"प्रबोधसुधाकरः/प्रबोधप्रकरणम्" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
{{प्रबोधसुधाकरः}} <poem> माधुर्यं गुडपिण्डे यत्तत्त... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) Udit Sharma इत्यनेन शीर्षकं परिवर्त्य प्रबोधप्रकरणम् पृष्ठं प्रबोधसुधाकरः/प्रबोधप्रकरणम् प्रति...
 
(भेदः नास्ति)

१२:२८, २२ जनवरी २०१६ समयस्य संस्करणम्

  1. देहनिन्दाप्रकरणम्
  2. विषयनिन्दाप्रकरणम्
  3. मनोनिन्दाप्रकरणम्
  4. विषयनिग्रहप्रकरणम्
  5. मनोनिग्रहप्रकरणम्
  6. वैराग्यप्रकरणम्
  7. आत्मसिद्धिप्रकरणम्
  8. मायासिद्धिप्रकरणम्
  9. लिङ्गदेहादिनिरूपणप्रकरणम्
  10. अद्वैतप्रकरणम्
  11. कर्तृत्वभोक्तृत्वप्रकरणम्
  12. स्वप्रकाशताप्रकरणम्
  13. नादानुसन्धानप्रकरणम्
  14. मनोलयप्रकरणम्
  15. प्रबोधप्रकरणम्
  16. द्विधाभक्तिप्रकरणम्
  17. ध्यानविधिप्रकरणम्
  18. सगुणनिर्गुणयोरैक्यप्रकरणम्
  19. आनुग्रहिकप्रकरणम्

माधुर्यं गुडपिण्डे यत्तत्तस्यांशकेऽणुमात्रेऽपि ।
एवं न पृथग्भावो गुडत्वमधुरत्वयोरस्ति ॥ १५८॥

अथवा न भिन्नभावः कर्पूरामोदयोरेवम् ।
आत्मस्वरूपमनसां पुंसां जगदात्मतां याति ॥ १५९॥

यद्भावानुभवः स्यान्निद्रादौ जागरस्यान्ते ।
अन्तः स चेत्स्थिरः स्याल्लभते हि तदाद्वयानन्दम् ॥ १६०॥

अतिगम्भीरेऽपारे ज्ञानचिदानन्दसागरे स्फारे ।
कर्मसमीरणतरला जीवतरङ्गावलिः स्फुरति ॥ १६१॥

खरतरकरैः प्रदीप्तेऽभ्युदिते चैतन्यतिग्मांशौ ।
स्फुरति मृषैव समन्तादनेकविधजीवमृगतृष्णा ॥ १६२॥

अन्तरदृष्टे यस्मिञ्जगदिदमारात्परिस्फुरति ।
दृष्टे यस्मिन्सकृदपि विलीयते क्वाप्यसद्रूपम् ॥ १६३॥

बाह्याभ्यन्तरपूर्णः परमानन्दार्णवे निमग्नो यः ।
चिरमाप्लुत इव कलशो महाह्रदे जह्नुतनयायाः । १६४॥

पूर्णात्पूर्णतरे परात्परतरेऽप्यज्ञातपारे हरौ
   संवित्स्फारसुधार्णवे विरहिते वीचीतरङ्गादिभिः ।
भास्वत्कोटिविकासितोज्ज्वलदिगाकाशप्रकाशे परे
   स्वानन्दैकरसे निमग्नमनसां न त्वं न चाहं जगत् ॥ १६५॥