"ऋग्वेदः सूक्तं ३.११" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः ११: पङ्क्तिः ११:
अग्निं सूनुं सनश्रुतं सहसो जातवेदसम् ।
अग्निं सूनुं सनश्रुतं सहसो जातवेदसम् ।
वह्निं देवा अकृण्वत ॥४॥
वह्निं देवा अकृण्वत ॥४॥
अदाभ्यः पुरता विशामग्निर्मानुषीणाम् ।
अदाभ्यः पुरएता विशामग्निर्मानुषीणाम् ।
तूर्णी रथः सदा नवः ॥५॥
तूर्णी रथः सदा नवः ॥५॥
साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः ।
साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः ।

१३:०३, १६ एप्रिल् २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ३.११


अग्निर्होता पुरोहितोऽध्वरस्य विचर्षणिः ।
स वेद यज्ञमानुषक् ॥१॥
स हव्यवाळमर्त्य उशिग्दूतश्चनोहितः ।
अग्निर्धिया समृण्वति ॥२॥
अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः ।
अर्थं ह्यस्य तरणि ॥३॥
अग्निं सूनुं सनश्रुतं सहसो जातवेदसम् ।
वह्निं देवा अकृण्वत ॥४॥
अदाभ्यः पुरएता विशामग्निर्मानुषीणाम् ।
तूर्णी रथः सदा नवः ॥५॥
साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः ।
अग्निस्तुविश्रवस्तमः ॥६॥
अभि प्रयांसि वाहसा दाश्वाँ अश्नोति मर्त्यः ।
क्षयं पावकशोचिषः ॥७॥
परि विश्वानि सुधिताग्नेरश्याम मन्मभिः ।
विप्रासो जातवेदसः ॥८॥
अग्ने विश्वानि वार्या वाजेषु सनिषामहे ।
त्वे देवास एरिरे ॥९॥




*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.११&oldid=6010" इत्यस्माद् प्रतिप्राप्तम्