"ऋग्वेदः सूक्तं १.१२८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
(भेदः नास्ति)

१६:३७, २३ जुलै २००५ इत्यस्य संस्करणं

अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनुव्रतमग्निः सवमनु वरतम | विश्वश्रुष्टिः सखीयते रयिरिव शरवस्यते | अदब्धो होता नि षददिळस पदे परिवीत इळस पदे || तं यज्ञसाधमपि वातयामस्य रतस्य पथा नमसा हविष्मता देवताता हविष्मता | स न ऊर्जामुपाभ्र्त्यया कर्पा न जूर्यति | यं मातरिश्वा मनवे परावतो देवं भाः परावतः || एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वर्षभः कनिक्रदद दधद रेतह कनिक्रदत | शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः | सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु || स सुक्रतुः पुरोहितो दमे दमे.अग्निर्यज्ञस्याध्वरस्य चेतति करत्वा यज्ञस्य चेतति | करत्वा वेधा इषूयते विश्वा जातानि पस्पशे | यतो घर्तश्रीरतिथिरजायत वह्निर्वेधा अजायत || करत्वा यदस्य तविषीषु पर्ञ्चते.अग्नेरवेण मरुतां न भोज्येषिराय न भोज्या | स हि षमा दानमिन्वति वसूनां च मज्मना | स नस्त्रासते दुरितादभिह्रुतः शंसादघादभिह्रुतः || विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्नशिश्रथच्छ्रवस्यया न शिश्रथत | विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे | विश्वस्मा इत सुक्र्ते वारं रण्वत्यग्निर्द्वारा वय रण्वति || स मानुषे वर्जने शन्तमो हितो.अग्निर्यज्ञेषु जेन्यो न विश्पतिः परियो यज्ञेषु विश्पतिः | स हव्या मानुषाणामिळा कर्तानि पत्यते | स नस्त्रासते वरुणस्य धूर्तेर्महोदेवस्य धूर्तेः || अग्निं होतारमीळते वसुधितिं परियं चेतिष्ठमरतिं नयेरिरे हव्यवाहं नयेरिरे | विश्वायुं विश्ववेदसं होतारं यजतं कविम | देवासो रण्वमवसे वसूयवो गीर्भीरण्वं वसूयवः ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१२८&oldid=5029" इत्यस्माद् प्रतिप्राप्तम्