"रामायणम्/युद्धकाण्डम्/सर्गः ३७" इत्यस्य संस्करणे भेदः
< रामायणम् | युद्धकाण्डम्
Content deleted Content added
→बाहरी कडियाँ: रामायणम्/युद्धकाण्डम् using AWB |
वाल्मीकिरामायणम्, removed: {{Ramayana|युद्धकाण्ड}} using AWB |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
{{Ramayana|युद्धकाण्ड}} |
|||
{{रामायणम्/युद्धकाण्डम्}} |
{{रामायणम्/युद्धकाण्डम्}} |
||
०५:३०, २० जनवरी २०१६ इत्यस्य संस्करणं
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तत्रिंशः सर्गः ॥६-३७॥
नर वानर राजौ तौ स च वायु सुतः कपिः । जाम्बवान् ऋक्ष राजसः च राक्षससः च विभीषणः ॥६-३७-१॥ अन्गदो वालि पुत्रसः च सौमित्रिः शरभः कपिः । सुषेणः सह दायादो मैन्दो द्विविद;एव च ॥६-३७-२॥ गजो गव अक्षो कुमुदो नलो अथ पनसस् तथा । अमित्र विषयम् प्राप्ताः समवेताः समर्थयन् ॥६-३७-३॥ इयम् सा लक्ष्यते लन्का पुरी रावण पालिता । सासुर उरग गन्धर्वैर् अमरैर् अपि दुर्जया ॥६-३७-४॥ कार्य सिद्धिम् पुरस् क्Rत्य मन्त्रयध्वम् विनिर्णये । नित्यम् सम्निहितो ह्य् अत्र रावणो राक्षस अधिपः ॥६-३७-५॥ तथा तेषु ब्रुवाणेषु रावण अवरजो अब्रवीत् । वाक्यम् अग्राम्य पदवत् पुष्कल अर्थम् विभीषणः ॥६-३७-६॥ अनलः शरभसः चैव सम्पातिः प्रघसस् तथा । गत्वा लन्काम् मम अमात्याः पुरीम् पुनर् इह आगताः ॥६-३७-७॥ भूत्वा शकुनयः सर्वे प्रविष्टासः च रिपोर् बलम् । विधानम् विहितम् यच् च तद् द्Rष्ट्वा समुपस्थिताः ॥६-३७-८॥ सम्विधानम् यथा आहुस् ते रावणस्य दुरात्मनः । राम तद् ब्रुवतः सर्वम् यथातथ्येन मे शृणु ॥६-३७-९॥ पूर्वम् प्रहस्तः सबलो द्वारम् आसाद्य तिष्ठति । दक्षिणम् च महा वीर्यौ महा पार्श्व महा उदरौ ॥६-३७-१०॥ इन्द्रजित् पश्चिम द्वारम् राक्षसैर् बहुभिर् वृतः । पट्टस असि धनुष्मद्भिः शूल मुद्गर पाणिभिः ॥६-३७-११॥ नाना प्रहरणैः शूरैर् आवृतो रावण आत्मजः । राक्षसानाम् सहस्रैस् तु बहुभिः शस्त्र पाणिभिः ॥६-३७-१२॥ युक्तः परम सम्विग्नो राक्षसैर् बहुभिर् व्Rतः । उत्तरम् नगर द्वारम् रावणः स्वयम् आस्थितः ॥६-३७-१३॥ विरूप अक्षस् तु महता शूल खड्ग धनुष्मता । बलेन राक्षसैः सार्धम् मध्यमम् गुल्मम् आस्थितः ॥६-३७-१४॥ एतान् एवम् विधान् गुल्माम्ल् लन्कायाम् समुदीक्ष्य ते । मामकाः सचिवाः सर्वे शीघ्रम् पुनर् इह आगताः ॥६-३७-१५॥ गजानाम् च सहस्रम् च रथानाम् अयुतम् पुरे । हयानाम् अयुते द्वे च साग्र कोटी च रक्षसाम् ॥६-३७-१६॥ विक्रान्ता बलवन्तसः च सम्युगेष्व् आततायिनः । इष्टा राक्षस राजस्य नित्यम् एते निशा चराः ॥६-३७-१७॥ एक एकस्य अत्र युद्ध अर्थे राक्षसस्य विशाम् पते । परिवारः सहस्राणाम् सहस्रम् उपतिष्ठते ॥६-३७-१८॥ एताम् प्रवृत्तिम् लन्कायाम् मन्त्रि प्रोक्तम् विभीषणः । रामम् कमल पत्र अक्षम् इदम् उत्तरम् अब्रवीत् ॥६-३७-१९॥ लङ्कायाम् सचिवैः रामाय प्रत्यवेदयत् । रामं कमलपत्राक्षमिदमुत्तरमब्रवीत् ॥६-३७-२०॥ रावणावरजः श्रीमान् रामप्रियचिकीर्षया । कुबेरम् तु यदा राम रावणः प्रत्ययुध्यत ॥६-३७-२१॥ षष्टिः शत सहस्राणि तदा निर्यान्ति राक्षसाः । पराक्रमेण वीर्येण तेजसा सत्त्व गौरवात् ॥६-३७-२२॥ सदृशा यो अत्र दर्पेण रावणस्य दुरात्मनः । अत्र मन्युर् न कर्तव्यो रोषये त्वाम् न भीषये ॥६-३७-२३॥ समर्थो ह्य् असि वीर्येण सुराणाम् अपि निग्रहे । तद् भवाम्सः चतुर् अन्गेण बलेन महता वृतः ॥६-३७-२४॥ व्यूह्य इदम् वानर अनीकम् निर्मथिष्यसि रावणम् । रावण अवरजे वाक्यम् एवम् ब्रुवति राघवः ॥६-३७-२५॥ शत्रूणाम् प्रतिघात अर्थम् इदम् वचनम् अब्रवीत् । पूर्व द्वारे तु लन्काया नीलो वानर पुम्गवः ॥६-३७-२६॥ प्रहस्तम् प्रतियोद्धा स्याद् वानरैर् बहुभिर् वृतः । अन्गदो वालि पुत्रस् तु बलेन महता वृतः ॥६-३७-२७॥ दक्षिणे बाधताम् द्वारे महा पार्श्व महा उदरौ । हनूमान् पश्चिम द्वारम् निपीड्य पवन आत्मजः ॥६-३७-२८॥ प्रविशत्व् अप्रमेय आत्मा बहुभिः कपिभिर् वृतः । दैत्य दानव सम्घानाम् ऋषीणाम् च महात्मनाम् ॥६-३७-२९॥ विप्रकार प्रियः क्षुद्रो वर दान बल अन्वितः । परिक्रामति यः सर्वाम्ल् लोकान् सम्तापयन् प्रजाः ॥६-३७-३०॥ तस्य अहम् राक्षस इन्द्रस्य स्वयम् एव वधे धृतः । उत्तरम् नगर द्वारम् अहम् सौमित्रिणा सह ॥६-३७-३१॥ निपीड्य अभिप्रवेक्ष्यामि सबलो यत्र रावणः । वानर इन्द्रसः च बलवान् ऋक्ष राजसः च जाम्बवान् ॥६-३७-३२॥ राक्षस इन्द्र अनुजसः चैव गुल्मे भवतु मध्यमे । न च एव मानुषम् रूपम् कार्यम् हरिभिर् आहवे ॥६-३७-३३॥ एषा भवतु नः सम्ज्ना युद्धे अस्मिन् वानरे बले । वानरा;एव निश्चिह्नम् स्व जने अस्मिन् भविष्यति ॥६-३७-३४॥ वयम् तु मानुषेण एव सप्त योत्स्यामहे परान् । अहम् एव सह भ्रात्रा लक्ष्मणेन महा ओजसा ॥६-३७-३५॥ आत्मना पन्चमसः च अयम् सखा मम विभीषणः । स रामः कार्य सिद्ध्य् अर्थम् एवम् उक्त्वा विभीषणम् ॥६-३७-३६॥ सुवेल आरोहणे बुद्धिम् चकार मतिमान् मतिम् । रमणीयतरम् दृष्ट्वा सुवेलस्य गिरेस्तट्म् ॥६-३७-३७॥ ततस् तु रामो महता बलेन । प्रच्चाद्य सर्वाम् पृथिवीम् महात्मा । प्रहृष्ट रूपो अभिजगाम लन्काम् । कृत्वा मतिम् सो अरि वधे महात्मा ॥६-३७-३८॥
इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे सप्तत्रिंशः सर्गः ॥६-३७॥