"रामायणम्/युद्धकाण्डम्/सर्गः ३२" इत्यस्य संस्करणे भेदः
< रामायणम् | युद्धकाण्डम्
Content deleted Content added
→बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:काव्यम् using AWB |
→बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:Hinduism using AWB |
||
पङ्क्तिः १५१: | पङ्क्तिः १५१: | ||
==बाहरी कडियाँ== |
==बाहरी कडियाँ== |
||
[[वर्गः:Hinduism]] |
|||
[[वर्गः:रामायणम्/युद्धकाण्डम्]] |
[[वर्गः:रामायणम्/युद्धकाण्डम्]] |
०५:४८, २० जनवरी २०१६ इत्यस्य संस्करणं
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्वात्रिंशः सर्गः ॥६-३२॥
सा सीता तच्चिरो दृष्ट्वा तच् च कार्मुकम् उत्तमम् | | सुग्रीव प्रतिसंसर्गम् आख्यातम् च हनूमता || ६-३२-१ नयने मुख वर्णम् च भर्तुस् तत् सदृशम् मुखम् | केशान् केश अन्त देशम् च तम् च चूडा मणिम् शुभम् || ६-३२-२ एतैह् सर्वैर् अभिज्नानैर् अभिज्नाय सुदुह्खिता | विजगर्हे अथ कैकेयीम् क्रोशन्ती कुररी यथा || ६-३२-३ सकामा भव कैकेयि हतो अयम् कुल नन्दनः | कुलम् उत्सादितम् सर्वम् त्वया कलह शीलया || ६-३२-४ आर्येण किम् नु कैकेय्याः कृतम् रामेण विप्रियम् | यन्मया चीर वसनस् तया प्रस्थापितो वनम् || ६-३२-५ एवम् उक्त्वा तु वैदेही वेपमाना तपस्विनी | जगाम जगतीम् बाला चिन्ना तु कदली यथा || ६-३२-६ सा मुहूर्तात् समाश्वस्य प्रतिलभ्य च चेतनाम् | तत् शिरह् समुपाघ्राय विललाप आयत ईक्षणा || ६-३२-७ हा हता अस्मि महा बाहो वीर व्रतम् अनुव्रता | इमाम् ते पश्चिम अवस्थाम् गता अस्मि विधवा कृता || ६-३२-८ प्रथमम् मरणम् नार्या भर्तुर् वैगुण्यम् उच्यते | सुवृत्तः साधु वृत्तायाः सम्वृत्तस् त्वम् मम अग्रतः || ६-३२-९ दुह्खाद् दुह्कःअम् प्रपन्नाया मग्नायाः शोक सागरे | यो हि माम् उद्यतस् त्रातुम् सो अपि त्वम् विनिपातितः || ६-३२-१० सा श्वश्रूर् मम कौसल्या त्वया पुत्रेण राघव | वत्सेन इव यथा धेनुर् विवत्सा वत्सला कृता || ६-३२-११ उदिष्टम् दीर्घम् आयुस् ते यैर् अचिन्त्य पराक्रम | अनृतम् वचनम् तेषाम् अल्प आयुर् असि राघव || ६-३२-१२ अथ वा नश्यति प्रज्ना प्राज्नस्य अपि सतस् तव | पचत्य् एनम् तथा कालो भूतानाम् प्रभवो ह्ययम् || ६-३२-१३ अदृष्टम् मृत्युम् आपन्नः कस्मात् त्वम् नय शास्त्रवित् | व्यसनानाम् उपायज्नः कुशलो ह्यसि वर्जने || ६-३२-१४ तथा त्वम् सम्परिष्वज्य रौद्रया अतिनृशंसया | काल रात्र्या मया आच्चिद्य हृतः कमल लोचन || ६-३२-१५ उपशेषे महा बाहो माम् विहाय तपस्विनीम् | प्रियाम् इव शुभाम् नारीम् पृथिवीम् पुरुष ऋषभ || ६-३२-१६ अर्चितम् सततम् यत्नाद् गन्ध माल्यैर् मया तव | इदम् ते मत् प्रियम् वीर धनुः कान्चन भूषितम् || ६-३२-१७ पित्रा दशरथेन त्वम् श्वशुरेण मम अनघ | पूर्वैसः च पितृभिः सार्धम् नूनम् स्वर्गे समागतः || ६-३२-१८ दिवि नक्षत्र भूतस् त्वम् महत् कर्म कृतम् प्रियम् | पुण्यम् राज ऋषि वंशम् त्वम् आत्मनः समुपेक्षसे || ६-३२-१९ किम् मान् न प्रेक्षसे राजन् किम् माम् न प्रतिभाषसे | बालाम् बालेन सम्प्राप्ताम् भार्याम् माम् सह