"रामायणम्/युद्धकाण्डम्/सर्गः २३" इत्यस्य संस्करणे भेदः
< रामायणम् | युद्धकाण्डम्
Content deleted Content added
→बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:काव्यम् using AWB |
→बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:Hinduism using AWB |
||
पङ्क्तिः ६७: | पङ्क्तिः ६७: | ||
==बाहरी कडियाँ== |
==बाहरी कडियाँ== |
||
[[वर्गः:Hinduism]] |
|||
[[वर्गः:रामायणम्/युद्धकाण्डम्]] |
[[वर्गः:रामायणम्/युद्धकाण्डम्]] |
०५:४६, २० जनवरी २०१६ इत्यस्य संस्करणं
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रयोविंशः सर्गः ॥६-२३॥
निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः । सौमित्रिम् सम्परिष्वज्य इदम् वचनम्ब्रवीत् ॥६-२३-१॥ परिगृह्योदकम् शीतम् वनानि फलवन्ति च । बलौ घम् सम्विभज्येमम् व्यूह्य तिष्ठेम लक्ष्मण ॥६-२३-२॥ लोकक्षयकरम् भीमम् भयम् पश्याम्युपस्थितम् । प्रबर्हणम् प्रवीराणामृक्षवानररक्षसाम् ॥६-२३-३॥ वाताश्च कलुषा वान्ति कम्पते च वसुन्धरा । पर्वताग्राणि वेपन्ते पतन्ति च महीरुःआः ॥६-२३-४॥ मेघाः क्रव्यादसम्काशाः परुषाः परुषस्वनाः । क्रूराः क्रूरम् प्रवर्षन्ति मिश्रम् शोणितबिन्दुभिः ॥६-२३-५॥ रक्तचन्दनसम्काशा सम्ध्या परमदारुणा । ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम् ॥६-२३-६॥ दीना दीनस्वराः क्रूराः सर्वतो मृगपक्षिणः । प्रत्यादित्यम् विनर्दन्ति जनयन्तो महद्भयम् ॥६-२३-७॥ रजन्यामप्रकाशस्तु सम्तापयति चन्द्रमाः । कृष्णरक्ताम्शुपर्यन्तो लोकक्षय इवोदितः ॥६-२३-८॥ ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषस्तु लोहितः । आदित्ये विमले वीलम् लक्ष्म लक्ष्मण दृश्यते ॥६-२३-९॥ रजसा महता चापि नक्षत्राणि हतानि च । युगान्तमिव लोकानाम् पश्य शसन्ति लक्ष्मण ॥६-२३-१०॥ काकाः श्येनास्तथा नीचा गृध्राः परिपतन्ति च । शिवाश्चाप्यशुभान्नादान्नदन्ति सुमहाभयान् ॥६-२३-११॥ शैलैः शूलैश्च खड्गैश्च विमुकैः कपिराक्षसैः । भविष्यत्यावृता भूमिर्माम्सशोणितकर्दमा ॥६-२३-१२॥ क्षिप्रमद्यैव दुर्धर्षाम् पुरीम् रावणपालिताम् । अभियाम जवेनैव सर्वैर्हरिभिरावृताः ॥६-२३-१३॥ इत्येवमुक्त्वा धन्वी स रामः सम्ग्रामधर्षणः । प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः ॥६-२३-१४॥ सविभीषणसुग्रीवाः सर्वे ते वानरर्षभाः । प्रतस्थिरे विनर्दन्तो धृतानाम् द्विषताम् वधे ॥६-२३-१५॥ राघवस्य प्रियार्थम् तु सुतराम् वीर्यशालिनाम् । हरीणाम् कर्मचेष्टाभिस्तुतोष रघुनन्दनः ॥६-२३-१६॥
इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे त्रयोविंशः सर्गः ॥६-२३॥