"रामायणम्/युद्धकाण्डम्/सर्गः २६" इत्यस्य संस्करणे भेदः
< रामायणम् | युद्धकाण्डम्
Content deleted Content added
→बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:काव्यम् using AWB |
→बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:Hinduism using AWB |
||
पङ्क्तिः १६४: | पङ्क्तिः १६४: | ||
==बाहरी कडियाँ== |
==बाहरी कडियाँ== |
||
[[वर्गः:Hinduism]] |
|||
[[वर्गः:रामायणम्/युद्धकाण्डम्]] |
[[वर्गः:रामायणम्/युद्धकाण्डम्]] |
०५:४७, २० जनवरी २०१६ इत्यस्य संस्करणं
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षड्विंशः सर्गः ॥६-२६॥
तद् वचः पथ्यम् अक्लीबम् सारणेन अभिभाषितम् । निशम्य रावणो राजा प्रत्यभाषत सारणम् ॥६-२६-१॥ यदि माम् अभियुन्जीरन् देव गन्धर्व दानवाः । न एव सीताम् प्रदास्यामि सर्व लोक भयाद् अपि ॥६-२६-२॥ त्वम् तु सौम्य परित्रस्तो हरिभिर् निर्जितो भृशम् । प्रतिप्रदानम् अद्य एव सीतायाः साधु मन्यसे ॥६-२६-३॥ को हि नाम सपत्नो माम् समरे जेतुम् अर्हति । इति उक्त्वा परुषम् वाक्यम् रावणो राक्षस अधिपः ॥६-२६-४॥ आरुरोह ततः श्रीमान् प्रासादम् हिम पाण्डुरम् । बहु ताल समुत्सेधम् रावणो अथ दिदृक्षया ॥६-२६-५॥ ताभ्याम् चराभ्याम् सहितो रावणः क्रोध मूर्चितः । पश्यमानः समुद्रम् च पर्वतामः च वनानि च ॥६-२६-६॥ ददर्श पृथिवी देशम् सुसम्पूर्णम् प्लवम् गमैः । तद् अपारम् असम्ख्येयम् वानराणाम् महद् बलम् ॥६-२६-७॥ आलोक्य रावणो राजा परिपप्रच्च सारणम् । एषाम् वानर मुख्यानाम् के शूराः के महाबलाः ॥६-२६-८॥ के पूर्वम् अभिवर्तन्ते महाउत्साहाः समन्ततः । केषाम् शृणोति सुग्रीवः के वा यूथप यूथपाः ॥६-२६-९॥ सारण आचक्ष्व मे सर्वम् के प्रधानाः प्लवम् गमाः । सारणो राक्षस इन्द्रस्य वचनम् परिपृच्चतः ॥६-२६-१०॥ आचचक्षे अथ मुख्यज्ञो मुख्याम्स् ताम्स् तु वन ओकसः । एष यो अभिमुखो लंकाम् नर्दम्स् तिष्ठति वानरः ॥६-२६-११॥ यूथपानाम् सहस्राणाम् शतेन परिवारितः । यस्य घोषेण महता सप्राकारा सतोरणा ॥६-२६-१२॥ लंका प्रवेपते सर्वा सशैल वन कानना । सर्व शाखा मृग इन्द्रस्य सुग्रीवस्य महात्मनः ॥६-२६-१३॥ बल अग्रे तिष्ठते वीरो नीलो नाम एष यूथपः । बाहू प्रगृह्य यः पद्भ्याम् महीम् गच्चति वीर्यवान् ॥६-२६-१४॥ लंकाम् अभिमुखः कोपाद् अभीक्ष्णम् च विजृम्भते । गिरि शृन्ग प्रतीकाशः पद्म किन्जल्क सम्निभः ॥६-२६-१५॥ स्फोटयति अभिसम्रब्धो लान्गूलम् च पुनः पुनः । यस्य लान्गूल शब्देन स्वनन्ति इव दिशो दश ॥६-२६-१६॥ एष वानर राजेन सुर्ग्रीवेण अभिषेचितः । यौवराज्ये अन्गदो नाम त्वाम् आह्वयति सम्युगे ॥६-२६-१७॥ वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः । राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा ॥६-२६-१८॥ एतस्य सा मतिः सर्वा यद्दृष्टा जनकात्मजा । हनूमता वेगवता राघवस्य हितैषिणा ॥६-२६-१९॥ बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान् । परिगृह्याभियाति त्वाम् स्वेनानीकेन मर्दितुम् ॥६-२६-२०॥ अनुवालिसुतस्यापि बलेन महता वृतः । वीरस्तिष्ठति सम्ग्रामे सेतुहेतुरयम् नलः ॥६-२६-२१॥ ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च । उत्थाय च विजृम्भन्ते क्रोधेन हरि पुम्गवाः ॥