"ऋग्वेदः सूक्तं ४.१०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(लघु) ७ अवतरण: rigveda and other pages
(भेदः नास्ति)

०८:४६, २० मार्च् २०११ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.१०


अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् ।
ऋध्यामा त ओहैः ॥१॥
अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः ।
रथीरृतस्य बृहतो बभूथ ॥२॥
एभिर्नो अर्कैर्भवा नो अर्वाङ्स्वर्ण ज्योतिः ।
अग्ने विश्वेभिः सुमना अनीकैः ॥३॥
आभिष्टे अद्य गीर्भिर्गृणन्तोऽग्ने दाशेम ।
प्र ते दिवो न स्तनयन्ति शुष्माः ॥४॥
तव स्वादिष्ठाग्ने संदृष्टिरिदा चिदह्न इदा चिदक्तोः ।
श्रिये रुक्मो न रोचत उपाके ॥५॥
घृतं न पूतं तनूररेपाः शुचि हिरण्यम् ।
तत्ते रुक्मो न रोचत स्वधावः ॥६॥
कृतं चिद्धि ष्मा सनेमि द्वेषोऽग्न इनोषि मर्तात् ।
इत्था यजमानादृतावः ॥७॥
शिवा नः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे ।
सा नो नाभिः सदने सस्मिन्नूधन् ॥८॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१०&oldid=6513" इत्यस्माद् प्रतिप्राप्तम्