"रामायणम्/युद्धकाण्डम्/सर्गः ३०" इत्यस्य संस्करणे भेदः
< रामायणम् | युद्धकाण्डम्
Content deleted Content added
→बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:काव्यम् using AWB |
→बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:Hinduism using AWB |
||
पङ्क्तिः १२४: | पङ्क्तिः १२४: | ||
==बाहरी कडियाँ== |
==बाहरी कडियाँ== |
||
[[वर्गः:Hinduism]] |
|||
[[वर्गः:रामायणम्/युद्धकाण्डम्]] |
[[वर्गः:रामायणम्/युद्धकाण्डम्]] |
०५:४८, २० जनवरी २०१६ इत्यस्य संस्करणं
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रिंशः सर्गः ॥६-३०॥
ततस्तमक्षोभ्य बलम् लंका अधिपतये चराः । सुवेले राघवम् शैले निविष्टम् प्रत्यवेदयन् ॥६-३०-१॥ चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् महाबलम् । जात उद्वेगो अभवत् किम्चित् शार्दूलम् वाक्यम् अब्रवीत् ॥६-३०-२॥ अयथावच् च ते वर्णो दीनः च असि निशा चर । न असि कच्चिद् अमित्राणाम् क्रुद्धानाम् वशम् आगतः ॥६-३०-३॥ इति तेन अनुशिष्टस् तु वाचम् मन्दम् उदीरयत् । तदा राक्षस शार्दूलम् शार्दूलो भय विह्वलः ॥६-३०-४॥ न ते चारयितुम् शक्या राजन् वानर पुम्गवाः । विक्रान्ता बलवन्तः च राघवेण च रक्षिताः ॥६-३०-५॥ न अपि सम्भाषितुम् शक्याः सम्प्रश्नो अत्र न लभ्यते । सर्वतो रक्ष्यते पन्था वानरैः पर्वत उपमैः ॥६-३०-६॥ प्रविष्ट मात्रे ज्ञातो अहम् बले तस्मिन्न् अचारिते । बलाद् गृहीतो बहुभिर् बहुधा अस्मि विदारितः ॥६-३०-७॥ जानुभिर् मुष्टिभिर् दन्तैस् तलैः च अभिहतो भृशम् । परिणीतो अस्मि हरिभिर् बलवद्भिर् अमर्षणैः ॥६-३०-८॥ परिणीय च सर्वत्र नीतो अहम् राम सम्सदम् । रुधिर आदिग्ध सर्व अन्गो विह्वलः चलित इन्द्रियः ॥६-३०-९॥ हरिभिर् वध्यमानः च याचमानः कृत अन्जलिः । राघवेण परित्रातो जीवामि ह यदृच्चया ॥६-३०-१०॥ एष शैलैः शिलाभिः च पूरयित्वा महाअर्णवम् । द्वारम् आश्रित्य लंकाया रामस् तिष्ठति सायुधः ॥६-३०-११॥ गरुड व्यूहम् आस्थाय सर्वतो हरिभिर् वृतः । माम् विसृज्य महातेजा लंकाम् एव अभिवर्तते ॥६-३०-१२॥ पुरा प्राकारम् आयाति क्षिप्रम् एकतरम् कुरु । सीताम् च अस्मै प्रयच्च आशु सुयुद्धम् वा प्रदीयताम् ॥६-३०-१३॥ मनसा सम्तताप अथ तत् श्रुत्वा राक्षस अधिपः । शार्दूलस्य महद् वाक्यम् अथ उवाच स रावणः ॥६-३०-१४॥ यदि माम् प्रतियुध्येरन् देव गन्धर्व दानवाः । न एव सीताम् प्रदास्यामि सर्व लोक भयाद् अपि ॥६-३०-१५॥ एवम् उक्त्वा महातेजा रावणः पुनर् अब्रवीत् । चारिता भवता सेना के अत्र शूराः प्लवम् गमाः ॥६-३०-१६॥ कीदृशाः किम् प्रभावाः च वानरा ये दुरासदाः । कस्य पुत्राः च पौत्राः च तत्त्वम् आख्याहि राक्षस ॥६-३०-१७॥ तथात्र प्रतिपत्स्यामि ज्ञात्वा तेषाम् बल अबलम् । अवश्यम् बल सम्ख्यानम् कर्तव्यम् युद्धम् इच्चता ॥६-३०-१८॥ अथ एवम् उक्तः शार्दूलो रावणेन उत्तमः चरः । इदम् वचनम् आरेभे वक्तुम् रावण सम्निधौ ॥६-३०-१९॥ अथ ऋक्ष रजसः पुत्रो युधि राजन् सुदुर्जयः । गद्गदस्य अथ पुत्रो अत्र जाम्बवान् इति विश्रुतः ॥६-३०-२०॥ गद्गदस्य एव पुत्रो अन्यो गुरु पुत्रः शत क्रतोः । कदनम् यस्य पुत्रेण कृतम् एकेन रक्षसाम् ॥६-३०-२१॥ सुषेणः च अपि धर्म आत्मा पुत्रो धर्मस्य वीर्यवान् । सौम्यः सोम आत्मजः च अत्र राजन् दधि मुखः कपिः ॥६-३०-२२॥ सुमुखो दुर्मुखः च अत्र वेग दर्शी च वानरः । मृत्युर् वानर रूपेण नूनम् सृष्टः स्वयम्भुवा ॥६-३०-२३॥ पुत्रो हुत वहस्य अथ नीलः सेना पतिः स्वयम् । अनिलस्य च पुत्रो अत्र हनूमान् इति विश्रुतः ॥६-३०-२४॥ नप्ता शक्रस्य दुर्धर्षो बलवान् अन्गदो युवा । मैन्दः च द्विविदः च उभौ बलिनाव् अश्वि सम्भवौ ॥६-३०-२५॥ पुत्रा वैवस्वतस्य अत्र पन्च काल अन्तक उपमाः । गजो गव अक्षो गवयः शरभो गन्ध मादनः ॥६-३०-२६॥ दश वानरकोट्यश्च शूराणाम् युद्धकाङ्ग्क्षिणाम् । श्रीमताम् देवपुत्राणाम् शेषम् नाख्यातुमुत्सहे ॥६-३०-२७॥ पुत्रो दशरथस्येष सिम्हसम्हननो युवा । दूषणो निहतो येन खरश्च त्रिशिरास्तथा ॥६-३०-२८॥ नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन । विराधो निहतो येन कबन्धश्चान्तकोपमः ॥६-३०-२९॥ वक्तुम् न शक्तो रामस्य गुणान् कश्चिन्नरः क्षितौ । जनस्थानगता येन तावन्तो राक्षसा हताः ॥६-३०-३०॥ लक्ष्मणश्चात्र धर्मात्मा मातङ्गवामिवर्षभः । यस्य बाणपथम् प्राप्य व जीवेदपि वासवः ॥६-३०-३१॥ श्वेतो ज्योतिर् मुखः च अत्र भास्करस्य आत्म सम्भवौ । वरुणस्य च पुत्रो अथ हेम कूटः प्लवम् गमः ॥६-३०-३२॥ विश्व कर्म सुतो वीरो नलः प्लवग सत्तमः । विक्रान्तो वेगवान् अत्र वसु पुत्रः सुदुर्धरः ॥६-३०-३३॥ राक्षसानाम् वरिष्ठः च तव भ्राता विभीषणः । परिगृह्य पुरीम् लंकाम् राघवस्य हिते रतः॥६-३०-३४॥ इति सर्वम् समाख्यातम् तव इदम् वानरम् बलम् । सुवेले अधिष्ठितम् शैले शेष कार्ये भवान् गतिः ॥६-३०-३५॥
इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे त्रिंशः सर्गः ॥६-३०॥