६-२६-२२॥ एते दुष्प्रसहा घोराः चण्डाः चण्ड पराक्रमाः । अष्टौ शत सहस्राणि दश कोटि शतानि च ॥६-२६-२३॥ य एनम् अनुगच्चन्ति वीराः चन्दन वासिनः । एष आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-२४॥ श्वेतो रजत सम्काशः सबलो भीम विक्रमः । बुद्धिमान् वानरः शूरस् त्रिषु लोकेषु विश्रुतः ॥६-२६-२५॥ तूर्णम् सुग्रीवम् आगम्य पुनर् गच्चति वानरः । विभजन् वानरीम् सेनाम् अनीकानि प्रहर्षयन् ॥६-२६-२६॥ यः पुरा गोमती तीरे रम्यम् पर्येति पर्वतम् । नाम्ना सम्कोचनो नाम नाना नग युतो गिरिः ॥६-२६-२७॥ तत्र राज्यम् प्रशास्ति एष कुमुदो नाम यूथपः । यो असौ शत सहस्राणाम् सहस्रम् परिकर्षति ॥६-२६-२८॥ यस्य वाला बहु व्यामा दीर्घ लान्गूलम् आश्रिताः । ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर कर्मणः ॥६-२६-२९॥ अदीनो रोषणः चण्डः सम्ग्रामम् अभिकान्क्षति । एष एव आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-३०॥ यस् त्व् एष सिम्ह सम्काशः कपिलो दीर्घ केसरः । निभृतः प्रेक्षते लंकाम् दिधक्षन्न् इव चक्षुषा ॥६-२६-३१॥ विन्ध्यम् कृष्ण गिरिम् सह्यम् पर्वतम् च सुदर्शनम् । राजन् सततम् अध्यास्ते रम्भो नाम एष यूथपः ॥६-२६-३२॥ शतम् शत सहस्राणाम् त्रिम्शच् च हरि यूथपाः । यम् यान्तम् वानरा घोराश्चण्डाश्चण्ड्पराक्रमाः ॥६-२६-३३॥ परिवार्य अनुगच्चन्ति लंकाम् मर्दितुम् ओजसा । यस् तु कर्णौ विवृणुते जृम्भते च पुनः पुनः ॥६-२६-३४॥ न च सम्विजते मृत्योर् न च यूथाद् विधावति । प्रकम्पते च रोषेन तिर्यक्च पुनरीक्षते ॥६-२६-३५॥ पश्यन् लाङ्गूलमपि च क्स्वेडत्येष महाबलः । महाबलो वीत भयो रम्यम् साल्वेय पर्वतम् ॥६-२६-३६॥ राजन् सततम् अध्यास्ते शरभो नाम यूथपः । एतस्य बलिनः सर्वे विहारा नाम यूथपाः ॥६-२६-३७॥ राजन् शत सहस्राणि चत्वारिम्शत् तथैव च । यस् तु मेघ इव आकाशम् महान् आवृत्य तिष्ठति ॥६-२६-३८॥ मध्ये वानर वीराणाम् सुराणाम् इव वासवः । भेरीणाम् इव सम्नादो यस्य एष श्रूयते महान् ॥६-२६-३९॥ घोरः शाखा मृग इन्द्राणाम् सम्ग्रामम् अभिकान्क्षताम् । एष पर्वतम् अध्यास्ते पारियात्रम् अनुत्तमम् ॥६-२६-४०॥ युद्धे दुष्प्रसहो नित्यम् पनसो नाम यूथपः । एनम् शत सहस्राणाम् शत अर्धम् पर्युपासते ॥६-२६-४१॥ यूथपा यूथप श्रेष्ठम् येषाम् यूथानि भागशः । यस् तु भीमाम् प्रवल्गन्तीम् चमूम् तिष्ठति शोभयन् ॥६-२६-४२॥ स्थिताम् तीरे समुद्रस्य द्वितीय इव सागरः । एष दर्दर सम्काशो विनतो नाम यूथपः ॥६-२६-४३॥ पिबमः चरति पर्णाशाम् नदीनाम् उत्तमाम् नदीम् । षष्टिः शत सहस्राणि बलम् अस्य प्लवम् गमाः ॥६-२६-४४॥ त्वाम् आह्वयति युद्धाय क्रथनो नाम यूथपः । विक्रान्ता बलवन्तश्च यथा यूथानि भागशः ॥६-२६-४५॥ यस् तु गैरिक वर्ण आभम् वपुः पुष्यति वानरः । अवमत्य सदा सर्वान्वानरान् बलदर्पितः ॥६-२६-४६॥ गवयो नाम तेजस्वी त्वाम् क्रोधाद् अभिवर्तते । एनम् शत सहस्राणि सप्ततिः पर्युपासते । एष आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-४७॥ एते दुष्प्रसहा घोरा बलिनः काम रूपिणः । यूथपा यूथप श्रेष्ठा येषाम् सम्ख्या न विद्यते ॥६-२६-४८॥
इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे षड्विंशः सर्गः ॥६-२६॥