"रामायणम्/युद्धकाण्डम्/सर्गः २२" इत्यस्य संस्करणे भेदः
< रामायणम् | युद्धकाण्डम्
Content deleted Content added
→बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:काव्यम् using AWB |
→बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:Hinduism using AWB |
||
पङ्क्तिः २८५: | पङ्क्तिः २८५: | ||
==बाहरी कडियाँ== |
==बाहरी कडियाँ== |
||
[[वर्गः:Hinduism]] |
|||
[[वर्गः:रामायणम्/युद्धकाण्डम्]] |
[[वर्गः:रामायणम्/युद्धकाण्डम्]] |
०५:४६, २० जनवरी २०१६ इत्यस्य संस्करणं
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्वाविंशः सर्गः ॥६-२२॥
अथोवाच रघुश्रेष्ठः सागरम् दारुणम् वचः । अद्य त्वाम् शोषयिष्यामि सपातालम् महार्णव ॥६-२२-१॥ शरनिर्दग्धतोयस्य परिशुष्कस्य सागर । मया निहतसत्त्वस्य पाम्सुरुत्पद्यते महान् ॥६-२२-२॥ मत्कार्मुकनिसृष्टेन शरवर्षेण सागर । परम् तीरम् गमिष्यन्ति पद्भिरेव प्लवङ्गमाः ॥६-२२-३॥ विचिन्वन्नाभिजानासि पौरुषम् वापि विक्रमम् । दाव्नवालय सम्तापम् मत्तो नाम गमिष्यसि ॥६-२२-४॥ ब्राह्मेणास्त्रेण सम्योज्य ब्रह्मदण्डनिभम् शरम् । सम्योज्य धनुषि श्रे ष्ठे विचकर्ष महाबलः ॥६-२२-५॥ तस्मिन्विकृष्टे सहसा राघवेण शरासने । रोदसी सम्पफालेव पर्वताश्च चकम्पिरे ॥६-२२-६॥ तमश्च लोकमावव्रे दिशश्च न चकाशिरे । प्रतिचुक्षुभिरे चाशु सराम्सि सरितस्तदा ॥६-२२-७॥ तिर्यक् च सह नक्षत्रैः सम्गतौ चन्द्रभास्करौ । भास्कराम्शुभिरादीप्तम् तमसा च समावृतम् ॥६-२२-८॥ प्रचकाशे तदाकाशमुल्काशतविदीपितम् । अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः ॥६-२२-९॥ वपुःप्रकर्षेण ववुर्दिव्यमारुतपङ्क्त्यः । बभञ्ज च तदा वृक्षान् जलदानुद्वहन् मुहुः ॥६-२२-१०॥ आरुजम्श्चैव शैलाग्रान् शिखराणि बभञ्ज च । दिवि च स्म महावेगाः सम्हताः समहास्वनाः ॥६-२२-११॥ मुमुचुर्वैद्युतानग्नीम्स्ते महाशनयस्तदा । यानि भूतानि दृश्यानि चुक्रुशुश्चाशनेः समम् ॥६-२२-१२॥ अदृश्यानि च भूतानि मुमुचुर्भैरवस्वनम् । शिश्यरे चाभिभूतानि सम्त्रस्ताम्यद्विजन्ति च ॥६-२२-१३॥ सम्प्रविव्यथिरे चापि न च पस्पन्दिरे भयात् । सहभूतैः सतोयोर्मिः सनागः सहराक्षसः ॥६-२२-१४॥ सहसाभूत्ततो वेगाद्भीमवेगो महोदधिः । योजनम् व्यतिचक्राम वेलामन्यत्र सम्प्लवात् ॥६-२२-१५॥ तम् तथा समतिक्रान्तम् नातिचक्राम राघवः । समुद्धतममित्रघ्नो रामो नदनदीपतिम् ॥६-२२-१६॥ ततो मध्यात् समुद्रस्य सागरः स्वयम् उत्थितः । उदयन् हि महाशैलान् मेरोर् इव दिवा करः ॥६-२२-१७॥ पन्नगैः सह दीप्त आस्यैः समुद्रः प्रत्यदृश्यत । स्निग्ध वैदूर्य सम्काशो जाम्बू नद विभूषितः ॥६-२२-१८॥ रत्न माल्य अम्बर धरः पद्म पत्र निभ ईक्षणः । सर्वपुष्पमयीम् दिव्याम् शिरसा धारयन् स्रजम् ॥६-२२-१९॥ जातरूपमयैश्चैव तपनीयविभूषितो भूषणोत्तमैः । आत्मजानाम् च रत्नानाम् भूषितो भूषणोत्तमैः ॥६-२२-२०॥ धातुभिर्मण्डितः शैलो विविधैर्हमवानिव । एकावलीमध्यगतम् तरलम् पाण्डरप्रभम् ॥६-२२-२१॥ विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम् । आघूर्णिततरङ्गौघःकालिकानिलसम्कुलः ॥६-२२-२२॥ गङ्गासिन्धुप्रधानाभिरापगाभिः समावृतः । देवतानाम् सरूपाभिर्नानारूपाभिरीश्वरः ॥६-२२-२३॥ सागरः समतिक्रम्य पूर्वम् आमन्त्र्य वीर्यवान् । अब्रवीत् प्रान्जलिर् वाक्यम् राघवम् शर पाणिनम् ॥६-२२-२४॥ पृथिवी वायुर् आकाशम् आपो ज्योतिः च राघवः । स्वभावे सौम्य तिष्ठन्ति शाश्वतम् मार्गम् आश्रिताः ॥६-२२-२५॥ तत् स्वभावो मम अपि एष यद् अगाधो अहम् अप्लवः । विकारस् तु भवेद् राध एतत् ते प्रवदामि अहम् ॥६-२२-२६॥ न कामान् न च लोभाद् वा न भयात् पार्थिव आत्मज । रागान्नक्राकुलजलम् स्तम्भयेयम् कथम्चन ॥६-२२-२७॥ विधास्ये येन गन्तासि विषहिष्ये ह्यहम् तथा । न ग्राहा विधमिष्यन्ति यावत्सेना तरिष्यति ॥६-२२-२८॥ हरीणाम् तरणे राम करिष्यामि यथास्थलम् । तमब्रवीत्तदा रामः शृणु मे वरुणालय ॥६-२२-२९॥ अमोघोऽयम् महाबाणः कस्मिन् देशे निपात्यताम् । रामस्य वचनम् श्रुत्वा तम् च दृष्ट्वा महाशरम् ॥६-२२-३०॥ महोदधिर्महातेजा राघवम् वाक्यमब्रवीत् । उत्तरेणावकाशोऽस्ति कश्चित्पुण्यतरो मम ॥६-२२-३१॥ द्रुमकुल्य इति ख्यातो लोके ख्यातो यथा भवान् । उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः ॥६-२२-३२॥ आभीरप्रमुखाः पापाः पिबन्ति सलिलम् मम । तैर्न तत्स्पर्शनम् पापम् सहेयम् पापकर्मभिः ॥६-२२-३३॥ अमोघः क्रियताम् राम तत्र तेषु शरोत्तमः । तस्य तद्वचनम् श्रुत्वा सागरस्य महात्मनः ॥६-२२-३४॥ मुमोच तम् शरम् दीप्तम् परम् सागरदर्शनात् । तेन तन्मरुकान्तारम् प्^इथिव्याम् किल विश्रुतम् ॥६-२२-३५॥ विपातितः शरो यत्र वज्राशनिसमप्रभः । ननाद च तदा तत्र वसुधा शल्यपीडिता ॥६-२२-३६॥ तस्माद्बाणमुखात्तोयमुत्पपात रसातलात् । स बभूव तदा कूपो व्रण इत्येव विश्रुतः ॥६-२२-३७॥ सततम् चोत्थितम् तोयम् समुद्रस्येव दृश्यते । अवदारणशब्दश्च दारुणः समपद्यत ॥६-२२-३८॥ तस्मात्तद्बाणपातेन अपः कुक्षिष्वशोषयत् । विख्यातम् त्रिषु लोकेषु मधुकान्तारमेव च ॥६-२२-३९॥ शोषयित्वा तु तम् कुक्षिम् रामो दशरथात्मजः । वरम् तस्मै ददौ विद्वान्मरवेऽमरविक्रमः ॥६-२२-४०॥ पशव्यश्चाल्परोगश्च फलमूलरसायुतः । बहुस्नेहो बहुक्षीरः सुगन्धिर्विविधौषधिः ॥६-२२-४१॥ एवमेतैर्गुणैर्युक्तो बहिभिः सम्युतो मरुः । रामस्य वरदानाच्च शिवः पन्था बभूव ह ॥६-२२-४२॥ तस्मिन् दग्धे तदा कुक्षौ समुद्रः सरिताम् पतिः । राघवम् सर्वशास्त्रज्ञमिदम् वचनम्ब्रवीत् ॥६-२२-४३॥ अयम् सौम्य नलो नाम तनुजो विश्व कर्मणः । पित्रा दत्त वरः श्रीमान् प्रतिमो विश्व कर्मणः ॥६-२२-४४॥ एष सेतुम् महाउत्साहः करोतु मयि वानरः । तम् अहम् धारयिष्यामि तथा हि एष यथा पिता ॥६-२२-४५॥ एवम् उक्त्वा उदधिर् नष्टः समुत्थाय नलस् ततः । अब्रवीद् वानर श्रेष्ठो वाक्यम् रामम् महाबलः ॥६-२२-४६॥ अहम् सेतुम् करिष्यामि विस्तीर्णे वरुण आलये । पितुः सामर्थ्यम् आस्थाय तत्त्वम् आह महाउदधिः ॥६-२२-४७॥ असौ तु सागरो भीमः सेतुकर्मदिदृक्षया । ददौ दण्डभयाद्गाधम् राघवाय महोदधिः ॥६-२२-४८॥ मम मातुर् वरो दत्तो मन्दरे विश्व कर्मणा । औरसस् तस्य पुत्रो अहम् सदृशो विश्व कर्मणा ॥६-२२-४९॥ औरसस्तस्य पुत्रोऽहम् सदृशो विश्वकर्मणा। स्मारितोऽस्म्यहमेतेन तत्त्वमाह महोदधिः ॥६-२२-५०॥ न च अपि अहम् अनुक्तो वै प्रब्रूयाम् आत्मनो गुणान् । समर्थ्श्चाप्यहम् सेतुम् कर्तुम् वै वरुणालये ॥६-२२-५१॥ तस्मादद्यैव बध्नन्तु सेतुम् वानरपुङ्गवाः । ततो निसृष्ट रामेण सर्वतो हरि यूथपाः ॥६-२२-५२॥ अभिपेतुर् महाअरण्यम् हृष्टाः शत सहस्रशः । ते नगान् नग सम्काशाः शाखा मृग गण ऋषभाः ॥६-२२-५३॥ बभन्जुर् वानरास् तत्र प्रचकर्षुः च सागरम् । ते सालैः च अश्व कर्णैः च धवैर् वम्शैः च वानराः ॥६-२२-५४॥ कुटजैर् अर्जुनैस् तालैस् तिकलैस् तिमिशैर् अपि । बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः ॥६-२२-५५॥ चूतैः च अशोक वृक्षैः च सागरम् समपूरयन् । समूलामः च विमूलामः च पादपान् हरि सत्तमाः ॥६-२२-५६॥ इन्द्र केतून् इव उद्यम्य प्रजह्रुर् हरयस् तरून् । तालान् दाडिमगुल्माम्श्च नारिकेलविभीतकान् ॥६-२२-५७॥ करीरान् बकुलान्निम्बान् समाजह्रुरितस्ततः । हस्तिमात्रान् महाकायाः पाषाणाम्श्च महाबलाः ॥६-२२-५८॥ पर्वताम्श्च समुत्पाट्य यन्त्रैः परिवहन्ति च । प्रक्षिप्यमाणैर् अचलैः सहसा जलम् उद्धतम् ॥६-२२-५९॥ समुत्पतितम् आकाशम् अपासर्पत् ततस् ततः । समुद्रम् क्षोभयामासुर्निपतन्तः समन्ततः ॥६-२२-६०॥ सूत्राण्यन्ये प्रगृह्णन्ति ह्यायतम् शतयोजनम् । नलः चक्रे महासेतुम् मध्ये नद नदी पतेः ॥६-२२-६१॥ स तदा क्रियते सेतुर्वानरै र्घोरकर्मभिः । दण्डनन्ये प्रगृह्णन्ति विचिन्वन्ति तथापरे ॥६-२२-६२॥ वानरैः शतशस्तत्र रामस्यज्ञापुरःसरैः । मेघाभैः पर्वताभश्च तृणैः काष्ठैर्बबन्धरे ॥६-२२-६३॥ पुष्पिताग्रैश्च तरुभिः सेतुम् बध्नन्ति वानराः । पाषाणाम्श्च गिरिप्रख्यान् गिरीणाम् शिखराणि च ॥६-२२-६४॥ दृश्यन्ते परिधावन्तो गृह्य दानवसम्निभाः । शिलानाम् क्षिप्यमाणानाम् शैलानाम् तत्र पात्यताम् ॥६-२२-६५॥ बभूव तुमुलः शब्दस् तदा तस्मिन् महाउदधौ । कृतानि प्रथमेनाह्ना योजनानि चतुर्दश ॥६-२२-६६॥ प्रहृष्टैजसम्काशैस्त्वरमाणैः प्लवङ्गमैः । द्वितीयेन तथैवाह्ना योजनानि तु विशतिः ॥६-२२-६७॥ कृतानि प्लवगैस्तूर्णम् भीमकायैर्महाबलैः । अह्ना तृतीयेन तथा योजनानि तु सागरे ॥६-२२-६८॥ त्वरमाणैर्महाकयैरेकविम्शतिरेव च । चतुर्थेन तथा चाह्ना द्वाविम्शतिरथापि वा ॥६-२२-६९॥ योजनानि महावेगैः कृतानि त्वरितैस्ततः । पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः ॥६-२२-७०॥ योजनानि त्रयोविम्शत्सुवेलमधिकृत्य वै । स वानरवरः श्रीमान् विश्वकर्मात्मजो बली ॥६-२२-७१॥ बबन्ध सागरे सेतुम् यथा चास्य तथा पिता । स नलेन कृतः सेतुः सागरे मकर आलये ॥६-२२-७२॥ शुशुभे सुभगः श्रीमान् स्वाती पथ इव अम्बरे । ततो देवाः सगन्धर्वाः सिद्धाः च परम ऋषयः ॥६-२२-७३॥ आगम्य गगने तस्थुर्द्रष्टुकामास्तदद्भुतम् । दशयोजनविस्तीर्णम् शतयोजन मायतम् ॥६-२२-७४॥ ददृशुर्देवगन्धर्वा नलसेतुम् सुदुष्करम् । आप्लवन्तः प्लवन्तः च गर्जन्तः च प्लवम् गमाः ॥६-२२-७५॥ तम् अचिन्त्यम् असह्यम् च अद्भुतम् लोम हर्षणम् । ददृशुः सर्व भूतानि सागरे सेतु बन्धनम् ॥६-२२-७६॥ तानि कोटि सहस्राणि वानराणाम् महाओजसाम् । बध्नन्तः सागरे सेतुम् जग्मुः पारम् महाउदधेः ॥६-२२-७७॥ विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः । अशोभत महासेतुः सीमन्त इव सागरे ॥६-२२-७८॥ ततः परे समुद्रस्य गदा पाणिर् विभीषणः । परेषाम् अभिघत अर्थम् अतिष्ठत् सचिवैः सह ॥६-२२-७९॥ सुग्रीवस्तु ततः प्राह रामम् सत्यपराक्रमम् । हनुमन्तम् त्वमारोह अङ्गदम् त्वथ लक्ष्मणः ॥६-२२-८०॥ अयम् हि विपुलो वीर सागरो मकरालयः । वैहायसौ युवामेतौ वानरौ धारयिष्यतः ॥६-२२-८१॥ अग्रतस् तस्य सैन्यस्य श्रीमान् रामः सलक्ष्मणः । जगाम धन्वी धर्म आत्मा सुग्रीवेण समन्वितः ॥६-२२-८२॥ अन्ये मध्येन गच्चन्ति पार्श्वतो अन्ये प्लवम् गमाः । सलिले प्रपतन्ति अन्ये मार्गम् अन्ये न लेभिरे ॥६-२२-८३॥ केचिद् वैहायस गताः सुपर्णा इव पुप्लुवुः । घोषेण महता घोषम् सागरस्य समुच्च्रितम् ॥६-२२-८४॥ भीमम् अन्तर् दधे भीमा तरन्ती हरि वाहिनी । वानराणाम् हि सा तीर्णा वाहिनी नल सेतुना ॥६-२२-८५॥ तीरे निविविशे राज्ञा बहु मूल फल उदके । तद् अद्भुतम् राघव कर्म दुष्करम् । समीक्ष्य देवाः सह सिद्ध चारणैः । उपेत्य रामम् सहिता महर्षिभिः । समभ्यषिन्चन् सुशुभिअर् जलैः पृथक् ॥६-२२-८६॥ जयस्व शत्रून् नर देव मेदिनीम् । ससागराम् पालय शाश्वतीः समाः । इति इव रामम् नर देव सत्कृतम् । शुभैर् वचोभिर् विविधैर् अपूजयन् ॥६-२२-८७॥
इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे द्वाविंशः सर्गः ॥६-२२॥