"प्रबोधसुधाकरः/नादानुसन्धानप्रकरणम्" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
{{प्रबोधसुधाकरः}} <poem> यावत्क्षणं क्षणार्धं स्वरू... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) Udit Sharma इत्यनेन शीर्षकं परिवर्त्य नादानुसन्धानप्रकरणम् पृष्ठं [[प्रबोधसुधाकरः/नादानुसन्धानप्...
 
(भेदः नास्ति)

१२:२७, २२ जनवरी २०१६ समयस्य संस्करणम्

  1. देहनिन्दाप्रकरणम्
  2. विषयनिन्दाप्रकरणम्
  3. मनोनिन्दाप्रकरणम्
  4. विषयनिग्रहप्रकरणम्
  5. मनोनिग्रहप्रकरणम्
  6. वैराग्यप्रकरणम्
  7. आत्मसिद्धिप्रकरणम्
  8. मायासिद्धिप्रकरणम्
  9. लिङ्गदेहादिनिरूपणप्रकरणम्
  10. अद्वैतप्रकरणम्
  11. कर्तृत्वभोक्तृत्वप्रकरणम्
  12. स्वप्रकाशताप्रकरणम्
  13. नादानुसन्धानप्रकरणम्
  14. मनोलयप्रकरणम्
  15. प्रबोधप्रकरणम्
  16. द्विधाभक्तिप्रकरणम्
  17. ध्यानविधिप्रकरणम्
  18. सगुणनिर्गुणयोरैक्यप्रकरणम्
  19. आनुग्रहिकप्रकरणम्

यावत्क्षणं क्षणार्धं स्वरूपपरिचिन्तनं क्रियते ।
तावद्दक्षिणकर्णे त्वनाहतः श्रूयते शब्दः ॥ १४४॥

सिद्ध्यारम्भस्थिरताविश्रमविश्वासबीजशुद्धीनाम् ।
उपलक्षणं हि मनसः परमं नादानुसन्धनम् ॥ १४५॥

भेरीमृदङ्गशङ्खाद्याहतनादे मनः क्षणं रमते ।
किं पुनरनाहतेऽस्मिन्मधुमधुरेऽखण्डिते स्वच्छे ॥ १४६॥

चित्तं विषयोपरमाद्यथा यथा याति नैश्चल्यम् ।
वेणोरिव दीर्घतरस्तथा तथा श्रूयते नादः ॥ १४७॥

नादाभ्यन्तर्वर्ति ज्योतिर्यद्वर्तते हि चिरम् ।
तत्र मनो लीनं चेन्न पुनः संसारबन्धाय ॥ १४८॥

परमानन्दानुभवात्सुचिरं नादानुसन्धानात् ।
श्रेष्ठश्चित्तलयोऽयं सत्स्वन्यलयेष्वनेकेषु ॥ १४९॥