरं तवागामनाधृष्यं वृषभं तुम्रमिन्द्रम् । अरीळ्हं वत्सं चरथाय माता स्वयं गातुं तन्व इच्छमानम् ॥१०॥ उत माता महिषमन्ववेनदमी त्वा जहति पुत्र देवाः । अथाब्रवीद्वृत्रमिन्द्रो हनिष्यन्सखे विष्णो वितरं वि क्रमस्व ॥११॥ कस्ते मातरं विधवामचक्रच्छयुं कस्त्वामजिघांसच्चरन्तम् । कस्ते देवो अधि मार्डीक आसीद्यत्प्राक्षिणाः पितरं पादगृह्य ॥१२॥ अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम् । अपश्यं जायाममहीयमानामधा मे श्येनो मध्वा जभार ॥१३॥ *[[ऋग्वेद:]]