चारिणीम् || ६-३२-२० संश्रुतम् गृह्णता पाणिम् चरिष्यामि इति यत् त्वया | स्मर तन् मम काकुत्स्थ नय माम् अपि दुह्खिताम् || ६-३२-२१ कस्मान् माम् अपहाय त्वम् गतो गतिमताम् वर | अस्माल् लोकाद् अमुम् लोकम् त्यक्त्वा माम् इह दुह्खिताम् || ६-३२-२२ कल्याणैर् उचितम् यत् तत् परिष्वक्तम् मया एव तु | क्रव्य अदैस् तत् शरीरम् ते नूनम् विपरिकृष्यते || ६-३२-२३ अग्निष्तोम आदिभिर् यज्नैर् इष्टवान् आप्त दक्षिणैः | अग्नि होत्रेण संस्कारम् केन त्वम् तु न लप्स्यसे || ६-३२-२४ प्रव्रज्याम् उपपन्नानाम् त्रयाणाम् एकम् आगतम् | परिप्रक्ष्यति कौसल्या लक्ष्मणम् शोक लालसा || ६-३२-२५ स तस्याः परिपृच्चन्त्या वधम् मित्र बलस्य ते | तव च आख्यास्यते नूनम् निशायाम् राक्षसैर् वधम् || ६-३२-२६ सा त्वाम् सुप्तम् हतम् श्रुत्वा माम् च रक्षो गृहम् गताम् | हृदयेन विदीर्णेन न भविष्यति राघव || ६-३२-२७ मम हेतोरनार्याया अवघः पार्थिवात्मजः | रामः सागमुत्तीर्य वीर्यवान् गोष्पदे हतः || ६-३२-२८ अहम् दाशरथेनोढा मोहात्स्वकुपांसनी | आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत || ६-३२-२९ मानमाव्याम् मया जातिम् वारितम् दानमुत्तमम् | याहमद्येह शोचामि भार्या सर्वातिथेरपि || ६-३२-३० साधु पातय माम् क्षिप्रम् रामस्य उपरि रावणः | समानय पतिम् पत्न्या कुरु कल्याणम् उत्तमम् || ६-३२-३१ शिरसा मे शिरसः च अस्य कायम् कायेन योजय | रावण अनुगमिष्यामि गतिम् भर्तुर् महात्मनः || ६-३२-३२ इति सा दुह्ख सम्तप्ता विललाप आयत ईक्षणा | भर्तुः शिरो धनुस् तत्र समीक्ष्य जनक आत्मजा || ६-३२-३३ एवम् लालप्यमानायाम् सीतायाम् तत्र राक्षसः | अभिचक्राम भर्तारम् अनीकस्थः क्ऱ्त अन्जलिः || ६-३२-३४ विजयस्व आर्य पुत्र इति सो अभिवाद्य प्रसाद्य च | न्यवेदयद् अनुप्राप्तम् प्रहस्तम् वाहिनी पतिम् || ६-३२-३५ अमात्यैः स हितः सर्वैः प्रहस्तस्त्वामुपस्थितः | तेन दर्शनकामेन अहम् प्रस्थापितः प्रभो || ६-३२-३६ मानमस्ति महारा ज राजभावात् क्षमान्वित | किंचिद् आत्ययिकम् कार्यम् तेषाम् त्वम् दर्शनम् कुरु || ६-३२-३७ एतत् श्रुत्वा दशग्रीवो राक्षस प्रतिवेदितम् | अशोक वनिकाम् त्यक्त्वा मन्त्रिणाम् दर्शनम् ययौ || ६-३२-३८ स तु सर्वम् समर्थ्य एव मन्त्रिभिः क्ऱ्त्यम् आत्मनः | सभाम् प्रविश्य विदधे विदित्वा राम विक्रमम् || ६-३२-३९ अन्तर्धानम् तु तत् शीर्षम् तच् च कार्मुकम् उत्तमम् | जगाम रावणस्य एव निर्याण समनन्तरम् || ६-३२-४० राक्षस इन्द्रस् तु तैः सार्धम् मन्त्रिभिर् भीम विक्रमैः | समर्थयाम् आस तदा राम कार्य विनिश्चयम् || ६-३२-४१ अविदूर स्थितान् सर्वान् बल अध्यक्षान् हित एषिणः | अब्रवीत् काल सद्ऱ्शो रावणो राक्षस अधिपः || ६-३२-४२ शीघ्रम् भेरी निनादेन स्फुट कोण आहतेन मे | समानयध्वम् सैन्यानि वक्तव्यम् च न कारणम् || ६-३२-४३ ततस् तथा इति प्रतिगृह्य तद् वचो | स्तदैव दूताः सहसा महाद्बलम् | समानयंसः चैव समागतम् च ते | न्यवेदयन् भर्तरि युद्ध कान्क्षिणि || ६-३२-४४
इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे द्वात्रिंशः सर्गः ॥६-३२॥