"रामायणम्/युद्धकाण्डम्/सर्गः १३" इत्यस्य संस्करणे भेदः
< रामायणम् | युद्धकाण्डम्
Content deleted Content added
→बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:काव्यम् using AWB |
→बाहरी कडियाँ: वाल्मीकिरामायणम्, removed: वर्गः:Hinduism using AWB |
||
पङ्क्तिः ८४: | पङ्क्तिः ८४: | ||
==बाहरी कडियाँ== |
==बाहरी कडियाँ== |
||
[[वर्गः:Hinduism]] |
|||
[[वर्गः:रामायणम्/युद्धकाण्डम्]] |
[[वर्गः:रामायणम्/युद्धकाण्डम्]] |
०५:४३, २० जनवरी २०१६ इत्यस्य संस्करणं
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रयोदशः सर्गः ॥६-१३॥
रावणम् क्रुद्धमाज्ञाय महापार्श्वो महाबलः । मुहूर्त मनुसम्चिन्त्य प्राञ्जलिर्वाक्य मब्रवीत् ॥६-१३-१॥ यः खल्वपि वनम् प्राप्य मृगव्यालनिषेवितम् । न पिबेन्मधु सम्प्राप्य स नरो बालिशो ध्रुवम् ॥६-१३-२॥ ईश्वरस्येश्वरः कोऽस्ति तव शत्रुनिबर्हण । रमस्व सह वैदेह्या शत्रूनाक्रम्य मूर्धसु ॥६-१३-३॥ बलात्कुक्कुटवृत्तेन प्रवर्तस्व महाबल । अक्रम्याक्रम्य सीताम् वै ताम् भुङिक्स्व च रमस्व च ॥६-१३-४॥ लब्धकामस्य ते पश्चादागमिष्यति किम् भयम् । प्राप्तमप्राप्तकालम् वा सर्वम् प्रतिविधास्यते ॥६-१३-५॥ कुम्भकर्णः सहास्माभिरिन्द्रजिच्च महाबलः । प्रतिषेधयितुम् शक्तौ सवज्रमपि वज्रिणम् ॥६-१३-६॥ उपप्रदानम् सान्त्वम् वा भेदम् वा कुशलैः कृतम् । समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचये ॥६-१३-७॥ इह प्राप्तान्वयम् सर्वान् शत्रूम्स्तव महाबल । वशे शस्त्रप्रतापेन करिष्यामो न सम्शयः ॥६-१३-८॥ एवमुक्तस्तदा राजा महापार्श्वएन रावणः । तस्य सम्पूजयन्वाक्यमिदम् वचनमब्रवीत् ॥६-१३-९॥ महापार्श्व निबोध त्वम् रहस्यम् किम्चिदात्मनः । चिरवृत्तम् तदाख्यास्ये यदवाप्तम् पुरा मया ॥६-१३-१०॥ पितामहस्य भवनम् गच्चन्तीम् पुञ्जिकस्थलाम् । चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव ॥६-१३-११॥ सा प्रसह्य मया भुक्ता कृता विवसना ततः । स्वयम्भूभवनम् प्राप्ता लोलिता नलिनी यथा ॥६-१३-१२॥ तच्च तस्य तदा मन्ये ज्ञातमासीन्महात्मनः । अथ सम्कुपितो वेधा मामिदम् वाक्यमब्रवी ॥६-१३-१३॥ अद्यप्रभृति यामन्याम् बलान्नारीम् गमिष्यसि । तदा ते शतधा मुर्धा फलिष्यति न सम्शयः ॥६-१३-१४॥ इत्यहम् तस्य शापस्य भीतः प्रसभमेव ताम् । नारोहये बलात्सीताम् वैदेहीम् शय्ने शुभे ॥६-१३-१५॥ सागरस्येव मे वेगो मारुतस्येव मे गतिः । नैतद्दाशरथिर्वेद ह्यापादयति तेन माम् ॥६-१३-१६॥ को हि सिम्हमिवासीनम् सुप्तम् गिरिगुहाशये । क्रुद्धम् मृत्युमिवाऽसीनम् सम्बोधयितुमिच्चति ॥६-१३-१७॥ न मत्तो निर्गतान् बाणान् द्विजिह्वान् पन्न्गानिव । रामः पश्यति सम्ग्रामे तेन मामभिगच्चति ॥६-१३-१८॥ क्षिप्रम् वज्रसमैर्बाणैः शतधा कार्मुकचुतैः । राममादीपयिष्यामि उल्कभिरिव कुञ्जरम् ॥६-१३-१९॥ तच्चास्य बलमादास्ये बलेन महता वृतः । उदितः सविता काले नक्षत्राणाम् प्रभामिव ॥६-१३-२०॥ न वासवेनापि सहस्रचक्षुषा । युधास्मि शक्यो वरुणेन वा पुनः । मया त्वियम् बाहुबलेन निर्जिता । पुरा पुरी वैश्रवणेन पालिता ॥६-१३-२१॥
इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे त्रयोदशः सर्गः ॥६-१३॥