"रामायणम्/युद्धकाण्डम्/सर्गः २१" इत्यस्य संस्करणे भेदः
< रामायणम् | युद्धकाण्डम्
Content deleted Content added
→बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:काव्यम् using AWB |
→बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:Hinduism using AWB |
||
पङ्क्तिः १२९: | पङ्क्तिः १२९: | ||
==बाहरी कडियाँ== |
==बाहरी कडियाँ== |
||
[[वर्गः:Hinduism]] |
|||
[[वर्गः:रामायणम्/युद्धकाण्डम्]] |
[[वर्गः:रामायणम्/युद्धकाण्डम्]] |
०५:४५, २० जनवरी २०१६ इत्यस्य संस्करणं
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकविंशः सर्गः ॥६-२१॥
ततः सागरवेलायाम् दर्भानास्तीर्य राघवः । अञ्जलिम् प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ॥६-२१-१॥ बाहुम् भुजङ्गभोगाभमुपधायारिसूदनः । मणिकाञ्चनकेयूरमुक्ताप्रवरभूषणैः ॥६-२१-२॥ भुजैः परमनारीणामभिमृष्टमनेकधा ॥६-२१-३॥ चन्दनागुरुभिश्चैव पुरस्तादभिसेवितम् ॥६-२१-४॥ बालसूर्यप्रकाशैश्च चन्दनैरुपशोभितम् । शयने चोत्तमाङ्गेन सीतायाः शोभितम् पुरा ॥६-२१-५॥ तक्षकस्येव सम्भोगम् गङ्गाजलनिषेवितम् । सम्गे युगसम्काशम् शत्रूणाम् शोकवर्धनम् ॥६-२१-६॥ सुह्R^दाम् नन्दनम् दीर्घम् सागरान्तव्यपाश्रयम् । अस्यता च पुनः सव्यम् ज्याघातविगतत्वचम् । दक्षिणो कक्षिणम् बहुम् महापरिघसम्निभम् ॥६-२१-७॥ गोसहस्रप्रदातारम् ह्युपधाय भुजम् महत् । अद्य मे मरणम् वाथ तरणम् सागरस्य वा ॥६-२१-८॥ इति रामो धृतिम् कृत्वा महाबाहुर्महोदधिम् । अधिशिश्ये च विधिवत्प्रयतोऽत्र स्थितो मुनिः ॥६-२१-९॥ तस्य रामस्य सुप्तस्य कुश आस्तीर्णे मही तले । नियमाद् अप्रमत्तस्य निशास् तिस्रो अतिचक्रमुः ॥६-२१-१०॥ स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः । उपासत तदा रामः सागरम् सरिताम् पतिम् ॥६-२१-११॥ न च दर्शयते मन्दस् तदा रामस्य सागरः । प्रयतेन अपि रामेण यथा अर्हम् अभिपूजितः ॥६-२१-१२॥ समुद्रस्य ततः क्रुद्धो रामो रक्त अन्त लोचनः । समीपस्थम् उवाच इदम् लक्ष्मणम् शुभ लक्ष्मणम् ॥६-२१-१३॥ अवलेपम् समुद्रस्य न दर्शयति यत् स्वयम् । प्रशमः च क्षमा चैव आर्जवम् प्रिय वादिता ॥६-२१-१४॥ असामर्थ्यम् फलन्ति एते निर्गुणेषु सताम् गुणाः । आत्म प्रशम्सिनम् दुष्टम् धृष्टम् विपरिधावकम् ॥६-२१-१५॥ सर्वत्र उत्सृष्ट दण्डम् च लोकः सत् कुरुते नरम् । न साम्ना शक्यते कीर्तिर् न साम्ना शक्यते यशः ॥६-२१-१६॥ प्राप्तुम् लक्ष्मण लोके अस्मिन् जयो वा रण मूधनि । अद्य मद् बाण निर्भिन्नैर् मकरैर् मकर आलयम् । निरुद्ध तोयम् सौमित्रे प्लवद्भिः पश्य सर्वतः ॥६-२१-१७॥ भोगामः च पश्य नागानाम् मया भिन्नानि लक्ष्मण ॥६-२१-१८॥ महाभोगानि मत्स्यानाम् करिणाम् च करान् इह । सशन्ख शुक्तिका जालम् समीन मकरम् शरैः ॥६-२१-१९॥ अद्य युद्धेन महता समुद्रम् परिशोषये । क्षमया हि समायुक्तम् माम् अयम् मकर आलयः ॥६-२१-२०॥ असमर्थम् विजानाति धिक् क्षमाम् ईदृशे जने । स दर्शयति साम्ना मे सागरो रूपमात्मनः ॥६-२१-२१॥ चापम् आनय सौमित्रे शरामः च आशी विष उपमान् । समुद्रम् शोषयिष्यामि पद्भ्याम् यान्तु प्लवङ्गमाः ॥६-२१-२२॥ अद्य अक्षोभ्यम् अपि क्रुद्धः क्षोभयिष्यामि सागरम् । वेलासु कृत मर्यादम् सहसा ऊर्मि समाकुलम् ॥६-२१-२३॥ निर्मर्यादम् करिष्यामि सायकैर् वरुण आलयम् । महार्णवम् क्षोBहयिष्ये महादानवसम्कुलम् ॥६-२१-२४॥ एवम् उक्त्वा धनुष् पाणिः क्रोध विस्फारित ईक्षणः । बभूव रामो दुर्धर्षो युग अन्त अग्निर् इव ज्वलन् ॥६-२१-२५॥ सम्पीड्य च धनुर् घोरम् कम्पयित्वा शरैर् जगत् । मुमोच विशिखान् उग्रान् वज्राणि इव शत क्रतुः ॥६-२१-२६॥ ते ज्वलन्तो महावेगास् तेजसा सायक उत्तमाः । प्रविशन्ति समुद्रस्य सलिलम् त्रस्त पन्नगम् ॥६-२१-२७॥ ततो वेगः समुद्रस्य सनक्र मकरो महान् । स बभूव महाघोरः समारुत रवस् तदा ॥६-२१-२८॥ महाऊर्मि माला विततः शन्ख शुक्ति समाकुलः । सधूम परिवृत्त ऊर्मिः सहसा अभून् महाउदधिः ॥६-२१-२९॥ व्यथिताः पन्नगाः च आसन् दीप्त आस्या दीप्त लोचनाः । दानवाः च महावीर्याः पाताल तल वासिनः ॥६-२१-३०॥ ऊर्मयः सिन्धु राजस्य सनक्र मकरास् तदा । विन्ध्य मन्दर सम्काशाः समुत्पेतुः सहस्रशः ॥६-२१-३१॥ आघूर्णित तरन्ग ओघः सम्ब्भ्रान्त उरग राक्षसः । उद्वर्तित महाग्राहः सम्वृत्तः सलिल आशयः ॥६-२१-३२॥ ततस्तु तम् राघव मुग्रवेगम् । प्रकर्षमाणम् ध्मरप्रमेयम् । सौमित्रिरुत्पत्य विनिःश्वसन्तम् । मामेति चोक्त्वा धनुराललम्बे ॥६-२१-३३॥ एतद्विनापि ह्युदधेस्तवार्य । सम्पत्स्यते वीरतमस्य कार्यम् । भवद्विधाः क्रोधवशम् न यान्ति । दीर्घम् भवान्पश्यतु साधुवृत्तम् ॥६-२१-३४॥ अन्तर्हितैश्चापि तथान्तरिक्षे । ब्रह्मर्षिभिश्चैव सुरर्षिभिश्च । शब्दः कृतः कष्टमिति ब्रुवद्भि । र्मा मेति चोक्त्वा महता स्वरेण ॥६-२१-३५॥
इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे एकविंशः सर्गः ॥६-२१॥