"ऋग्वेदः सूक्तं ४.९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(लघु) ७ अवतरण: rigveda and other pages
(भेदः नास्ति)

०८:४६, २० मार्च् २०११ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.९


अग्ने मृळ महाँ असि य ईमा देवयुं जनम् ।
इयेथ बर्हिरासदम् ॥१॥
स मानुषीषु दूळभो विक्षु प्रावीरमर्त्यः ।
दूतो विश्वेषां भुवत् ॥२॥
स सद्म परि णीयते होता मन्द्रो दिविष्टिषु ।
उत पोता नि षीदति ॥३॥
उत ग्ना अग्निरध्वर उतो गृहपतिर्दमे ।
उत ब्रह्मा नि षीदति ॥४॥
वेषि ह्यध्वरीयतामुपवक्ता जनानाम् ।
हव्या च मानुषाणाम् ॥५॥
वेषीद्वस्य दूत्यं यस्य जुजोषो अध्वरम् ।
हव्यं मर्तस्य वोळ्हवे ॥६॥
अस्माकं जोष्यध्वरमस्माकं यज्ञमङ्गिरः ।
अस्माकं शृणुधी हवम् ॥७॥
परि ते दूळभो रथोऽस्माँ अश्नोतु विश्वतः ।
येन रक्षसि दाशुषः ॥८॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.९&oldid=6505" इत्यस्माद् प्रतिप्राप्तम्