"बृहत्पाराशरहोराशास्त्रम्/अध्यायः ८७ (कृष्णचतुर्दशीजन्म शान्त्यध्यायः)" इत्यस्य संस्करणे भेदः
(लघु) Sandhyayajur इत्यनेन शीर्षकं परिवर्त्य बृहत्पाराशरहोराशास्त्रम्/बृहत्पाराशरहोराशास्त्र ८७ पृष्ठ... |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
{{header |
{{header |
||
| title = [[ |
| title = [[ज्योतिषम्]] |
||
| author = |
| author = '' |
||
| translator = |
| translator = |
||
| section = [[बृहत्पाराशरहोराशास्त्रम्]] |
|||
| section = अथ कृष्णचतुर्दशीजन्म शान्त्यध्यायः॥८७॥ |
|||
| previous = [[अध्यायः ८६ (दर्शजन्मशान्त्यध्यायः)|अध्यायः ८६]] |
|||
| previous = [[../बृहत्पाराशरहोराशास्त्र ८६|बृहत्पाराशरहोराशास्त्र ८६]] |
|||
| next = [[अध्यायः ८८ (भर्दावमदुर्योगशान्त्यध्यायः)|अध्यायः ८८]] |
|||
| next = [[../बृहत्पाराशरहोराशास्त्र ८८|बृहत्पाराशरहोराशास्त्र ८८]] |
|||
| notes = |
| notes = |
||
}} |
}} |
०७:५२, ३ मार्च् २०१६ इत्यस्य संस्करणं
← अध्यायः ८६ | ज्योतिषम् बृहत्पाराशरहोराशास्त्रम् |
अध्यायः ८८ → |
अथ कृष्णचतुर्दशीजन्म शान्त्यध्यायः ॥ ८७॥
कृष्णपक्षचतुर्दश्याः षड्भागेषु फलं क्रमात् ।
जन्म चेत् प्रथमे भागे तदा ज्ञेयं शुभं द्विज ॥ १॥
द्वितीये पितरं हन्ति मातरं च तृतीयके ।
चतुर्थे मातुलं चैव पञ्चमे वंशनाशनम् ॥ २॥
षष्ठे तु धननाशः स्यादात्मनो नाश एव वा ।
तद्दोषपरिहारार्थं शान्तिं कुर्याद् प्रयत्नतः ॥ ३॥
शिवस्य प्रतिमां कुर्यात् सौवर्णीं कर्षसम्मिताम् ।
तदर्धार्धमितां वाऽपि यथावित्तं मनोहराम् ॥ ४॥
बालचन्द्रकिरीटाञ्च श्वेतमाल्याम्बरान्विताम् ।
त्रिनेत्रां च वृषासीनां वराभयकरामथ ॥ ५॥
त्रयम्बकं चेति मन्त्रेण पूजां कुर्यादतन्द्रितः ।
आवाह्य वारुणैर्मन्त्रैराचार्यो मन्त्रतत्त्ववित् ॥ ६॥
इमं मे वरुणे त्येवं तत्त्वा यामी त्यृचा पुनः ।
त्त्वन्न अग्ने इत्यनया सत्वं नो इत्यृचापि च ॥ ७॥
आग्नेयं कुम्भमारभ्य पूजयेद् भक्तितः क्रमात् ।
आ नोभद्रेति सूक्तं च भद्रा अग्नेश्च सूक्तकम् ॥ ८॥
जप्त्वा पुरुषसूक्तं च कन्द्रुद्रेति तथा जपेत् ।
शङ्करस्याऽभिषेकं च ग्रहपूजां च कारयेत् ॥ ९॥
समिदाज्यचरूंश्चैव तिलमाषांश्च सर्पपान् ।
अश्वस्थल्पक्षपालासखादिराः समिधः शुभाः ॥ १०॥
अष्टोत्तरशतं वह्नौ जुहुयाद् विधिपूर्वकम् ।
अष्टविंशतिसंख्या वा होमं कुर्यात् पृथक् पृथक् ॥ ११॥
मन्त्रेण त्र्यम्बकेनाथ तिलान् व्याहृतिभिस्तथा ।
ग्रहहोमं च विधिवत् कुर्याद् क्षेमं ततो भवेत् ॥ १२॥
अभिषेकं च जातस्य तत्पित्रोश्चापि मन्त्रवित् ।
कुर्यात् ततो यथाशक्ति ब्राह्मणान् भोजयेत् सुधीः ॥ १३॥